By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ‘भक्ति-रत्नावली’-नामको ग्रन्थः असमीयाजनजीवनस्य प्राणस्वरूपः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > ‘भक्ति-रत्नावली’-नामको ग्रन्थः असमीयाजनजीवनस्य प्राणस्वरूपः
धर्मसंस्कृतिः

‘भक्ति-रत्नावली’-नामको ग्रन्थः असमीयाजनजीवनस्य प्राणस्वरूपः

डॉ.अमनदीप शर्मा
Last updated: 2026/01/29 at 7:03 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
5 Min Read
SHARE

‘भक्ति-रत्नावली’-नामको ग्रन्थः असमीयाजनजीवनस्य प्राणस्वरूपः

असमप्रदेशीयः विज्ञानशिक्षकः, नारदोपाध्यायः

साहित्यक्षेत्रे, धर्मीयक्षेत्रे च असमराज्यम् पूर्वतः हि अग्रेसरम् इति कथने नात्युक्तिः सर्वथा। असमीया- जातीय- जीवनस्य एवं संस्कृत्याः मूलाधारस्य निर्माता, असमीया- साहित्यस्य अन्यतमः स्रष्टा, नववैष्णवधर्मस्य एकान्तसाधकः, महापुरुष- शङ्करदेवेन सह समभावेन संलग्नः सज्जनः हि महापुरुषः माधवदेवः इति नाम्ना प्रसिद्धः, सुस्मरणीयश्च। महापुरुषः माधवदेवः बहुधा गीतम्, नाटकम्, भक्तितत्त्वमूलकम् इत्यादिविषये नानाग्रन्थान् विरचय्य असमीयासाहित्यम् इतोऽपि समृद्धं कृतवान्, अपिच साहित्यविकासाय एकां नूतनगतिं प्रदत्तवान् अस्ति। भारतस्य पूर्वाञ्चलप्रान्ते नववैष्णवधर्मस्य प्रचार-प्रसारकार्ये माधवदेवस्य अतिविशिष्टा भूमिका वरीवर्तते।
महाभागस्य १४८९ तमे ख्रिष्टाब्दे, असमराज्यान्तर्गतस्य ‘नारायणपुर’ इति क्षेत्रस्य ‘लेतेकुपुखुरीपार’ इति स्थाने जन्म जातमासीत्। माधवदेवस्य पिता- गोविन्दगिरिः, माता- मनोरमा च इति नामधेयौ तस्य सुशीलौ पितरौ आस्ताम्। तस्य शैशवकालः हरिसिंहवरा गृहे, एवं घाघरमाजेः आश्रये अतिवाहितः। तदनन्तरं पित्रा सह वण्डुकास्थितं प्राक्तनं गृहं प्रत्यागतवान्। तत्र चतुर्दशवर्षीयस्य तस्य अध्ययनार्थं राजेन्द्राध्यापकस्य संस्कृतटोले नामपञ्जीकरणं जातम्। तस्यां शालायां सम्यक् अधीत्य सः स्वल्पसमयावधौ हि सुशिक्षाम् आसादितवान् आसीत्। यदा सः पितृविहीनः जातः, तदा मण्डुकां परित्यज्य माजुल्यभिमुखं स्थानान्तरितः अभवत्। तत्र आत्मीयस्य रामदासस्य साहाय्येन तस्य महापुरुष- शङ्करदेवेन सह परिचयः अभूत्। माधव- शङ्करयोः मध्ये देवीपूजा, बलिविधानम् इत्यादिविषयम् अनुसृत्य नानायुक्तितर्कादिकं समुत्पन्नम् आसीत्, परम् अन्ते माधवदेवः तद्विषये पराजितोऽभवत्। ततः सः शङ्करदेवस्य शरणापन्नः जातः, नववैष्णवधर्मस्य गुरुरूपेण तम् अङ्गीकृतवान्। तत्पश्चात् शङ्करदेवेन सहैव सः नववैष्णवधर्मविषयकः परमसाधकः प्रचारकश्च सञ्जातः। माधवदेवः प्रसिद्धः कविः, नाट्यकारः, गीतिकारः, धर्मप्रचारकः, सुगायकश्च आसीत्। तस्य महाभागस्य साहित्यक्षेत्रे एकं स्वकीयं वैशिष्ट्यं विराजमानम् अस्ति। तेन