विज्ञान-प्रौद्योगिकी मन्त्री डॉ. जितेन्द्र सिंहः ‘राष्ट्रीय क्वांटम मिशन’ इत्यस्य प्रगतेः समीक्षां कृतवान्
विज्ञान-प्रौद्योगिकी मन्त्री डॉ. जितेन्द्र सिंहः ‘राष्ट्रीय क्वांटम मिशन’ इत्यस्य प्रगतेः समीक्षां कृतवान्, भारतस्य क्वांटम-प्रौद्योगिकी सम्बन्धिनीनां महत्त्वाकांक्षाणां विषये एकस्याः महत्त्वपूर्ण्याः उपलब्धेः विषये च सूचितवान्। अधिकारिभिः उक्तं यत् मिशन-प्रारम्भात् वर्षद्वयात् न्यूनसमये एव एकसहस्र (१०००) किलोमीटर दीर्घः ‘क्वांटम संचार नेटवर्क’ इत्यस्य सफलतया प्रदर्शनं कृतम्, यत् विश्वस्य दीर्घतम-नेटवर्केषु अन्यतमम् अस्ति। एकेन स्टार्टअप-संस्थया स्वदेशी-तकनीकी-प्रयोगेण विकसितः अयं नेटवर्कः, अष्टवर्षेषु द्विसहस्र (२०००) किलोमीटर लक्ष्यं प्राप्तुं दिशि महतीं प्रगतिं सूचयति।
विज्ञान-प्रौद्योगिकी मन्त्री डॉ. जितेन्द्र सिंहः ‘राष्ट्रीय क्वांटम मिशन’ इत्यस्य प्रगतेः समीक्षां कृतवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
