नवदेहल्याम् इण्डिया-ए.आई. इम्पैक्ट-शिखरसम्मेलनावधौ प्रधानमन्त्रिणा नरेन्द्रमोदिना अनेकैः विश्वनेतृभिः सह द्वैपाक्षिकोपवेशनं विहितम्।
हिमसंस्कृतवार्ता: – नवदेहल्याम् इण्डिया-ए. आई. इम्पैक्ट शिखरसम्मेलनावधौ प्रधानमन्त्रिणा नरेन्द्रमोदिना विश्वनेतृभिः सह द्वैपाक्षिकं मेलनं कृतम्। हैदराबाद-भवने स्पेन-देशस्य राष्ट्रपतिना पेड्रो सान्चेज् इत्यनेन सह प्रधानमन्त्री मेलनं कृतवान्। भारत-स्पेन-देशयोः मध्ये सहभागित्वस्य गहनतायाः विविधेषु विषयेषु चर्चा अभवत्। विदेशमन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् चर्चितेषु प्रमुखेषु क्षेत्रेषु व्यापारः अर्थव्यवस्था, नवान्वेषणम्, स्वास्थ्यं, ऋतुदशा-क्रिया, शिक्षा इत्यादीनि क्षेत्राणि अन्तर्भवन्ति। भारत-यूरोपीयसङ्घयोः दृढसम्बन्धेषु स्पेन-देशः निरन्तरं समर्थनं प्रधानमन्त्रिणा मोदिना प्रशंसितम् । सामाजिकान्तर्जालीये सन्देशे श्रीमोदी अवदत् यत् तौ भारत-स्पेन मैत्रीम्, विशेषतः रक्षा, सुरक्षा, प्रौद्योगिकी इत्यादिषु क्षेत्रेषु चर्चितवन्तौ। प्रधानमन्त्री फिनलैण्ड-देशस्य प्रधानमन्त्री एट्टी पेटेरी ओर्पो इत्यनेन सह अपि वार्तालापम् अकरोत्। तौ सुस्थिरता तथा डिजिटलीकरणम्, ए. आई. अनुसंधानं तथा नैतिक-नवान्वेषणं तथा भारतीयप्रतिभा द्वैपाक्षिकसहयोगं कथं सुदृढं कर्तुं शक्नोति इत्यस्मिन् विषये चर्चितवन्तौ । प्रधानमन्त्रिणा, ए.आई. इत्यस्मिन् क्षेत्रे उदयोन्मुख-नवान्वेषण-क्रीडकेण फिन्लेण्ड्-देशस्य प्रयत्नानां प्रशंसा कृता। प्रधानमन्त्री अवदत् यत्, भारत-फिन्लेण्ड्-देशयोः व्यापारः द्विगुणी कर्तुं लक्ष्यम् अस्ति, येन आर्थिकसम्बन्धान् प्रबलतया प्रवर्धयितुं शक्यते। 6जी, नवान्वेषणम्, स्वच्छ-ऊर्जा, जैव-इन्धनम्, वृत्तीय अर्थव्यवस्था इत्यादिषु भविष्यकालीक-प्रौद्योगिकीषु सहयोगं वर्धयितुं अपि उभौ चर्चितवन्तौ। शिखरसम्मेलनावधौ श्रीमोदी सर्बिया-देशस्य राष्ट्रपतिना अलेक्जेण्डर वुसिक इत्यनेन सह अपि मेलनम् अकरोत्। श्रीमोदी क्रोएशिया देशस्य प्रधानमन्त्रिणा आन्द्रेज प्लेन्कोविक् इत्यनेन सहापि द्वैपाक्षिकं वार्तालापं कृतवान्।
षड्विंशत्यधिक द्विसहस्रतम वर्षस्य इण्डिया ए. आई इम्पैक्ट सम्मेलनस्य कृते वैश्विकनेतारः नवदेहल्यां निरन्तरं आगच्छन्ति। स्पेन्-देशस्य राष्ट्रपतिः पेड्रो साञ्चेज पेरेज-कास्टेजोनः, सेशेल्स्-देशस्य उपराष्ट्रपतिः सेबेस्टियन पिल्ले, मारीशस-देशस्य प्रधानमन्त्री डा. नवीनचन्द्र रामगुलामः च ए. आई. शिखरसम्मेलनाय राष्ट्रियराजधान्याम् आगतवन्तः। स्लोवाक गणराज्यस्य राष्ट्रपतिः पीटर पेलेग्रीनी, नेदरलैण्ड-देशस्य प्रधानमन्त्री डिक शूफः, कज़ाकिस्तान-देशस्य प्रधानमन्त्री ओल्ज़ास बेक्टेनोवः चापि ए. आई. शिखरसम्मेलनाय राष्ट्रियराजधान्याम् आगतवन्तः सन्ति।
ए.आई. शिखरसम्मेलने वेव्स-क्रियेटरस् कॉर्नर इत्यस्य उद्घाटनम् अकरोत् – अश्विनी वैष्णवः ।
अश्विनी वैष्णवः इण्डिया ए.आई इम्पैक्ट्-समिट् इत्यस्य द्वितीये दिने भारतमण्डपे ‘WAVES Creators Corners इत्यस्य उद्घाटनमकरोत्। श्री वैष्णवः भारतीय-सृजनात्मक-तन्त्रज्ञान संस्थानस्य अपि प्रशंसामकरोत् यत् सांस्थानमिदं कृत्रिम बुद्धिं सृजनात्मक-शिक्षायाम् एकीकृतवान्, येन छात्राः उद्योगस्य परिवर्त्यमान-आवश्यकतानां कृते सज्जाः भवेयुः। मन्त्रीवर्यः WAVES इत्यत्र एकपञ्चाशत् प्रसारमाध्यमानां टेक् स्टार्ट-अप् विजेतृभिः च सह वार्तालापमकरोत्। अवधेयमस्ति यत् अस्मिन् सम्मेलने एकपञ्चाशत् स्टार्ट-अप् इत्येते ए.आई नवान्वेषणानि प्रदर्शयिष्यन्ते । इण्डिया ए.आई. तथा इण्टेल् इण्डिया इत्येताभ्यां संस्थाभ्यां कृत्रिमबुद्धिमत्तायाः उत्तरदायित्व-अभियाने चतुर्विंशतिहोरासु सर्वाधिक प्रतिज्ञा-स्वीकरणस्य श्रेण्यां नूतना विश्वकीर्तिमत्ता स्थापिता। अस्मिन् अभियाने सार्धद्विलक्षाधिकाः छात्राः प्रतिज्ञां स्वीकृतवन्तः। इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी-मन्त्री अश्विनी वैष्णवः उक्तवान् यत् एतदुपलब्धिः प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृष्टेः प्रतिबिम्बः अस्ति। मन्त्री अवदत् यद् देशेन कृत्रिमबुद्धेः चिन्तन-प्रक्रियायाम् उत्तरदायितायाः नेतृत्वं कर्तव्यम्। अस्मिन् अवसरे मन्त्रिणा समग्र दलस्य अभिनन्दनं कृतम् तथा तेभ्यः धन्यवादोऽपि अभिव्यक्तः ।