रचितेन नाट्यमाध्यमेन वैष्णवधर्मस्य महिमा प्रचारितः दृश्यते। तस्य मनः श्रीकृष्णस्य शिशुरूपं प्रति अत्यन्तम् आकृष्टम् आसीत्। तस्मात् तस्य गीतेषु विशेषतः बालरूपस्य श्रीकृष्णस्य नानाचौर्यकार्यम्, चाञ्चल्यम्, चातुर्यादिकं प्रकाशितम् अवलोक्यते। रामायणस्यापि सः आदिकाण्डस्य हि भाष्यं कृतवान् अस्ति। अनेन सः श्रीरामस्य बाल्यकालस्य नानाचरित्रं स्वेच्छया वर्णयितुम् अशक्नोत्। तस्य नाटकम्, गीतम् इत्यादिकं प्रायशः वात्सल्यरसेन परिपुष्टं वर्तते। तस्य गीतानि महाराष्ट्रस्य तुकारामस्य, एवम् उत्तरभारतस्य सुरदासस्य गीतैः सह तोलयितुं शक्यानि। तेन विरचितानि नाटकानि एवं सन्ति- ‘चोरधरा’, ‘पिम्परा गुचोवा’, ‘भोजन विहार’, भूमि लेटोवा’, ‘अर्जुन भञ्जन’, तदुपरि ‘रासझुमुरा’, ‘कोटोरा खेला’, ‘ब्रह्ममोहन’, ‘भूषण हरण’ इत्यादीनि।
आख्यानमूलकरचनाः-
रामायणम् आधृत्य ‘आदिकाण्ड’, भागवतञ्च अनुसृत्य ‘राजसूयकाव्य’ चेति।
तत्त्वमूलकरचनाः-
‘जन्मरहस्य’, ‘भक्ति रत्नावली’, ‘नाम मालिका’, ‘नामघोषा’ चेति। माधवदेवस्य सर्वोत्तमा, प्रसिद्धा च कृतिरेव ‘नामघोषा’ इति।
गीतम्-
माधवदेवस्य ‘वरगीत’, ‘भटिमा’ इत्यादिकी असमीया- गीतिसाहित्यस्य काचित् अमूल्यसम्पत्। ‘वरगीत’ इत्यस्य उदाहरणत्वेन चरणद्वयम् अत्र प्रस्तूयते-
“तेजरे कमलापति परभात निन्द।
तेरि चान्द मुख पेखो उठरे गोविन्द।।”
“याहेर चरन रेणु योगी नापाइ।
भकति बले ताको बन्धन कराइ।।” इति।
माधवदेवस्य तत्त्वमूलकग्रन्थः ‘भक्ति-रत्नावली’ इति। महापुरुषीय- वैष्णवधर्मे शङ्करदेवस्य ‘कीर्तनघोषा’, ‘दशम’ इति ग्रन्थद्वयस्य यत् स्थानम्, तदेव स्थानं माधवदेवस्य ‘नामघोषा’, ‘भक्ति- रत्नावली’ इति ग्रन्थद्वयस्य। एतद्ग्रन्थचतुष्टयं महापुरुषीय- वैष्णवधर्मस्य मुख्यस्तम्भभूतं वर्तते।
महापुरुष- माधवदेवेन विरचितस्य ‘भक्ति- रत्नावली’ ग्रन्थस्य मूलाधारभूतः- ‘विष्णुपुरी’ नामधेयस्य सन्यासिनः ‘भक्तिरत्नावली’ इति ग्रन्थः। अस्य मूलग्रन्थस्य ग्रन्थाकारस्य विष्णुपुरिणो विशेषपरिचयो नोपलभ्यते। केवलं स महाभागः आत्मानं ‘तैरभक्त-सन्यासी’ इति कथयति स्म। लोकविश्वासानुसारं विष्णुपुरिणः सम्पूर्णं नामासीत् ‘विष्णुशर्मा’ इति। तस्य महाभागस्य जन्म मिथिलायाः ‘तिरौणी (तरौणी वा)’ इतिनामके ग्रामे, ब्राह्मणपरिवारे च जातमासीत्। संस्कृतभाषायाम् एवं शास्त्रादिषु तस्य अनुपमेया पारदर्शिता आसीत्। तत्त्वज्ञानप्राप्तेः अनन्तरं सः सन्यासधर्मं स्वीकृतवान्। जनश्रुत्यनुसारं विष्णुपुरी प्रथमविवाहं विधाय, पश्चात् तत्पत्न्याम् अशिष्टाचरणं परिलक्ष्य च तां परित्यक्तवान्, तथा च गृहसंसारमोहादपि तस्य वैराग्यं जातम्। तदनन्तरं मिथिलायाः कस्मिंश्चित् शिवमन्दिरे निवसन् निरुपायत्वेन द्वितीयविवाहं सम्पादितवान्। तन्मन्दिरे यदा आसीत् तदा हि सः ‘भक्ति- रत्नावली’ ग्रन्थं विरचितवान् इति कथ्यते।
