साधु भद्रेशदासजी साहित्य- अकादमी पुरस्कारेण सम्मानितः
केन्द्रीय-ओडिशाविश्वविद्यालयस्य शुभचिन्तकः मार्गदर्शकः च साधु भद्रेशदासजी साहित्य- अकादमी पुरस्कारेण सम्मानितः।
हिमसंस्कृतवार्ता:- ओड़ीशा। संस्कृत- भारतीयाध्ययनयोः (इण्डोलॉजी) सुप्रसिद्धाः सन्तः विद्वांसश्च, बी. ए. पी. एस. स्वामीनारायण- शोधसंस्थानम्, अक्षरधाम, नवदेहली इत्यस्य महामहोपाध्यायाः साधुभद्रेशदासपादाः, “प्रस्थानचतुष्टये ब्रह्मघोषः” इति काव्यसंग्रहग्रन्थस्य कृते साहित्य-अकादमी-पुरस्काराय चिताः। साधुः भद्रेशदासः दीर्घकालं यावत् ओड़िशा- केन्द्रीय- विश्वविद्यालयस्य मार्गदर्शकः शुभचिन्तकश्च आसीत्, विश्वविद्यालयस्य बहुषु महत्त्वपूर्णेषु उपक्रमेषु सम्बद्धः आसीत्। सद्यः एव सः फरवरीमासस्य २० दिनाङ्कादारभ्य २४ दिनाङ्कं यावत् आयोजितायां पञ्चदिवसीय- शोध- पद्धति- कार्यशालायां “शोधप्रविधिः” इत्यस्यां मुख्य- संसाधन- व्यक्तिरूपेण भागग्रहणाय, कोरापुटस्थं विश्वविद्यालयपरिसरं प्राप्तवान्। अवसरेऽस्मिन् तेन विश्वविद्यालयस्य छात्रानां कृते स्वाशीः प्रदत्तम्। स्वसंस्थया प्रकाशितानि भारतीय-दर्शनसम्बद्धानि बहुमूल्यानि पुस्तकानि उपहाररूपेण अर्पितानि। तेन संस्कृतविभागस्य “अरण्यप्रज्ञा (ARANYAPRAJÑĀ)” इति पत्रिकायाः विमोचनमपि कृतम्।
संस्कृते विद्यावारिध्युपाधिप्राप्तः साधुः भद्रेशदासः राष्ट्रिय- अन्तराष्ट्रीयस्तरेषु बहूनि सम्मानानि प्राप्तवान्। तेषु विविधविश्वविद्यालयैः प्रदत्ताः मानद- डी. लिट- उपाधयः, “सरस्वती सम्मानम् २०२४”, गुजरातसाहित्याकादमीप्रदत्तं “वेदशास्त्र- पण्डितसम्मानम् २०२३”, केंद्रीय- संस्कृत- विश्वविद्यालयः, श्रीसदाशिवपरिसरः, पुरी इत्यनेन प्रदत्तं “भाष्यकार-महाचार्य-सम्मानम् २०२२”, भारतीय दार्शनिकानुसंधानपरिषदा प्रदत्तं “लाइफ्टाइम अचीवमेंट अवार्ड २०२१” चेति प्रमुखानि सन्ति। शिल्पाकर्णविश्वविद्यालयः, थाईलैण्ड इत्यनेन सः “दर्शनकेशरी”, “वेदान्तमार्तण्डः” इति उपाधिभ्यां सम्मानितः। कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयेनापि सः “महामहोपाध्यायः”, “वेदान्तप्रकाशः” इत्युपाधिभ्यां सम्मानितः। तेन त्रिंशदधिकाः ग्रन्थाः प्रायः पञ्चाशदधिकैकशतं (१५०) शोधलेखाः लिखिताः। अष्टसंख्यकानां शोधपत्रिकाणां सम्पादनं च कुर्वन्तः सन्ति। तेन विश्वस्य विविधदेशेषु विश्वविद्यालयेषु व्याख्यानानि प्रदत्तानि, अनेकेषाम् ऑनलाइन-पाठ्यक्रमाणां च विकासः कृतः।
एतस्यां उपलब्धौ ओड़िशाकेन्द्रीयविश्वविद्यालयस्य मान्यः कुलपतिः प्रो. नरसिंहचरणपण्डामहोदयः सहर्षं प्रसंशन् आह- “अस्माकं विश्वविद्यालयेन सह एतादृशस्य महतः विदुषः सम्बन्धं प्राप्य अहमात्मानं धन्यं मन्ये। ओड़िशा- केन्द्रीय- विश्वविद्यालयस्य छात्राः एतादृशस्य विदुषः आशीः प्राप्य गौरवमनुभवन्ति। साहित्य- अकादमी- पुरस्कार- प्राप्तये तस्मै मम हार्दिक्यः शुभकामनाः। अनेन संस्कृतभाषायां जनानां रुचिः वर्धिष्यते। सः भविष्येऽपि अस्माकं विश्वविद्यालयस्य छात्रानां कृते एवं मार्गदर्शनम् आशीः च दास्यतीति आशयेऽहम्। ओडिशा- केन्द्रीय- विश्वविद्यालयः, कोरापुटम् एकः केन्द्रीय- विश्वविद्यालयः अस्ति, यस्य स्थापना २००९ तमे वर्षे संसदः अधिनियमेन ओडिशायाः केबीकेक्षेत्रे शिक्षायां समतोन्नयनाय कृता। अधुना विश्वविद्यालयेऽस्मिन् विंशतिः विभागाः सन्ति, येषु विविधैः शैक्षणिक-कार्यक्रमैः शिक्षा प्रदीयते।
साधु भद्रेशदासजी साहित्य- अकादमी पुरस्कारेण सम्मानितः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
