गरुडपुराणान्तर्गतः प्रेतकल्पः
भगवता श्रीव्यासदेवेन विरचितेषु अष्टादशपुराणेषु गरुडपुराणम् अन्यतमम्। अस्य पुराणस्य एकांशभूतः प्रेतकल्पः मनुष्यैः अवश्यं श्रवणीयः, ज्ञातव्यश्च। विशेषतः हिन्दूसनातनिभिः अयमंशः श्रूयमाणोऽस्तीति परम्परा। अत्र मृतकानाम् उद्धारार्थं करिष्यमाणानां कार्याणां वर्णनं प्राप्यते। मनुष्यः यादृशं शुभाशुभकर्म करोति तादृशं हि शुभाशुभफलम् अधिगच्छतीति सृष्टिनियमः। शुभकर्मणः फलं किम्, एवम् अशुभकर्मणः च फलं किमिति विषये अस्मिन् भागे अत्यन्तं सुन्दरतया वर्णितं प्राप्यते। चतुरशीतिलक्षयोनिषु मनुष्ययोनिः अन्तिमा। दुष्कर्मिभिः पापिभिः एतावत्यः दुःखोपेताः योनयः भुज्यन्ते, तदनन्तरं हि कथञ्चित् तैः देवदुर्लभं मनुष्यजन्म लभ्यते। यदि अस्मिन्नपि मनुष्यजन्मनि ते शुभकर्माणि नाचरेयुः तर्हि ते पुनः पूर्ववत् तानि एव चतुरशीतिलक्षजन्मानि प्रविशेयुः। अतः तेषां जन्ममरणरूपधारा न कदापि समाप्ततां गच्छेत्। तस्मात् तैः अनिवार्यत्वेन सदैव दुःखयातना हि सोढव्या भवति। यावत् मनुष्याणां परमात्मप्राप्तिः न सम्भवेत् तावत् तेषां दुःखान्निवृत्तिः अपि न कदापि सम्भवति। एतादृशं सर्वमपि तथ्यम् अस्मिन् प्रेतकल्पे उल्लिखितं प्राप्यते। अतः पुराणादिग्रन्थाः अस्माभिः सम्यक् प्रपठ्य मननीयाः, आचरणीयाः च स्वकल्याणाय, जनकल्याणाय चेति।
-नारदः।