By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: क्रीडावार्ता: आईसीसी टी-20 विश्वचषके श्रीलङ्का-दलस्य विजयः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > क्रीडावार्ता: आईसीसी टी-20 विश्वचषके श्रीलङ्का-दलस्य विजयः
राष्ट्रीयवार्ताःक्रीडावार्ताः

क्रीडावार्ता: आईसीसी टी-20 विश्वचषके श्रीलङ्का-दलस्य विजयः

डॉ.अमनदीप शर्मा
Last updated: 2026/02/17 at 9:42 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

क्रीडावार्ता: आईसीसी टी-20 विश्वचषके श्रीलङ्का-दलस्य विजयः
आईसीसी टी-20 विश्वचषके आयोजकः श्रीलङ्का-दलः पल्लेकेले-अन्तर्राष्ट्रिय-क्रीडाङ्गणे ऑस्ट्रेलिया-दलं पराजित्य ‘सुपर-8’ चक्रे स्वस्थानं निश्चितं कृतवान्। पथुम-निसाङ्का महोदयस्य अविजित-शतकस्य बलेन श्रीलङ्का-दलेन केवलम् अष्टादश (18) चक्रेषु (ओवरेषु) द्वयोः स्तौभ्योः हान्या 184 धावनाङ्कान् निर्माय लक्ष्यं प्राप्तम्।

निसाङ्का महोदयस्य द्विपञ्चाशत् (52) कन्दुकाक्षेपणेषु निर्मितं शतकम् अस्य क्रीडा-महोत्सवस्य प्रथमं शतकम् अस्ति। श्रीलङ्का-पक्षतः कुसल-मेण्डिस् महोदयः अपि एकपञ्चाशत् (51) धावनाङ्कानां तीव्रगति-क्रीडां प्रदर्शितवान्।
तस्मात् पूर्वं प्रारम्भिक-फलकक्रीडकौ मिचेल-मार्श-ट्रेविस-हेड महोदयौ तीव्र-अर्धशतकैः तथा 104 धावनाङ्कानां सुदृढ-सहयोगेन ऑस्ट्रेलिया-दलस्य उत्तमं आरम्भं कृतवन्तौ। किन्तु श्रीलङ्का-दलेन मध्यचक्रेषु उत्कृष्टं प्रत्यावर्तनं कृत्वा ऑस्ट्रेलिया-दलं नव (9) स्तोभानां हान्या 181 धावनाङ्केषु अवरुद्धम्।

श्रीलङ्का-पक्षतः दुशान-हेमन्था त्रयः तथा दुष्मन्था-चमीरा द्वौ स्तोभौ प्राप्तवन्तौ। पथुम-निसाङ्का ‘प्लेयर ऑफ द मैच’ (क्रीडा-रत्नम्) इति चितः। ऑस्ट्रेलिया-दलस्य त्रयः प्रतिस्पद्र्धासु द्वौ अङ्कौ स्तः, अधुना सः दलः अग्रे गन्तुं अन्येषां परिणामानां उपरि आश्रितः अस्ति।

अन्येषां स्पर्द्धानां विवरणम्
इङ्ग्लैण्ड-इटली स्पर्धा: ह्यः अन्यस्मिन् द्वन्द्वे इङ्ग्लैण्ड-दलेन कोलकातायाः ईडन-गार्डन्स-क्रीडाङ्गणे ‘ग्रुप-सी’ वर्गे इटली-दलः 24 धावनाङ्कैः पराजितः। इङ्ग्लैण्ड-दलस्य 203 धावनाङ्कानां लक्ष्यं अनुसरन् इटली-दलः 20 ओवरेषु 178 धावनाङ्केषु पूर्णतया पराजितः (All out) अभवत्।

अफगानिस्तान-यूएई स्पर्धा: तस्मात् पूर्वं नवदिल्ल्याः अरुण-जेटली-क्रीडाङ्गणे ‘ग्रुप-डी’ स्पर्धायां अफगानिस्तान-दलेन संयुक्त-अरब-अमीरात (यूएई) दलः पञ्च-विकटैः पराजित्य अस्मिन् महोत्सवे प्रथमः विजयः प्राप्तः। 161 धावनाङ्कानां लक्ष्यं अफगानिस्तान-दलेन 19.2 ओवरेषु पञ्च-विकटानां हान्या 162 धावनाङ्कान् निर्माय पूर्णं कृतम्।

अद्यतन्याः स्पर्धाः (Today’s Matches)
अद्य तिस्रः स्पर्धाः भविष्यन्ति:

ग्रुप-डी: न्यूजीलैण्ड-कनाडा दलयोः मध्ये स्पर्धा चेन्नई-नगरस्य एम.ए. चिदम्बरम-क्रीडाङ्गणे प्रातः एकादश (11:00) वादने भविष्यति।

ग्रुप-बी: आयरलैण्ड-जिम्बाब्वे दलौ पल्लेकेले-क्रीडाङ्गणे अपराह्णे त्रि (3:00) वादने परस्परं सम्मुखीभविष्यतः।

ग्रुप-सी: स्कॉटलैण्ड-नेपालदलयोः स्पर्धा मुम्बई-नगरस्य वानखेड़े-क्रीडाङ्गणे सायं सप्त (7:00) वादने आरप्स्यते।

You Might Also Like

सीबीएसई-दशमी-कक्षायाः नूतन-परीक्षा-योजना: पात्रता-नियमविषये स्पष्टीकरणम्

स्वतन्त्रता सेनानी वासुदेव बलवन्त फड़के महोदयस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवान् गृहमन्त्री

संसदस्य बजट-सत्रस्य प्रथमचरणस्य समापनम्

देहल्यां सेवातीर्थपरिसरस्य उद्घाटनं कृतं प्रधानमन्त्रिणा

“सर्वकारः शिक्षाक्षेत्रे कृत्रिमप्रज्ञायाः (AI) प्रयोगं प्रोत्साहयति: शिक्षामन्त्री धर्मेन्द्रप्रधानः”

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article सीबीएसई-दशमी-कक्षायाः नूतन-परीक्षा-योजना: पात्रता-नियमविषये स्पष्टीकरणम्
Next Article हिमाचलप्रदेशे आर्थिकसंकटेऽपि प्रियतमान् अधिकारिणः प्रति शासनस्य अनुग्रहः, निवृत्तेः अनन्तरं पुनर्नियोजनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?