By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः
हिमाचलवार्ताअन्ताराष्ट्रीयवार्ताःधर्मसंस्कृतिः

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

डॉ.अमनदीप शर्मा
Last updated: 2026/02/17 at 9:52 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
हिमाचलप्रदेशस्य ‘छोटी काशी‘ इति प्रसिद्धस्य मण्डी-नगरस्य पञ्चशत (५००) वर्षाणां स्वर्णिमयात्रया सह सप्तदिवसीयः अन्तर्राष्ट्रीय-महाशिवरात्रि-महोत्सवः सोमवासरे आरब्धः। अस्य देव-महाकुम्भस्य आरम्भः पारम्परिकया राजकीय-शोभायात्रया अभवत्। राज-देवता-माधोरायस्य दरबारात् राजसी-वैभवेन निर्गता प्रथमा जलेब-यात्रा ‘पड्डल’ क्रीडाङ्गणं प्राप्य समाप्ता अभवत्। श्रद्धायाः महासागरेण सह जीप-यानेन पड्डल-क्रीडाङ्गणं प्राप्तवान् उप-मुख्यमन्त्री मुकेश अग्निहोत्री महोदयः अस्य महोत्सवस्य विधिवत् उद्घाटनं कृतवान्। अस्मात् पूर्वं जिलाधीश-कार्यालय-परिसरे तस्मै पारम्परिकं शिरोवस्त्रम् धारयित्वा सम्मानं कृतम्। तदनन्तरं सः राज-माधोराय-मन्दिरं गत्वा विधिवत् पूजा-अर्चनां सम्पादितवान्। इतः एव अस्य भव्यस्य देव-महाकुम्भस्य प्रथमा पारम्परिकी जलेब-यात्रा आरब्धा। अस्यां शोभायात्रायां स्थानीयजनाः देवलवः (Devalus) च स्व-देवी-देवतानां रथैः सह नृत्यन्तः गायन्तश्च सम्मिलिताः अभवन्।
१९ फरवरी दिनाङ्के मध्यमा तथा २२ फरवरी दिनाङ्के अन्तिमा जलेब-यात्रा भविष्यति
अन्ताराष्ट्रीय-महाशिवरात्रि-महोत्सवस्य अवसरे तिस्रः ‘जलेब’ शोभायात्राः निर्गच्छन्ति। अधुना १९ फरवरी दिनाङ्के मध्यमा तथा २२ फरवरी दिनाङ्के अन्तिमा जलेब-यात्रा निर्गमिष्यति। अन्तिमे दिने ‘चौहटा’ (Chauhta) इत्यत्र ‘जातर’ (Jatar) सज्जं भविष्यति, यत्र सर्वे देवी-देवताः विराजमानाः भूत्वा स्व-स्व-देवालयं प्रति प्रस्थास्यन्ति।
प्रशासनेन चिते स्थाने उपवेष्टुं देव-मार्कण्डेय-ऋषिः विभूषणश्च न सिद्धौ; अन्ये देवाः अपि असन्तुष्टा:
अन्ताराष्ट्रीय-महाशिवरात्रि-महोत्सवार्थम् आगतौ देव-मार्कण्डेय-ऋषिः तथा देव-विभूषणः च मण्डल-प्रशासनेन ‘सर्व-देवता-समित्या’ च सह स्वकीयं रोषं प्रकटितवन्तौ। मण्डी-नगरस्य पड्डल-क्रीडाङ्गणे अस्मिन् वर्षे प्रशासनेन देवी-देवतानां कृते यत् नवीनं स्थानं निश्चितं, तत्र उपवेष्टुं उभौ देवौ अस्वीकृतवन्तौ। देवौ प्रशासनं तथा सर्व-देवता-समितिं प्रति स्व-आदेशं श्रावितवन्तौ यत्— “यस्मिन् स्थाने वयं गतेभ्यः २० वर्षेभ्यः उपविशामः, तत्रैव उपवेक्ष्यामः, अन्यथा वयं रुष्टाः भूत्वा स्व-देवालयं प्रति प्रत्यागमिष्यामः।” महाशिवरात्रि-महोत्सवस्य परम्परां निर्वोढुं देव-मार्कण्डेय-ऋषिः विभूषणश्च सायं काले राज-देवता-माधोरायस्य दरबारं प्राप्तवन्तौ देव-मिलनं च कृतवन्तौ। प्रशासनेन समित्या च सह वार्तालापस्य आश्वासनं दत्तम्। सोमवासरे प्रशासनं समस्यायाः समाधानं करिष्यति।
यदा देवालयात् महोत्सवार्थं प्रस्थिताः तदा एव ‘देववाणी’ अभवत्
बालीचौकी-क्षेत्रस्य अधिष्ठातृ-देवौ मार्कण्डेय-ऋषिः विभूषणश्च यदा महाशिवरात्रि-महोत्सवे आगन्तुं प्रस्थितौ, तदा एव ताभ्यां नवीन-स्थाने उपवेष्टुं ‘देववाणी माध्यमेन रोषः प्रकटितः आसीत्। देव-मार्कण्डेय-ऋषेः पूजकाः तिलकराजः, बलदेवशर्मा, जीवनशर्मा, निट्टूशर्मा च उक्तवन्तः यत्— “देवौ नवीन-स्थाने उपवेष्टुं नाङ्गीकृतवन्तौ।” अन्ये देवाः अपि स्वकीये पुरातने स्थाने एव उपवेष्टुम् इच्छां प्रकटितवन्तः तथा च तत्रैव उपविष्टाः सन्ति।

You Might Also Like

हिमाचलप्रदेशे आर्थिकसंकटेऽपि प्रियतमान् अधिकारिणः प्रति शासनस्य अनुग्रहः, निवृत्तेः अनन्तरं पुनर्नियोजनम्

HP News – राज्यस्य पंचायतानां कृते ६८.६५ कोटि-रूप्यकाणां विनियोगः

Himachal News – स्वास्थ्य-संस्थानेषु सुविधानां कृते १६१७ कोटि-रूप्यकाणि अनुमोदितानि

HP Vidhan Sabha Budget Session – विधानसभा-सत्राय सुदृढाः सुरक्षा-व्यवस्थाः

राष्ट्रसेवायाम् ठाकुररामसिंहमहोदयस्य योगदानं श्लाघनीयम् – जेपी नड्डा 

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article हिमाचलप्रदेशे आर्थिकसंकटेऽपि प्रियतमान् अधिकारिणः प्रति शासनस्य अनुग्रहः, निवृत्तेः अनन्तरं पुनर्नियोजनम्
Next Article ​पञ्जाब-विश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीय-संस्कृत-शिक्षण-कार्यशालायाः आयोजनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?