LBS एकदिवसीय-राष्ट्रिय-सङ्गोष्ठ्याः सफलम् आयोजनम्: “AI-युगे शोधस्य अन्तर्राष्ट्रियं भविष्यम्” इति विषये सार्थक-विमर्शः
श्रीलालबहादुरशास्त्री राष्ट्रीयसंस्कृतविश्वविद्यालयस्य आधुनिक-विषयपीठस्य शोधविभागस्य च संयुक्त-तत्त्वावधाने एका एकदिवसीया राष्ट्रिय-सङ्गोष्ठी सफलीभूता। एषा सङ्गोष्ठी विशेषतः विद्यावारिधि (Ph.D.) शोधच्छात्राणां कृते आयोजिता आसीत्, यस्याः मुख्योद्देश्यं कृत्रिम-प्रज्ञायाः (Artificial Intelligence – AI) युगे शोधकार्यस्य दिशाम्, सम्भावनाः, आव्हानानि च अधिकृत्य गम्भीर-विमर्शः आसीत्।
कार्यक्रमस्य अध्यक्षता माननीयाः कुलपतयः प्रो. मुरलीमनोहर पाठक महोदयाः अकुर्वन्। मुख्यवक्त्रीरूपेण डा. अनामिका श्रीवास्तव (सहायक-निदेशिका, भारतीय-ब्रॉडकास्टिंग-प्रोग्राम-सर्विसेज) महोदया “वर्तमानकाले AI-माध्यमेन शोधस्य अन्तर्राष्ट्रियं भविष्यम्” इति विषये विस्तृतं व्याख्यानं प्रस्तुतवती।

सा वर्तमान-परिप्रेक्ष्ये AI-तन्त्रज्ञानस्य समुचित-उत्तरदायित्वपूर्ण-प्रयोगे बलं दत्तवती। तया प्रतिपादितं यत् कथमपि शोधार्थिनः AI-तन्त्रस्य उपयोगं कृत्वा स्वशोधकार्यं उच्चस्तरीयं, सुव्यवस्थितं, वैश्विक-मानकानुरूपं च कर्तुं शक्नुवन्ति। संस्कृतभाषायाः ज्ञान-समृद्धिं प्रकाशयन्ती सा अवदत् यत् संस्कृतशब्देषु निहितायाः ऊर्जायाः संरचनात्मक-वैज्ञानिकतायाः च विषये वर्तमाने शोधकार्याणि प्रचलन्ति। सा एतदपि स्पष्टीकृतवती यत् संस्कृतस्य अपर्याप्त-बोधकारणात् अन्तर्जाले (Online) उपलब्ध-सामग्र्याः बहुधा दुरुपयोगः भवति। बहवः मन्त्राः श्लोकाश्च अशुद्धरूपेण अन्तर्जाले सन्ति, यान् शोधार्थिनः मूलस्रोतः अविचार्यैव प्रयुञ्जते। अतः शोधकार्ये प्रामाणिक-ग्रन्थानाम् अवलम्बनम् अत्यावश्यकम् अस्ति।
तया एतदपि उल्लिखितं यत् आयुर्वेद-ज्योतिष-कर्मकाण्डादि-पारम्परिक-शास्त्राणाम् अध्ययनं कर्तुं वैदेशिक-विद्वांसः भारतम् आगच्छन्ति। अस्यां स्थितौ भारतीय-शोधार्थिनां कृते बहुभाषिक-दक्षता तथा AI-सदृश-नवीनविषयाणाम् अध्ययनं समयस्य आवश्यकता अस्ति। AI-पाठ्यक्रमाणां अध्ययनेन संस्कृत-छात्रेषु तान्त्रिक-अवबोधः विकसितः भविष्यति, ते च संस्कृत-AI इत्यनयोः अन्तर्विषयक-शोधे नवीनाः दिशः उद्घाटयिष्यन्ति।

स्वकीये अध्यक्षीय-उद्बोधने कुलपतयः प्रो. मुरलीमनोहर पाठक महोदयाः अकथयन् यत् यद्यपि वर्तमानयुगं AI-युगमस्ति, तथापि पूर्णतः AI-तन्त्रे निर्भरता न उचिता। अस्माकं आचार्यैः कठिनेन परिश्रमेण महत्वपूर्णग्रन्थेषु भाष्याणि टीकाश्च लिखिताः, येषाम् अध्ययनेन बुद्धिः, चिन्तनशक्तिः, तर्कक्षमता च विकसति। छात्रैः तस्याः एव परम्परायाः अनुसरणं कृत्वा नवीन-अनुसन्धान-दिशि अग्रेसरैः भवितव्यम्। शोधार्थिनः सचेतयन्तः अवदन् यत् यदि कस्यापि सूक्तेः, सूत्रस्य, कारिकायाः वा श्लोकस्य सन्दर्भः स्वीकरणीयः चेत् मूलग्रन्थस्य अवलोकनम् अनिवार्यम् अस्ति। AI-अथवा अन्तर्जाल-माध्यमेन प्राप्तायां सामग्र्यां त्रुटयः भवितुं शक्नुवन्ति, अतः शोधकार्यं सदैव प्रामाणिक-स्रोतःसु आधारितं भवेत्।
कार्यक्रमे विषय-प्रवर्तनं शोधविभागाध्यक्षैः प्रो. बिष्णुपद महापात्र महोदयैः कृतम्। कार्यक्रमस्य सफलं सञ्चालनं हिन्दू-अध्ययन-विभागस्य सहायकाचार्यैः डा. जीवन जोशी महोदयैः कृतम्, धन्यवादज्ञापनं च शोधसहायकैः डा. ज्ञानधारपाठक महोदयैः प्रस्तुतम्।
अस्मिन् अवसरे आधुनिक-विषयपीठाध्यक्षा प्रो. मीनू कश्यप, श्रीमती शशिबाला, प्रो. बिष्णुपद महापात्र, डा. विजयगुप्ता, डा. ज्ञानधारपाठक:, डा. जीवन जोशी, डा. श्रद्धा मिश्रा, डा. जीवन भट्टराई च सहिताः विद्यावारिधि-सत्रस्य (२०२४-२५ एवं २०२५-२६) सर्वे शोधच्छात्राः उपस्थिताः आसन्।
