By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कामेश्वरसिंह- दरभंगा- संस्कृत- विश्वविद्यालये सर्वासां समस्याणां समाधानं भविष्यति- महामहिमः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कामेश्वरसिंह- दरभंगा- संस्कृत- विश्वविद्यालये सर्वासां समस्याणां समाधानं भविष्यति- महामहिमः
संस्कृतगतिविधयः

कामेश्वरसिंह- दरभंगा- संस्कृत- विश्वविद्यालये सर्वासां समस्याणां समाधानं भविष्यति- महामहिमः

डॉ.अमनदीप शर्मा
Last updated: 2026/04/23 at 6:56 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

कामेश्वरसिंह- दरभंगा- संस्कृत- विश्वविद्यालये सर्वासां समस्याणां समाधानं भविष्यति- महामहिमः
संस्कृतविश्वविद्यालयस्य सीनेट-सभायाः अध्यक्षतां कुर्वता प्रदत्तम् आश्वासनम्
हिमसंस्कृतवार्ता:- राघव नाथ झा, दरभङ्गा।
कामेश्वरसिंह- दरभंगा- संस्कृत- विश्वविद्यालय इत्यस्य दरबारभवने अप्रैलमासस्य द्वाविंशतितमे दिने आयोजितस्य सीनेट-सभायाः एकोनपञ्चाशत्तमस्य अधिवेशनस्य अध्यक्षतां कुर्वता माननीयेन महामहिम्ना राज्यपालेन लेफ्टिनेंट जनरल (सेवानिवृत्त) सैयद अता हसनैन उक्तं यत् उच्चशिक्षाक्षेत्रस्य सर्वासां समस्यानां समाधानं भविष्यति तथा तासां समुचितः परिहारोऽपि क्रियते। सः समस्याणां निदानार्थमेव अत्र आगतः। तेन सर्वेभ्यः मान्यसदस्येभ्यः उक्तं यत् भवन्तः सभायाम् उपस्थिताः, अतः सर्वे धन्यवादस्य पात्राणि सन्ति। अपि च तेन परामर्शः दत्तः यत् सर्वे परिपक्वजनवत् शान्तिपूर्वकं विचारविमर्शं कृत्वा विश्वविद्यालयस्य समस्याः तासां समाधानोपायांश्च प्रस्तुतयन्तु।
ततः परं कुलपतिना सह अन्यैः पदाधिकारिभिः सह बैठकां कृत्वा सर्वेषु विषयेषु फलदायिनी चर्चा भविष्यति। अनन्तरं सर्वाः समस्याः श्रूयन्ते तथा तासां समाधानमपि विधास्यते। सः स्पष्टतया अवदत् यत् समस्याः उत्थापयितुं सर्वेषामधिकारोऽस्ति, तासां समाधानं परिपक्वरीत्या भविष्यति।
अस्मिन् प्रसङ्गे तेन स्वचालन-प्रक्रियायाः चर्चा कृता तथा समर्थ-पोर्टलस्य सम्यक् सञ्चालनार्थं विशेषज्ञानां साहाय्यं ग्राह्यमिति परामर्शः दत्तः। सः अवदत् यत् पर्याप्तासु सुविधासु सतीषु एव छात्राः विधिवदध्ययनं कर्तुं शक्नुवन्ति। अतः दृढाधारभूतसंरचनानां निर्माणम् अत्यावश्यकम् अस्ति। विश्वविद्यालयेन प्राप्तस्य शासकीयधनस्य समुचितोपयोगस्य लेखापरीक्षणं करणीयम् इति विषयेऽपि महामहिम्ना विशेषो बलः दत्तः।
इत्येतं विवरणं दत्त्वा जनसम्पर्काधिकारी निशिकान्तः अवदत् यत् महामहिम्ना कुलपतिः प्रो. लक्ष्मीनिवास पांडेय: निर्देशितः यत् सर्वाः लिखितसमस्याः सप्ताहस्य अन्तर्गतं राजभवनं प्रेषणीयाः। याः समस्याः स्थानीयस्तरे एव समाधातुं शक्यन्ते, तासां निदानम् अत्रैव क्रियताम्।
कुलपतिना आश्वासनं दत्तं यत् निर्देशानुसारं सर्वाणि कार्याणि समये सम्पन्नानि भविष्यन्ति।

You Might Also Like

डॉ. मोहन भागवत: ‘प्रणव’ इति संस्कृतभारत्याः नूतनकार्यालयस्य उद्घाटनं कृतवान्

प्रधानमन्त्री-मुद्रायोजना यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थं अत्यधिकं लाभप्रदं सिद्धम् च अस्ति – प्रधानमन्त्री नरेन्द्रमोदी

मुंबई-नगरे श्रीमन्नारायणीयपारायण-प्रतियोगिता तथा प्रश्नोत्तरी सफलतया सम्पन्ना

आम आदमी पार्टी दलस्य आन्तरिककलहः-: राघव चड्ढा उपनेतृपदात् निष्कासितः

कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयेन भारतीयज्ञानपरम्परायाः सार्वभौमत्वम् इति अखिलभारतीयशोधसम्मेलनं परिपालितम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article ऑनलाइन-क्रीडानां (Online Gaming) प्रचाराय विनियमानाय च ‘नियम-२०२६’ इति अधिसूचितम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?