By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: नूतनराज्यपालस्य शपथग्रहणम्; केन्द्रसर्वकारेण कविन्द्रगुप्तः हिमाचलस्य राज्यपालपदे नियुक्तः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > नूतनराज्यपालस्य शपथग्रहणम्; केन्द्रसर्वकारेण कविन्द्रगुप्तः हिमाचलस्य राज्यपालपदे नियुक्तः
हिमाचलवार्ता

नूतनराज्यपालस्य शपथग्रहणम्; केन्द्रसर्वकारेण कविन्द्रगुप्तः हिमाचलस्य राज्यपालपदे नियुक्तः

डॉ.अमनदीप शर्मा
Last updated: 2026/03/09 at 6:47 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

नूतनराज्यपालस्य शपथग्रहणम्; केन्द्रसर्वकारेण कविन्द्रगुप्तः हिमाचलस्य राज्यपालपदे नियुक्तः
हिमाचलप्रदेशस्य नवनियुक्तः राज्यपालः कविन्द्रगुप्तः मार्च-मासस्य दशमे (१०) दिनाङ्के पदस्य गोपनीयतायाश्च शपथं ग्रहीष्यति। ‘लोकभवनम्’ इति स्थाने अयं समारोहः भविष्यति, यत्र हिमाचलप्रदेश-उच्चन्यायालयस्य मुख्यन्यायाधीशः तस्मै शपथं कारयिष्यति। सः हिमाचलस्य त्रिंशत्तमः (३०) राज्यपालः भविष्यति।लोकभवने शपथग्रहणसमारोहस्य सज्जताः आरब्धाः सन्ति। हिमाचलस्य नूतनराज्यपालः कविन्द्रगुप्तः सोमवासरे राजधानीं शिमलां सम्प्राप्स्यति। तस्य स्वागतार्थं सोमवासरे सायं सार्धषड्वादने (६:३०) लोकभवने कश्चित् कार्यक्रमः आयोजितः अस्ति, यस्मिन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खु महोदयः, तस्य मन्त्रिमण्डलस्य सदस्याः, सेना-आरक्षकदलस्य प्रमुखाः, मुख्यसचिवः तथा च प्रशासकीय-अधिकारिणः उपस्थिताः भविष्यन्ति। एतदतिरिच्य भाजपा-नेतारः अपि स्वागतसमारोहे सम्मिलिताः भविष्यन्ति।
अस्मात् पूर्वं सोमवासरे लोकभवने वर्तमानराज्यपालस्य शिवप्रतापशुक्लस्य विदाई-समारोहः (विदाई-उत्सवः) अपि आयोज्यते। उल्लेखनीयं यत् केन्द्रसर्वकारेण सद्यः एव केचन राज्यपालाः परिवर्तिताः। शिवप्रतापशुक्लः तेलङ्गाना-राज्यस्य राज्यपालत्वेन नियुक्तः, लद्दाखस्य उपराज्यपालपदात् त्यागपत्रं दत्त्वा कविन्द्रगुप्तः हिमाचलस्य नूतनराज्यपालत्वेन नियुक्तः अस्ति।

You Might Also Like

कवीन्द्रगुप्तः पदोन्नतिं प्राप्य हिमाचलप्रदेशस्य नवीनराज्यपालत्वेन नियुक्तः

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article विश्वविजेता भारतम्-ः आई सी सी विंशति: विंशति: विश्वचषके भारतदेशः तृतीयबारं विश्वविजेता
Next Article साइबर-चौराणां नूतना रीतिः: बैंक-कर्मचारिणः भूत्वा जनान् वञ्चयन्ति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?