*कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये त्रिदिवसीया-अखिलभारतीयवैदिकसंगोष्ठी*

महर्षिसान्दीपनिराष्ट्रियवेदविद्याप्रतिष्ठानम्, उज्जयिनी तथा कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयस्य संस्कृतवेदाध्ययनविभागस्य संयुक्ततत्त्वावधानेन षड्विंशत्यधिकद्विसहस्रतमवर्षस्य फरवरीमासस्य दशमे, एकादशे, द्वादशे च दिनाङ्केषु त्रिदिवसीया अखिलभारतीयवैदिकसंगोष्ठी सफलतया आयोजिता। अस्याः संगोष्ठ्याः प्रमुखविषयः आसीत् — “पूर्वोत्तरभारते वैदिकशिक्षापरम्परा”।
प्रथमदिने प्रातः सार्धदशवादने उद्घाटनसत्रं सम्पन्नम्। वैदिकमङ्गलाचरणेन सत्रस्य शुभारम्भः कृतः। उद्घाटनसत्रे विश्वविद्यालयस्य कुलपतिः आचार्यः प्रह्लादरा. जोशीवर्यः उद्घाटनवक्तारूपेण उपस्थितः सन् अतिथीनां स्वागतं कृत्वा संगोष्ठ्याः उद्देश्यानि प्रकाशयन् उद्घाटनभाषणम् अकरोत्।
उद्घाटनानुष्ठाने मुख्यातिथिरूपेण स्वामीनारायणशोधसंस्थानस्य (अक्षरधाम, नवदेहली) प्रमुखाचार्यः अध्यक्षः महामहोपाध्यायः साधुश्री भद्रेशदासपादः उपस्थितः आसीत्। तेन वेदाध्ययनस्य शैक्षिक-सांस्कृतिकमहत्त्वं विस्तरेण निरूपितम्। विशिष्टातिथिरूपेण कलकाताविश्वविद्यालयस्य आचार्यः रवीन्द्रनाथभट्टाचार्यमहाभागः उपस्थितः आसीत्। बीजवक्तारूपेण गौहाटीविश्वविद्यालयस्य संस्कृतविभागाध्यक्षः आचार्यः कामेश्वरशुक्लमहाभागः पूर्वोत्तरभारते वैदिकशिक्षापरम्परायाः ऐतिहासिक-शास्त्रीयपरिप्रेक्ष्यं व्याख्यानम् अकरोत्। अस्मिन् सत्रे विश्वविद्यालयस्य वेदवेदाङ्गसंकायाध्यक्षः आचार्यः सुधाकरमिश्रवर्यः अपि उपस्थितः आसीत्।
सत्रस्य अन्ते संगोष्ठ्याः संयोजकः तथा संस्कृतवेदाध्ययनविभागस्य सहायकाचार्यः डॉ. प्रणवज्योति डेका धन्यवादज्ञापनम् अकरोत्। सभासञ्चालनं संस्कृतवेदाध्ययनविभागस्य सहायकाचार्येण महेशचिदाम्बरभट्टेन दक्षतया निर्वाहितम्। अस्मिन्नवसरे संगोष्ठ्याः समन्वयिका डॉ. बर्णाली बरठाकुर, सहसंयोजिका डॉ. सानु सिन्हा, विभिन्नविभागाध्यक्षाः, अध्यापकवृन्दम्, महर्षिसान्दीपनिराष्ट्रियवेदविद्याप्रतिष्ठानस्य प्रतिनिधयः, शोधच्छात्राः तथा छात्राः बहुसंख्यया उपस्थिताः आसन्।
उद्घाटनसत्रानन्तरं प्रथमं शैक्षणिकसत्रं पादोणैकवादने आयोजितम्, यस्य अध्यक्षता आचार्या मौदासगुप्तामहाभागा अकरोत्। अस्मिन् सत्रे चत्वारः शोधपत्रप्रस्तोतारः स्वविषयान् प्रस्तुतवन्तः। अपराह्ने त्रिवादने द्वितीयसत्रं सम्पन्नम्, यस्य अध्यक्षता सहाचार्यः विश्वबन्धुमहोदयः अकरोत् , तत्र त्रयः पत्रप्रस्तोतारः सहभागिनः आसन्।
द्वितीयदिने आयोजितेषु सत्रेषु क्रमशः आचार्यः तारकनाथअधिकारीवर्यः, डॉ. सुमन के.एस्., तथा आचार्यः देवराजपाणिग्रहीमहोदयः अध्यक्षतां निर्वहन्तः शोधपत्रप्रस्तुतिं मार्गदर्शितवन्तः। प्रत्येकसत्रे विद्वद्भिः पूर्वोत्तरभारते वैदिकशिक्षापरम्परामधिकृत्य बहु चर्चा कृता आसीत्।
तृतीयदिने अस्याः संगोष्ठ्याः अन्तिमे सत्रे अपि आचार्यः देवराजपाणिग्रहीमहोदयः अध्यक्षतां कृतवान्। सत्रेषु विविधराज्येभ्यः आगतैः विद्वद्भिः शोधपत्राणि प्रस्तुतानि, येषु वैदिकपरम्परायाः बहुविधा आयामाः प्रकाशिता अभवन्।
संगोष्ठ्याः समापनसत्रं मध्याह्ने द्विवादने सम्पादितम् । अस्मिन्
समापनसत्रे मुख्यातिथिरूपेणासीत् गौहाटीविश्वविद्यालयस्य प्राक्तनसंस्कृतविभागाध्यक्षा आचार्या सुदेष्णा भट्टाचार्यः । विशिष्टातिथिरूपेणासीत् गौहाटीविश्वविद्यालयस्य संस्कृतविभागस्य आचार्यः जगदीश शर्मा । समापनसत्रस्य अन्ते संगोष्ठ्याः संयोजकः डॉ. प्रणवज्योति डेका , समन्वयिका डॉ. बर्णाली बरठाकुर , सहसंयोजिका डॉ. सानु सिन्हा सर्वेषां धन्यवादज्ञापनम् अकुर्वन् ।