‘भक्ति-रत्नावली’ इति ग्रन्थः भक्तिविषयकः कश्चन सिद्धान्तग्रन्थः। ‘रत्न’ इत्युक्ते कश्चन मूल्यवान् पाषाणः। ‘आवलिः’, ‘आवली’ इति वा काचित् पङ्क्तिः, माला वा; अतः रत्नानां आवली- ‘रत्नावली’ इत्यत्र षष्ठीतत्पुरुष-समासः युज्यमानो वर्तते इति। अतः अस्मिन् ग्रन्थे भक्तितत्त्वविषयकः सारभागः सङ्गृहीतः वर्तते पद्यैः।
माधवदेवेन तद्ग्रन्थात् उद्धृतं चरणैकम् एवमस्ति-
“भक्ति-रत्नावली नामे नाइ पटन्तर।
परम अमूल्य रत्न भकत जनर।।” इति।
शङ्करदेवस्य प्रयाणस्य वर्षद्वयात् परं सोन्दरायां स्थिते भागीनेयस्य रामचरणठाकुरस्य गृहे उषित्वा माधवदेवेन ‘भक्ति- रत्नावली’- ग्रन्थस्य अनूदितकार्यं सम्पादितम्। विष्णुपुरी संन्यासी श्रीमद्भागवतग्रन्थस्य भक्तिमूलकान् श्लोकान् अनुसृत्य आहत्य १३ सङ्ख्यकेषु विभागेषु विभज्य मूलतः ‘भक्ति- रत्नावली’ ग्रन्थं विरचितवान् आसीत्। भागवतादतिरिच्य द्वित्रान् श्लोकान् ‘हरिभक्तिसुधोदय’ इति ग्रन्थात् उद्धृतवान् आसीत्, अन्याः द्वित्राः श्लोकाश्च स्वकीयाः। अस्मिन् ‘भक्ति- रत्नावली’ ग्रन्थे अन्तर्भूताः श्लोकाः- ११५ सङ्ख्यकाः। एतेषु १११ श्लोकाः मूलभागवतग्रन्थात् स्वीकृताः, स्वकीयाश्च ४ सङ्ख्यकाः स्युरिति। माधवदेवेन आहत्य २९४ सङ्ख्यकैः पद्यैः स्वग्रन्थः सम्पूर्णः कृतो वर्तते।
माधवदेवः शङ्करदेवस्य सान्निध्ये आगमनान्तरम् एकनिष्ठतया धर्मचर्चायाम् आत्मनियोजनं कृतवान्। अनन्तरं कोचराज्ञः कामरूपम् आगत्य ‘गनककुछि’ इति स्थाने स्वकीयं गृहं निर्माय, तत्रैव उषित्वा शङ्करदेवेन सह धर्मचर्चायां निमग्नः जातः। तत्पश्चात् कानिचन दिनानि यावत् ताभ्यां तीर्थस्थानम् अटितम्।
अन्ते १५९६ ख्रिष्टाब्दे भाद्रमासस्य शुक्लद्वितीयातिथौ सप्तोत्तरशते वयसि महापुरुषः माधवदेवः महाप्रयाणं सृतवान्। धन्यास्ते एतादृशाः सौभाग्यशालिनः महापुरुषाः, ये च सततं सुस्मरणीयाः सन्ति इति शम्।

You Might Also Like

हिमाचलदर्शनम्- हाटकोटीमन्दिरम्

VASANT PANCHAMI 2026 – मातुः सरस्वत्याः आराधनायाः महापर्व: बसन्तपञ्चम्याः पुण्यकालः २३ जनवरी प्रातः ०२:२९ वादनात्- प्रो. बिहारीलाल: शर्मा

मकरसंक्रांति: एकतायाः, अखण्डतायाः शक्ति-उपासनायाश्च प्रारम्भकालः – आचार्यरोशनकौशल:

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

मकरसंक्रान्तेः फलम् (जनवरी 2026)

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article “मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति
Next Article महर्षि महेश योगी वैदिकविश्वविद्यालये धर्मगुरु-जीविका-परामर्शः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?