सरोजिनीनायडूमहोदयाया: व्यक्तित्वं कृतित्वं च (जयंतीविशेष:)
भारतीयस्वातन्त्रतासंग्रामस्य इतिहासे अनेकाः तेजस्विन्यः नार्यः स्वजीवनं राष्ट्रसेवायै समर्पितवत्य:। तासु सरोजिनी नायडूमहोदयाया: स्थानं विशिष्टतमम् अस्ति। एषा न केवलं स्वतन्त्रतासेनानिनी, अपि तु कवयित्री,कुशला वक्त्री, नारीशक्तेः प्रतीका च आसीत्। एतस्या: व्यक्तित्वे काव्य-सौन्दर्यं, राष्ट्रभक्ति, मानवतावादः, स्त्रीस्वातन्त्र्यचिन्तनं च अद्भुतरूपेण समन्वितम् आसीत्। अत एव एषा “भारतस्य कोकिला” इति नाम्ना विख्याता अभवत्। एतस्या: जन्म 1879तमे वर्षे फरवरीमासस्य त्रयोदशदिनांके हैदराबादनगरे प्रतिष्ठितबङ्गालीपरिवारे अभवत्। एतस्याः पिता अघोरनाथ चट्टोपाध्यायः विद्वान् शिक्षाशास्त्रज्ञः आसीत्, माता वरदसुन्दरी देवी संस्कृतभाषायाः कवितारचनायां निपुणा आसीत्। एतादृशे विद्वत्पूर्णे वातावरणे बाल्यादेव एतस्याः साहित्यरुचिः उत्पन्ना जाता। एषा अल्पवयसि एव असाधारणमेधाविनी आसीत्। द्वादशवर्षे वयसि एव विश्वविद्यालय- प्रवेशपरीक्षायां सफलता लब्धा। तदनन्तरं इंग्लैण्डदेशं गत्वा किंग्समहाविद्यालय- लन्दननगरे उच्चशिक्षां प्राप्तवती। पाश्चात्यसाहित्यस्य अध्ययनं कृत्वापि एषा स्वदेशीयसंस्कृतिं कदापि न विस्मृतवती। सरोजिनीनायडूमहोदया जन्मना कवयित्री आसीत्। एतस्या: कवितासु प्रकृतिसौन्दर्यं, मानवीयभावनाः, प्रेम, करुणा, राष्ट्रभक्तिं च सरसतया प्राप्यन्ते। एतस्या: भाषा सरला, मधुरा, गीतात्मिका च आसीत्। एषा असाधारणवक्त्री आसीत्। एतस्या: भाषणेषु जनमानसं प्रेरितुं क्षमता आसीत्। स्वतन्त्रता- संग्रामकाले एषा प्रतिग्रामं, प्रतिनगरं गत्वा जनान् जागरूकम् अकरोत्। एतस्या: सम्पूर्णजीवनं राष्ट्रसेवायै समर्पितम् आसीत्। महात्मागांधीत्यस्य नेतृत्वे एषा असहयोग- आन्दोलनं, सविनय- अवज्ञा- आन्दोलनं च सक्रियतया समर्थितवती। सरोजिनी नायडू नारीस्वातन्त्र्यस्य प्रखरसमर्थिका आसीत्। एषा स्त्रीशिक्षां, स्त्रीसमानतां, सामाजिकसम्मानं च आवश्यकम् इति सदा प्रतिपादितवती।
सरोजिनीनायडूमहोदया उर्दू- तेलुगु- आङ्ग्ल- बाङ्गला- फारसीभाषासु निपुणा आसीत्। नायडूमहोदयायाः साहित्यिकं योगदानं विशेषतः देशभक्तेः, प्रेमभावनायाः तथा गीतात्मकविषयाणां प्रति केन्द्रितम् आसीत्। एतस्याः कविताभ्यः महात्मना गान्धिमहोदयेन एषा “भारतस्य कोकिला” इति सम्बोधिता। एतस्याः जन्मदिनं भारतदेशे “राष्ट्रीय- महिलादिवस:” इति रूपेण आचर्यते। सरोजिनीनायडूमहोदया मुख्यतया आङ्ग्लभाषायां काव्यरचनां कृतवती। तथापि एतस्या: कवितासु भारतीयता स्पष्टतया दृश्यते। एतस्या: प्रमुखकाव्यसंग्रहाः सन्ति- “द गोल्डन थ्रेशहोल्ड” “द वर्ड आफ टाइम” “द ब्रोकेड विंग” इति।”लेडी आप द लेक” “मेहर मुनीर” एते द्वे रचने नायडूमहोदयाया: स्त:। अपि च एतस्या: हिन्दीभाषायां बहव्य: रचना: सन्ति। एतेषु काव्येषु भारतीयनारीणां जीवनं, ग्राम्य-संस्कृति:, प्रकृति- सौन्दर्यम्, आध्यात्मिकभावना च चित्रितानि सन्ति। एतस्या: महोदयाया: स्वातन्त्र्यसंग्रामे अपि योगदानम् अद्वितीयम् आसीत्। एषा भारतीय- राष्ट्रीय- काङ्ग्रेस संस्थायाः प्रमुखा नेत्री आसीत्। एषा 1925 तमे वर्षे कांग्रेससंस्थायाः अध्यक्षपदे नियुक्ता अभवत्। एषा भारतीयराजनीतौ स्त्रीणां नेतृत्वस्य ऐतिहासिकक्षणः आसीत्। एषा अनेकवारं कारावासं प्राप्तवती, तथापि कदापि विचलिता नाभवत्। ऐसा महात्मा गांधीजीत्यस्य विश्वासपात्रा सहचरी इति नाम्ना विख्याता अभवत्।
स्वातन्त्र्योत्तरकाले सरोजिनीनायडूमहोदया उत्तरप्रदेशराज्यस्य प्रथमराज्यपाल: अभवत्। एषा नियुक्तिः भारतीयनारीणां प्रशासनिकक्षेत्रे प्रवेशस्य प्रतीकः आसीत्। सरोजिनीमहोदया मानवतावादिनी आसीत्। एषा कदापि जातिभेदं, धर्मभेदं, लिङ्गभेदं च न स्वीकृतवती। एतस्या: चिन्तने “वसुधैव कुटुम्बकम्” इति भारतीयदर्शनस्य प्रभावः स्पष्टः दृश्यते। सरोजिनीनायडूमहोदया 1949 तमे वर्षे मार्चमासस्य द्वितीयदिनांके लखनऊनगरे देहत्यागं कृतवती। एतस्या: निधनं सम्पूर्णराष्ट्राय अपूरणीया क्षतिः आसीत्। अद्यापि जना: एतां भारतीयनारीशक्तेः, साहित्यस्य, राष्ट्रभक्तेः च विशिष्टम् उदाहरणरूपेण जानन्ति। सरोजिनीनायडूमहोदया बहुमुखीव्यक्तित्वस्य स्वामिनी आसीत्। एतस्या: जीवनं दर्शयति यत् साहित्यं राष्ट्रसेवाया: साधनं भवितुं शक्नोति। भारतसर्वकारेण 1964 तमे वर्षे एतस्या: नाम्ना एकस्या: डाकचिटिकाया: उद्घाटनं कृतम्। एषा सम्पूर्णं जीवनं स्वराष्ट्रस्य कृते समर्पितवती। अत एव एषा न केवलं इतिहासस्य विशिष्टं पात्रम् अस्ति, अपि तु भारतीयचेतनायाः विशिष्टा प्रेरणा अस्ति।
डॉ. विमलेश झा,
डीएवी पब्लिक विद्यालय:
बरारी भागलपुर बिहार
