By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Vidhan Sabha Budget Session – विधानसभा-सत्राय सुदृढाः सुरक्षा-व्यवस्थाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Vidhan Sabha Budget Session – विधानसभा-सत्राय सुदृढाः सुरक्षा-व्यवस्थाः
हिमाचलवार्ता

HP Vidhan Sabha Budget Session – विधानसभा-सत्राय सुदृढाः सुरक्षा-व्यवस्थाः

डॉ मनोज शैल
Last updated: 2026/02/15 at 10:08 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

HP Vidhan Sabha Budget Session – विधानसभा-सत्राय सुदृढाः सुरक्षा-व्यवस्थाः। ८७२ पुलिस-कर्मचारिणः नियुक्ताः

हिमसंस्कृतवार्ता:- शिमला।

विधानसभासत्रस्य अवसरे पुलिस-विभागेन सुदृढाः सुरक्षाव्यवस्थाः कृताः। विधानसभापरिसरेण सह नगरस्य प्रवेशद्वारेषु अपि सतर्कता वर्धिता अस्ति। तवी-मोड, शोघी इत्यादिषु स्थानेषु पुलिस-बलस्य नियुक्तिः कृता। संभावित- धरनाप्रदर्शन- रैली- आदीनां दृष्ट्या विधानसभापरिसरः तस्य समीपवर्तीक्षेत्रं च चतुर्षु सेक्टर-भागेषु विभक्तम् अस्ति। प्रत्येकक्षेत्रे राजपत्रित- पुलिस- अधिकारिण: प्रभारीरूपेण नियुक्ताः। सत्रकाले १५ राजपत्रित- अधिकारिण:, ३० अराजपत्रित- अधिकारिण:, ६६ मुख्य- आरक्षिणः, ३७५ आरक्षिणः, ४७ महिला-आरक्षिणः, १६ संचार- कर्मचारिणः नियुक्ताः सन्ति। २०० होमगार्ड- आरक्षका:, क्विक-रिएक्शन-टीम, विशेष- सुरक्षा- एककम् अन्येषां विशेषदलानां ७५ प्रशिक्षित- कमाण्डो अपि विविधेषु स्थानेषु नियोजिता: भविष्यन्ति। समग्रतया ८७२ अधिकारी- कर्मचारिणः नगरस्य समीपवर्ती- प्रदेशेषु नियुक्ताः सन्ति।

पुलिसविभागस्य विशेषशाखा, राज्य- अन्वेषण- विभागस्य कर्मचारिण: अपि सामान्य-वेषेण नियोजिता: भविष्यन्ति। सुरक्षा-सुदृढीकरणार्थं सीसीटीवी-कैमरा-प्रणाली, डिजिटल- वीडियोग्राफी, फोटोग्राफी तथा ड्रोन- निरीक्षण- व्यवस्था अपि उपयुज्यते। वरिष्ठ-पुलिस-अधीक्षकः शिमला गौरवसिंहमहोदयः जनान् प्रति आह्वानं कृतवान् यत् सुरक्षा-निरीक्षणे सहयोगं कुर्वन्तु, मिथ्याभ्रान्ति: न विश्वसन्तु, संशयास्पद- गतिविधीनां विषये शीघ्रं पुलिस-विभागं सूचयन्तु।

यातायात-व्यवस्थाया: सुदृढीकरणम्

नगरस्य यातायात-व्यवस्थां सुव्यवस्थितां कर्तुं एकस्य राजपत्रित-अधिकारिण: निरीक्षणे ट्रैफिक- पुलिसस्य अतिरिक्त-५० पुलिस-आरक्षका: तथा ३० होमगार्ड-कर्मचारिणः नियुक्ताः। सोमवासरात् आरभ्य अतिरिक्त-बलस्य नियुक्त्या जनानां पीक- ऑवर्स- कालेषु उत्पद्यमान- यातायात- सम्मर्द- समस्यायाः शमनस्य अपेक्षा व्यक्ता अस्ति। एवं विधानसभासत्रं निर्विघ्नतया सम्पन्नं भवेत् इति प्रशासनस्य प्रमुखो लक्ष्यः अस्ति।

You Might Also Like

KKSU Ramtek – ‘विश्वमन’-संकल्पनायाः विषये अधिकं शोधं करणीयम् – प्रो. मधुसूदन-पेन्ना

HP News – राज्यस्य पंचायतानां कृते ६८.६५ कोटि-रूप्यकाणां विनियोगः

Himachal News – स्वास्थ्य-संस्थानेषु सुविधानां कृते १६१७ कोटि-रूप्यकाणि अनुमोदितानि

राष्ट्रसेवायाम् ठाकुररामसिंहमहोदयस्य योगदानं श्लाघनीयम् – जेपी नड्डा 

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, HP Vidhan Sabha Budget Session, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल विधानसभा, हिमाचल विधानसभा सत्र, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article राष्ट्रसेवायाम् ठाकुररामसिंहमहोदयस्य योगदानं श्लाघनीयम् – जेपी नड्डा 
Next Article Himachal News – स्वास्थ्य-संस्थानेषु सुविधानां कृते १६१७ कोटि-रूप्यकाणि अनुमोदितानि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?