By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal News – स्वास्थ्य-संस्थानेषु सुविधानां कृते १६१७ कोटि-रूप्यकाणि अनुमोदितानि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal News – स्वास्थ्य-संस्थानेषु सुविधानां कृते १६१७ कोटि-रूप्यकाणि अनुमोदितानि
हिमाचलवार्ता

Himachal News – स्वास्थ्य-संस्थानेषु सुविधानां कृते १६१७ कोटि-रूप्यकाणि अनुमोदितानि

डॉ मनोज शैल
Last updated: 2026/02/15 at 10:14 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himachal News – स्वास्थ्य-संस्थानेषु सुविधानां कृते १६१७ कोटि-रूप्यकाणि अनुमोदितानि

हिमसंस्कृतवार्ता:- शिमला।

प्रदेशव्यापि उत्तम-स्वास्थ्यसेवानां प्रदानेन उद्देश्येन राज्य-सर्वकारेण ३००० कोटि-रूप्यक-मूल्यकस्य स्वास्थ्य-आधुनिकीकरण-उपक्रमस्य प्रथम-चरणे १६१७ कोटि-रूप्यकाणि स्वीकृतानि। एषा योजना १ अप्रैल २०२६ तः ३० अप्रैल् २०३१ पर्यन्तं प्रवर्तिष्यते। अस्याः योजनायाः अन्तर्गतं स्वास्थ्य- संस्थानेषु अत्याधुनिक- निदानसुविधाः, सिमुलेशन- आधारित- वैद्यकीय- प्रशिक्षण- प्रणाल्यः, कृत्रिम- बुद्धिमत्ता- सक्षम- हस्तधार्य- क्ष- किरण-यन्त्राणि तथा एकीकृत- डिजिटल- स्वास्थ्य-मञ्चः उपलब्धाः करिष्यन्ते।प्रथमचरणे वैद्यकीयमहाविद्यालयेषु नूतन- भवन- निर्माणम्, जीर्णोद्धारः, शैक्षणिकखण्डानां तथा बाह्य-आन्तरिक-रोगी-सुविधानाम् उन्नयनं क्रियते। उच्चस्तरीय- सिमुलेशनकेन्द्राणि, ए. आर. वी. आर. आधारित-प्रशिक्षणसुविधाः, डिजिटल- पुस्तकालयाः, ई-लर्निंग-मञ्चैः सह एकीकृताः कौशलप्रयोगशालाः स्थाप्यन्ते।

द्वितीयचरणे आई. जी. एम. सी., ए. आई. एम. एस. एस. चमियाना, हमीरपुर- स्थित- वैद्यकीय- महाविद्यालये च चिकित्साकेन्द्राणां सुदृढीकरणं भविष्यति। वृक्क- प्रतिरोपणम्, अस्थिमज्जा- प्रतिरोपणम्, स्नायुतन्त्र- शल्यचिकित्सा, हृदय- वक्ष- शल्यचिकित्सा, उन्नत- एण्डोस्कोपिक- प्रक्रियाः, बाल-चिकित्सासेवाः, रोबोट- सहायित- शल्यक्रियाः इत्यादीनां विस्तारः क्रियते। ओ- आर्म- त्रि- आयामी- चित्रणप्रणाली, न्यूरो- नेविगेशनतन्त्रं, रोबोटिक- शल्यप्रणाली, एकीकृत- गम्भीर- परिचर्या- निगरानीतन्त्रेण संस्थानानि सुसज्जितानि भविष्यन्ति। उन्नत- शिशु- चिकित्सा- परिचर्या- नवाचार- केन्द्रम् अपि स्थाप्यते, यत् गम्भीर-शल्य-तथा दूरसंचार- सक्षम- शिशु- चिकित्सा- सेवानाम् एकीकरणं करिष्यति।तृतीयचरणे आदर्शस्वास्थ्यसंस्थानानि सुदृढीकृतानि भविष्यन्ति। तेषु सी. टी. स्कैनर, चल- क्ष-किरण-यन्त्राणि, अल्ट्रासोनोग्राफी- यन्त्राणि, लैप्रोस्कोपिकप्रणाल्यः, नेत्र- शल्य- एकका: च स्थापिताः भविष्यन्ति। टेलीमेडिसिन- सेवानां विस्तारः, डिजिटल-संदर्भ-जालस्य (रेफरल- नेटवर्क) विकासः क्रियते, येन जिला- चिकित्सालयाः तृतीयक- सुपर- विशेषज्ञकेन्द्रैः सह निर्बाधतया संयोज्यन्ते।मुख्यमन्त्री सुखविन्द्रसिंह-सुक्खू-महोदयेन उक्तं यत् स्वास्थ्य-संस्थानेषु अत्याधुनिक- चिकित्सा- उपकरण- संयोजनार्थं ३००० कोटि- रूप्यक- निवेशस्य योजना प्रवर्तते। स्वास्थ्य-विभागस्य विवरणानुसारं प्रतिवर्षं ९.५ लक्ष-रोगिणः उपचारार्थं हिमाचलप्रदेशात् बहिर्गच्छन्ति, यस्मात् राज्यस्य सकल-आर्थिक-उत्पादने (जीडीपी) प्रायः १३५० कोटि-रूप्यकाणाम् आर्थिक-हानिः भवति। एषा योजना प्रदेशे स्वास्थ्य-सेवानां गुणवत्तां संवर्धयित्वा जनसामान्याय सुलभं, आधुनिकं च चिकित्सोपचारं प्रदास्यति।

You Might Also Like

KKSU Ramtek – ‘विश्वमन’-संकल्पनायाः विषये अधिकं शोधं करणीयम् – प्रो. मधुसूदन-पेन्ना

HP News – राज्यस्य पंचायतानां कृते ६८.६५ कोटि-रूप्यकाणां विनियोगः

HP Vidhan Sabha Budget Session – विधानसभा-सत्राय सुदृढाः सुरक्षा-व्यवस्थाः

राष्ट्रसेवायाम् ठाकुररामसिंहमहोदयस्य योगदानं श्लाघनीयम् – जेपी नड्डा 

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Vidhan Sabha Budget Session – विधानसभा-सत्राय सुदृढाः सुरक्षा-व्यवस्थाः
Next Article HP News – राज्यस्य पंचायतानां कृते ६८.६५ कोटि-रूप्यकाणां विनियोगः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?