By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य चतुर्दशः (१४) दीक्षान्त-समारोहः मार्च १८ दिनांके
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य चतुर्दशः (१४) दीक्षान्त-समारोहः मार्च १८ दिनांके
संस्कृतगतिविधयः

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य चतुर्दशः (१४) दीक्षान्त-समारोहः मार्च १८ दिनांके

डॉ.अमनदीप शर्मा
Last updated: 2026/03/17 at 7:11 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य चतुर्दशः (१४) दीक्षान्त-समारोहः मार्च १८ दिनांके

हिमसंस्कृतवार्ता: – डॉ रेणुका बोकारे, रामटेकम्।

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य चतुर्दशः (१४) दीक्षान्त-समारोहः बुधवासरे, १८ मार्च २०२६ दिनाङ्के प्रातः ११:०० वादने विश्वविद्यालयस्य परिसरे आयोजितः भविष्यति। अस्य समारोहस्य अध्यक्षता विश्वविद्यालयस्य माननीय-कुलगुरुः डॉ. अतुल-वैद्य-महोदयः करिष्यति। मुख्य-अतिथि-रूपेण भारतस्य प्रख्यातः अभियान्त्रिक-वैज्ञानिकः, पद्मश्री प्रो. गणपति-यादव-महोदयः (पूर्वतन्-कुलगुरुः, आईसीटी मुम्बई) उपस्थितः भविष्यति। अस्मिन् अवसरे कुलसचिवः डॉ. रोशन-अलोने, परीक्षा-नियन्त्रकः डॉ. केशव-मोहरीरः तथा च विद्वत्-परिषदः सदस्याः उपस्थिताः भविष्यन्ति।
उपाधि-प्रदानस्य विवरणम्
अस्मिन् समारोहे २०२४-२५ वर्षे उत्तीर्णेभ्यः छात्रेभ्यः आहत्य १४५६४ उपाधि-प्रमाणपत्राणि वितरिष्यन्ते। येषु मुख्याः सन्ति:
स्नातकोत्तर-उपाधयः (PG): २७२२
स्नातक-उपाधयः (UG): ९४९३
पदविका (Diploma): १८०९
स्नातकोत्तर-पदविका (PG Diploma): ९०
प्रमाणपत्राणि: ८७
मुक्त-दूरस्थ-शिक्षा-केन्द्रद्वारा (CDOE): ३४८ (उपाधयः, पदविकाः च)
अत्र ५४ स्वर्णपदकानि तथा १३ नकद-पुरस्काराः अपि प्रदास्यन्ते। अपि च १४ शोधच्छात्रेभ्यः ‘विद्यावारिधि’ (Ph.D.) उपाधिः प्रदास्यते।
समारोहस्य प्रमुखाणि वैशिष्ट्याणि
१. मानद-विद्यावाचस्पति-उपाधिः (D.Litt.): बहुभाषाविदा, कवयित्री श्रीमती आशा भालचन्द्र पाण्डे महोदया मराठी-संस्कृत-हिन्दी-उर्दू-भाषासु साहित्य-योगदानाय ‘डी.लिट्’ इति मानद-उपाधिना अलङ्करिष्यते।
२. सर्वाधिक-पदक-विजेता: एम.ए. आचार्य (संस्कृत) विषये सर्वाधिक-अङ्क-प्राप्त्यै धनश्री सुभाष लोणकर महोदयायै ११ स्वर्णपदकानि तथा १ नकद-पुरस्कारः प्रदास्यते। सा ‘कुलपति-स्वर्णपदकेन’ अपि सम्मानिता भविष्यति।
३. सर्वोत्तम-अष्टपैलू-विद्यार्थी (All-rounder):- रामटेक-वारङ्गा-रत्नागिरी-परिसराणां छात्रेषु सर्वश्रेष्ठ-बहुआयामी-प्रदर्शनाय अनुज रवी मञ्चावार महोदयाय ‘श्री समर्थ सद्गुरु शङ्कर महाराज रसाळ स्मृति स्वर्णपदकं’ प्रदास्यते।
सर्वोत्तम-प्रबन्ध-पुरस्काराः (Best Thesis Awards)
विभिन्न-सङ्कायेषु (Faculties) सर्वश्रेष्ठ-शोध-प्रबन्धाय स्वर्णपदकानि एतेभ्यः प्रदास्यन्ते:
उन्मेष रत्नाकर बोहटे: – वेदविद्या-सङ्कायः।
भारत पाण्डुरङ्ग मिसाळ: – संस्कृत-संस्कृतेतर-भाषा-सङ्कायः।
सानिका अवधूत बाम: – भारतीय-धर्म-दर्शन-संस्कृति-सङ्कायः।
अतुल भुजङ्गराव ठाकरे: – नशिक्षाशास्त्र-सङ्कायः।
देवलपल्ली अन्वेष: – प्राचीन-भारतीय-विज्ञान-मानविकी-सङ्कायः।
प्रमुख-परीक्षासु प्रथम-स्थान-प्राप्त-छात्राः
छात्रस्य पाठ्यक्रमः
युवराज दीपककुमार भोगांवकर : एम.ए. (व्याकरणम्)
यश ब्रिजेश पाण्डे – एम.ए. (दर्शनम्, संस्कृतम् च)
नैना शेणॉय – एम.ए. (योगशास्त्रम्)
शीतल विजय- मदनकर एम.ए. (ज्योतिर्विज्ञानम्)
ज्ञानेश्वरी सबाजी ससे – बी.ए. (विशारदः)
किरण बळवन्त लाड- बी.ए. (योगशास्त्रम्)
मञ्जुषा बापू यादव – बी.ए. (कीर्तनशास्त्रम्)
हिमांशु सतीश शर्मा- प्राक्शास्त्री (प्रथमः)
वेदांशी वैभव पटेल – शास्त्री (प्रथमा)
माधुरी सुधाकर हारोडे- बी.एड. (शिक्षाशास्त्री – प्रथमा)
विश्वविद्यालयस्य एषः दीक्षान्त-समारोहः संस्कृतस्य आधुनिक-विषयाणां च अद्भुत-सङ्गमः भविष्यति।
अस्मिन् सन्दर्भे आयोजितां पत्रकार-परिषदं विश्वविद्यालयस्य कुलगुरुः डॉ. अतुल-वैद्य-महोदयः सम्बोधितवान्।
अस्मिन् अवसरे कुलसचिवः डॉ. रोशन-अलोने, अधिष्ठाता प्रो. कविता-होले, प्रो. कृष्णकुमार-पाण्डेयः, परीक्षा-नियन्त्रकः डॉ. केशव-मोहरीरः, सहायक-कुलसचिवः श्री सुमित-कठाळे तथा च जनसम्पर्क-अधिकारी डॉ. रेणुका-बोकारे उपस्थिताः आसन्।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article काञ्चीपुरम् (तमिलनाडु) इत्यस्य पावनधरायां मध्यप्रदेशस्य गौरवम्: भुवनमोहनवशिष्ठः राष्ट्रियस्तरे सम्मानितः
Next Article आईआईटी बॉम्बे (IIT Bombay) संस्थाने ‘ऋतम् २०२६’ इति संस्कृतमहोत्सवः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?