केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः
हिमसंस्कृतवार्ता:- डॉ रेणुका बोकारे, संगमनेरम् (महाराष्ट्रम्)।
शिक्षण- प्रसारक- संस्थायाः संगमनेर- महाविद्यालयेन ‘श्री ओंकारनाथ- मालपाणी- संस्कृत- संशोधन- केन्द्रस्य’ ‘श्री जगन्नाथ- नरसिंगदास- कलन्त्री- क्रीडाभवने’ ‘संस्कृतात्मा- सम्मानसमारोहः २०२५-२६’ आयोजितः। अस्मिन् समारोहे केन्द्रीय- संस्कृत- विश्वविद्यालयस्य (नवदेहली) कुलपतये प्रो. श्रीनिवास- वरखेड़ी- महोदयाय प्रतिष्ठितः ‘संस्कृतात्मापुरस्कारः २०२५-२६’ प्रदत्तः।
प्रो. श्रीनिवास- वरखेड़ी- महोदयाय तस्य संस्कृतसेवायै सम्मानस्वरूपं ₹५१,००० (एकपञ्चाशत्- सहस्रम्) रूप्यकाणां धनराशिः, प्रशस्तिपत्रं, स्मृतिचिह्नम्, उत्तरीयं, श्रीफलं च प्रदाय सम्मानितं कृतम्। अस्मिन् कार्यक्रमे ‘मालपाणी- परिवार- चैरिटेबल- ट्रस्ट’ इत्यस्य ललितादेवी मालपाणी महोदयायाः गरिमामयी उपस्थितिः आसीत्। समारोहे संस्थायाः कार्याध्यक्षः डॉ. संजय मालपाणी, प्राचार्यः डॉ. अरुण गायकवाडः, संस्कृतविभागाध्यक्षः डॉ. अनिरुद्ध मण्डलिकः च सह बहुसङ्ख्याकाः प्राध्यापकाः, शोधार्थिनः छात्राश्च उपस्थिताः आसन्।
पुरस्कारग्रहणानन्तरं प्रो. श्रीनिवास- वरखेड़ी- महोदयः स्वकीय-उद्बोधने अवदत् यत् “संस्कृतं केवलम् एका भाषा न, अपि तु भारतीयसंस्कृतेः उन्नत- ज्ञान- विज्ञानस्य च आधारशिला वर्तते। आधुनिक-तन्त्रज्ञानस्य परम्परायाः च समन्वयेन एतां नूतनसततिं यावत् प्रापणं अस्माकं सामूहिकं दायित्वं वर्तते।” प्रो. वरखेड़ी-महोदयाय इदं सम्मानं संस्कृतस्य प्रचारप्रसाराय, भारतीय- ज्ञान- परम्परायाः संरक्षणे तस्य वैश्विक-योगदानाय प्रदत्तः अस्ति।
केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
