थोरियम-युगं प्रति भारतस्य महत् पदक्षेपः; कल्पक्कमे ‘फास्ट ब्रीडर’ परमाणु-संयन्त्र-तन्त्रज्ञानस्य उद्घोषणा
हिमसंस्कृतवार्ता। ईरान-युद्धकारणात् सम्पूर्णे विश्वे अस्वस्थता वर्तते। अपक्व-तैलस्य (कच्चे तेल के) मूल्यवृद्ध्या सर्वत्र मूल्यवृद्धिः (महँगाई) वर्धते। अमरीका-देशात् आरभ्य नेपाल-देशं यावत् प्रत्येकस्य देशस्य जनता पीडिता अस्ति। भारतमपि अस्य युद्धस्य प्रभावात् मुक्तं नास्ति, किन्तु अस्मिन् समये भारतस्य हस्ते ‘अलादीनस्य दीपः’ (अत्यन्तं मूल्यवान् पदार्थः) प्राप्तः। स्वयं प्रधानमन्त्री नरेन्द्रमोदी अस्य उद्घोषणां कृतवान्। यदि सर्वं सम्यक् भविष्यति, तर्हि अस्य ‘अलादीन-दीपस्य’ बलेन भविष्ये भारतं देदीप्यमानः नक्षत्रः इव भविष्यति। भारतं प्रति अरब-देशान् अथवा रूस-देशं प्रति तैल-निर्भरता न भविष्यति। वस्तुतः वयं ‘फास्ट ब्रीडर न्यूक्लियर रिएक्टर’ (द्रुत-प्रजनक-परमाणु-संयन्त्र) विषये चर्चां कुर्मः। कल्पक्कमे भारतेन एतस्य तन्त्रज्ञानस्य प्राप्तये आधिकारिक-उद्घोषणा कृता। ‘फास्ट ब्रीडर’ परमाणु-संयन्त्रम् एका अतीव जटिला प्रविधिः अस्ति। पाश्चात्यदेशाः एतां प्रविधिं प्राप्तुं असफलाः अभवन्। अस्याः प्रविधेः परमाणु-संयन्त्रेषु यूरेनियम-स्थाने ‘थोरियम’ इति पदार्थस्य उपयोगः क्रियते, विश्वस्य थोरियम-भण्डारस्य २५ प्रतिशतं भागः भारते एव अस्ति। अर्थात् अस्याः प्रविधेः साहाय्येन परमाणु-विद्युत्-क्षेत्रे भारतस्य यूरेनियम-निर्भरता समाप्ता भविष्यति। भारते यूरेनियम-भण्डारः अतीव न्यूनः अस्ति। एतदर्थं भारतं रूस-ऑस्ट्रेलिया-देशयोः उपरि निर्भरं भवति।
सप्ततिवर्षेभ्यः पूर्वं आरम्भः
भारतेन ‘फास्ट ब्रीडर’ परमाणु-संयन्त्रस्य कल्पना सप्ततिवर्षेभ्यः पूर्वं कृता आसीत्। प्रसिद्धेन वैज्ञानिकेन होमी जहाङ्गीर भाभा महोदयेन अस्यां दिशि कार्यं प्रारब्धम्। ततः आरभ्य भारतं एतां प्रविधिं प्राप्तुं प्रयत्नशीलम् आसीत्। वस्तुतः विश्वस्य षट् धनिकतमाः देशाः एतां प्रविधिं प्राप्तुं ५० बिलियन डॉलर (प्रायः ४.२५ लक्षकोटि रूप्यकाणि) व्ययं कृतवन्तः सन्ति।
थोरियम-युगं प्रति भारतस्य महत् पदक्षेपः; कल्पक्कमे ‘फास्ट ब्रीडर’ परमाणु-संयन्त्र-तन्त्रज्ञानस्य उद्घोषणा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
