इज़राइल-देशे ईरानी-आक्रमणम् : प्रधानमन्त्री नेतन्याहू अराद-नगरस्य महापौरेण सह चर्चां कृतवान्
इज़राइल-देशस्य प्रधानमन्त्री बेंजामिन नेतन्याहू अद्य अराद-नगरस्य महापौरेण यायर मायान इत्यनेन सह वार्तालापं कृतवान्। सः दिमोना-नगरस्य तथा नेगेव-परमाणु-अनुसन्धान-केन्द्रस्य समीपे ईरान-देशस्य आक्रमणे घातितानां कृते संवेदनां प्रकटितवान्, तेषां शीघ्रस्वास्थ्यलाभस्य कामनां च कृतवान्।
इज़राइल-देशस्य विदेशमन्त्रालयस्य अनुसारं, अस्मिन् आक्रमणे बालकैः सह १०० तः अधिकाः जनाः घातिताः सन्ति। मन्त्रालयेन उक्तं यत् ईरानी-शासनेन नागरिकान् लक्ष्यीकृत्य क्षेपणास्त्र-प्रहारः कृतः, येन अराद-दिमोना-क्षेत्रयोः क्षतिः अभवत्। अपरपक्षे महापौरः यायर मायान सूचितवान् यत् प्रभावितक्षेत्रात् प्रायः १५० परिवाराः सुरक्षितस्थानेषु स्थानान्तरिताः सन्ति।
अन्तर्राष्ट्रीय-परमाणु-ऊर्जा-अभिकरणेन (IAEA) उक्तं यत् इज़राइल-देशस्य दिमोना-नगरे क्षेपणास्त्र-आक्रमणस्य सूचना तस्य समीपे अस्ति। किन्तु नेगेव-स्थित-परमाणु-अनुसन्धान-केन्द्रस्य कोऽपि क्षतिः न दृश्यते। अभिकरणेन इदमपि स्पष्टीकृतं यत् क्षेत्रीयदेशेभ्यः प्राप्तानुसारं कुत्रापि विकिरणस्य (radiation) असामान्यः स्तरः न प्राप्तः। महानिदेशकः राफेल मारियानो ग्रॉसी स्थितेः सूक्ष्मनिरीक्षणं कुर्वन् अस्ति। अभिकरणेन परमाणु-संयन्त्राणां समीपे अधिकतम-सैन्य-संयमस्य पालनार्थं बलं दत्तम्।
