By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: दमिश्कस्य पतनम् – असादकुलस्य सिरियातः निर्गमनस्य तात्पर्याणि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > दमिश्कस्य पतनम् – असादकुलस्य सिरियातः निर्गमनस्य तात्पर्याणि
अन्ताराष्ट्रीयवार्ताःलेखकाः पत्रकाराश्च

दमिश्कस्य पतनम् – असादकुलस्य सिरियातः निर्गमनस्य तात्पर्याणि

डॉ.अमनदीप शर्मा
Last updated: 2024/12/10 at 6:49 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
4 Min Read
SHARE

दमिश्कस्य पतनम् – असादकुलस्य सिरियातः निर्गमनस्य तात्पर्याणि

– वेणुगोपालनारायणेन स्वाराज्यमैग् इत्यस्मिन् लिखितस्य लेखस्य ईदराधीराजेन कृतः अनुवादः

बहुपूर्वं स्वलाभाय पाश्चात्योपनिवेशवादिभिः निर्मातानि सीमानः मानचित्राणि च आधुनिकपरिस्थित्यनुसारेण क्रौर्येण परिवर्तमानाः सन्ति।
सिरियायाः ऐतिहासिकी राजधानी दमश्कः सुन्नि-इस्लामवादि-सशस्त्र-दलेन विना युद्धं निगृहीतः।
समाचारे अस्पष्टे, अति अप्रमाणिते सति, याथार्थ्यमस्ति यत् हयअत्-तहरीर्-अल्-शम्-नामितं तुरुष्कमूलं तुरुष्कसमर्थितं पूर्व-अल्कायदासदस्यानां दलम् उत्तरे हलबतः, मध्ये हमसद्वारा दक्षिणे दमश्कं पर्यन्तं, केवलम् एकेन दिवसेन सिरियासेनया अनुमतम्।
दूरत्वं तु त्रिशतं किलोमितम्। रष्याटूडे इत्यस्य अनुसारेण सिरिया-राष्ट्रपतिः बषर-अल्-असादः तु स्वदेशात् पलायितवान्। अनिश्चितता अत्यन्तमेव।
अथ इस्रायलद्वारा हमासदलेन सह लिबनानेन सह च युद्धविरामस्य स्वीकृतेः परं सत्वरम् आरब्धस्य अस्य आश्चर्यजनकस्य उद्गमस्य तात्पर्याणि कानि?
प्रथमं तु असादकुलस्य अर्धशताब्दं यावत् शासनम् अन्ततां गतः। क्रूरः शासनकालः आसीत् यदा आधुनिकयुगस्य घोरतमाः अत्याचाराः कृताः। द्व्यशीत्यधिकोनविंशतिशततमे वर्षे हमा इत्यत्र सञ्जाते महमदीय-भ्रातृत्व-विद्रोहिणां नरसंहारे सहस्रशः हननं, पौराणामुपरि रासायनिकास्त्रप्रयोगः च विशेषतीव्रतायाः प्रतिकौ।
सरलतया उच्येत चेत्, सिरियायाम् असादकुलेन, प्रतिवेशिनि इराके सद्दाम-हुसैनेन आचरिता इयं राजनीतिः विभिन्नजातीनाम् उपरि यथेष्टं स्वलाभाय शासनं कर्तुं राजनैतिक-उपकरणम् आसीत्।
तृतीयमस्ति यत् दमश्क़स्य पतनेन, षियाधारितानाम् अलवीयानाम् अतिमहत्त्वपूर्णस्य प्राबल्यस्य अन्तः। विगतस्य शताब्दस्य प्रारम्भे फ़्रन्सीयाः अस्याः जात्याः समर्थनं सहयोगं लब्धवन्तः ये किञ्चित्कालं यावत् अलवीयराज्यं सिरियासमुद्रतटीयक्षेत्रे ऊनविंशत्युत्तरोनविंशतिशततमे वर्षे निर्मितवन्तः। अलवीयाः परिस्थितीनाम् सदुपयोगं कृत्वा शासनतन्त्रस्य आधिकारिकपदानि गृहीतवन्तः। ततः परं शासनतन्त्रमेव वशीकृतवन्तः।
किन्तु सिरियायाः जनसङ्ख्यायाः पञ्चसप्तति-प्रतिशतं सुन्निजनाः। अन्यच्च, महमदीयानां बहवः सम्प्रदायाः अलवीयान् महमदीयान् न मन्यन्ते यतोहि अलवीयाः स्वपूजार्चनेषु मद्यस्य प्रयोगम् (इस्लामे वर्जितम्) कुर्वन्ति, प्रतिदिनम् आरधनां न कुर्वन्ति अपिच कुरानम् अतिरिच्य इतराणि शास्त्राणि मन्यन्ते, केषाञ्चन क्रैस्तवसाधूनाम् अपि वन्दन्ते।
परिणामतः ते लक्षीकृताः स्युः विशेषतः बहुकालं दमश्के निवसितवन्तः यतोहि दमश्के तेषां सङ्ख्या समुद्रतटीयक्षेत्राणाम् अपेक्षया न्यूना अस्ति। परिस्थितीः इतोऽपि विषमाः भवेयुः चेत् इमे अलवीयाः विदेशं शरणं गच्छेयुः यथा पूर्वं कुर्दीयाः सुन्नयः च।
चतुर्थमस्ति यत्, जय-मेननस्य अनुसारेण, सिरियासेनायाः युद्धनिर्वहणे वैफल्येन सिरियायाम् इरानसमर्थितस्य हिज़्बुल्लाहस्य प्राथमिकता वर्धिता। पूर्वं गृहयुद्धे हिज़्बुल्लाहः एव असादसमर्थने प्रमुखं सैन्यदलम् आसीत्। किन्तु अद्य तु हिज़्बुल्लाहः इस्रायलेन अक्षमः कृतः।
