युद्धस्य षष्ठं दिनम्: होर्मुज जलडमरूमध्यः रुद्धः, पश्चिम-एशियायां तैल-आपूर्तिः बाधिता, भारतस्य कृते अनापत्तिः
अमरीका-इजरायल देशयोः पक्षतः ईरान-देशस्य उपरि क्रियमाणानां आक्रमणानां षष्ठे दिने युद्धस्य व्याप्तिः इदानीं मध्यपूर्वस्य सीमाः विलङ्घ्य हिन्दमहासागरं यावत् प्रसृता अस्ति। एकतः ईरानस्य ३३ नागरिक-सैन्य-स्थानेषु बृहत्-आक्रमणाणि अभवन, अपरतः होर्मुज जलडमरूमध्यस्य निरोधेन वैश्विकव्यापारे ऊर्जा-आपूर्तौ च महत संकटं समुत्पन्नम्।
ईरान-देशेन उद्घोषितं यत् होर्मुज जलडमरूमध्यः इदानीं केवलं संयुक्तराज्य-अमरीका-इजरायल-यूरोप-देशानां तेषां पाश्चात्य-सहयोगिनां च पोतानां कृते पूर्णतया रुद्धः अस्ति। ईरानस्य आईआरजीसी (IRGC) इत्यनेन स्पष्टा सचेतना दत्ता यत् यदि अमरीका, इजरायल, यूरोप अथवा तेषां समर्थकदेशानां कोऽपि पोतः अस्मात् महत्त्वपूर्णात् जलमार्गात् गन्तुं प्रयत्नं करिष्यति, तर्हि सः निश्चयेन आक्रम्य विनाश्यते। पूर्वं बुधवासरे आईआरजीसी इत्यनेन उक्तं यत् होर्मुज केवलं चीन-देशाय न रुद्धः। नूतन-घोषणायाः अनन्तरं स्पष्टं जातं यत् भारतम् अपि अस्मात् कठोरनियमतः बहिः अस्ति, भारतं तैलं प्राप्स्यति। अन्यतः, ईरानस्य एतया कार्यवाह्या वैश्विक-तैल-मूल्येषु -अत्यधिकाः वृद्धिः जाता अस्ति, विश्वे च ऊर्जा-संकटः दृश्यते।
महत्त्वपूर्णानि तथ्यानि
होर्मुज जलडमरूमध्यः विश्वस्य कुल-सामुद्रिक-तैल-परिवहनस्य प्रायः विंशति-प्रतिशतं (20%) वहति।
इतिहासे प्रथमवारं वाणिज्यिक-पोतानां कृते एषः मार्गः एवं प्रकारेण अवरुद्धः।
समुद्र-निरीक्षण-जालपुटानां अनुसारं कुवैत-दुबई तटयोः समीपे शताधिकाः तैल-वाहकाः (Tankers) स्थिताः सन्ति।
युद्धस्य विभीषिका क्षतयः च
युद्धस्य षष्ठे दिने अमरीका-इजरायल-देशाभ्यां ईरानस्य ३३ स्थानेषु महदाक्रमणाणि कृतानि। अस्मिन् ईरानस्य १२३० जनाः मृताः, ६००० तः अधिकाः च आहताः सन्ति। ईरान-देशेन अपि गुरुवासरे चतुर्णाम् देशानां विरुद्धं ड्रोन-क्षेपास्त्रैः च प्रत्युत्तरं दत्तम्। प्रवृत्तानुसारं प्रथमवारं अजरबैजान देशे अपि आक्रमणस्य दावा कृतः।
अन्येषु क्षेत्रेषु प्रभावः-:
१. आबूधाबी: वायु-रक्षा-प्रणाल्या (Air Defense System) क्षेपास्त्राणि नभसि एव मारितानि, परन्तु तेषां भग्नावशेषैः पाकिस्तानीय-नेपाली-नागरिकैः सह षट् जनाः आहताः।
२. दोहा (कतर)-: अत्रापि ईरानस्य क्षेपास्त्राणि अवरुद्धाः, जनाः उच्च-स्फोटानां ध्वनिं श्रुतवन्तः।
३. इजरायल-: तेल-अवीव क्षेत्रे बेन-गुरियन विमानपतनं लक्ष्यीकृत्य क्षेपास्त्राणि मुक्तानि।
४. कुवैत-बहरीन-यूएई-: अत्र स्थिताः २० अमरीकी-सैन्य-शिविराः ईरानस्य आईआरजीसी-पक्षतः लक्ष्यीकृताः।
ईरानस्य आन्तरिक-स्थितौ अपि संकटः अस्ति यतोहि उत्तर-पश्चिम-ईरान-क्षेत्रे कुर्दिश-ईरानी-सशस्त्र-समूहैः सर्वकारस्य विरुद्धं भू-आक्रमणं प्रारब्धम्।