एवं सति इरानस्य प्रभावः न्यूनीभूतः। अस्मिन् स्थाने तुरुष्कदेशः हयअत्-तहरीर्-अल्-शम्-नामितं सुन्निदलं निर्मीय सिरियायाम् अग्रेसरति। इस्रायलेन आहते सत्यपि, इरानदेशः तु प्रतिक्रियां करिष्यति। किन्तु प्रतिक्रिया कथं भवेत् इति प्रश्नस्य उत्तरं दातुं कष्टतरम्।
उपप्रमेयस्य अनुसारेण तुरुष्कदेशः कथं हयअत्-तहरीर्-अल्-शम्-दलस्य नियन्त्रणं कथं नैरन्तर्येण करिष्यति इत्यपि अवगन्तुं कष्टम् यतोहि नियन्त्रणस्य आधारसूत्राणि दुर्बलानि। दलस्य सिरियायां वर्धनेन तुरुष्कस्य वशं न्यूनीभविष्यति।
अपिच तुरुष्काः तुरुष्काः एव अरबीयाः तु अरबीयाः। उभे जाती भिन्ना एव। तयोः भिन्नता न्यूना नैव।
अपिच अलवीयशासानात् विमुक्ताः सिरियास्थानीयाः कुर्दीयाः तुरुष्कदेशे निवासिभिः कुर्दीयैः सह मिलित्वा सहकार्यं कुर्युः यत् तुरुष्कदेशेन न अनुमतं स्यात्। ईदृशाः क्लेशाः भविष्यत्काले आगच्छेयुः।
पञ्चममस्ति यत् सिरियायाः अतिमहत्त्वपूर्णः षष्ठदशकात् मित्रदेशः रष्या अस्ति। रष्यासमर्थनेन हि असादकुलः इयत्कालं शासनारूढः। सिरियासमुद्रतटीयः तार्तुस-नामितः नौकाश्रयः सप्तमदशकात् रष्यानौसेनाश्रयः अस्ति। किन्तु वार्तावृत्तान्तानामनुसारेण तार्तुसतः रष्यानावः निर्गताः।
केचन वदन्ति यत् निर्गमनमिदम् अमेरिकया सह चर्चायाः अनुसारेण सञ्जातम्। यदि रष्या सिरियां त्यजति तर्हि युक्रेणीये दोन्बासे शासनं कर्तुं शक्नोति।
षष्ठः विषयः अस्ति असंस्कृततैलम्। अस्य शताब्दस्य आरम्भे सिरियायां पूर्वभागे इराकसीम्नः समीपे दियेरसज़ोरं परितः नूतनाः आविष्काराः तैलोत्पत्तिम् अर्धायुतमितेन पात्रैः वर्धयन्ति स्म। सिरियायाः निर्यातस्य पञ्चदश-प्रतिशतमितं तैलं, षष्ठि-प्रतिशतमितः आयः। किन्तु निरन्तरविद्रोहैः गृहयुद्धेन च इतोऽपि उदागारिकस्रोतानाम् अन्वेषणं सथिगतं जातम्। अन्विष्टानां तैलस्रोतानां विकासः अपि स्थगितः। अतएव तैलोत्पत्तिः पतिता।
तस्मात् यः कोऽपिः दमश्के शासनं ग्रहीष्यति सः सिरियातैलोद्योगं पुनरारब्धुम् इष्यति। न इष्यति चेत् अपि पाश्चात्यतैलसंस्थाः प्रोत्साहयिष्यन्ति यथा इराकीये कुर्दीयप्रदेशे बगदादात् स्वतन्त्राः सन्ति।
अन्ततः सप्तमः विषयः अस्ति सिरियायाम् इस्लामीयतन्त्रम् अवर्जनीयं यतोहि असादः मुल्लाहान् पृष्ठभूमौ हि स्थापितवन्तः पुरा। अधुना ते अवसरं गृहीतुम् इच्छन्ति। हयअत्-तहरीर्-अल्-शम्-दलं तु अल्-कायदायां वा इस्लामीय-राष्ट्रे आधारितमेव। दमश्के बहु शताब्दानाम् अनन्तरम् अमीरस्य शासनं भवेत्।
समापने उच्यतां यत् उपनिवेशवाद-युगस्य अन्तस्य आरम्भः एवं दृश्यते। स्वलाभाय पाश्चात्योपनिवेशवादिभिः निर्मातानि सीमानः मानचित्राणि च आधुनिकपरिस्थित्यनुसारेण क्रौर्येण परिवर्तमानाः सन्ति। अपिच आयाताः कृत्रिमाः धर्मनिरपेक्षसिद्धान्ताः त्यक्ता भविष्यति येषां स्थाने स्थानीयाः सिद्धान्ताः आगच्छेयुः।

You Might Also Like

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

सितम्बर-मासे रोहताङ्ग-प्रभृति-शिखरेषु हिमपातस्य शुभ्राच्छादनम्; त्रि-होराः यावत् स्थगिता मणिमहेश-यात्रा

शिवागम-साधकाः १८ सितम्बर-दिनाङ्के करिष्यन्ति डल-सरोवरावरण-भेदम्; तदनन्तरं प्रारप्स्यते पवित्रं ‘शाही-स्नानम्’

उद्यानपालकेभ्यः सर्वकारस्य महदोपहार:,एमआईएस-अन्तर्गतं प्रति-किलोग्रामं त्रीणि रूप्यकाणि वर्धिष्यन्ते सेव-मूल्यानि

TAGGED: Himachal news, himsanskritnews headlines, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दमिश्क, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता
Next Article असमराज्यस्य विश्वनाथजनपदे नूतना कार्यकारी समितिः निर्माणम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?