“मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति, काङ्ग्रेस-नेतारः श्वः रिज-मैदाने विरोध-प्रदर्शनं करिष्यन्ति।”
मनरेगा-योजनायाः महात्मागान्धिनः नाम निष्कासनस्य तथा च योजनायाः दुर्बलीकरणस्य विरोधे मुख्यमन्त्री-उपमुख्यमन्त्रिणा सह सम्पूर्णं मन्त्रिमण्डलं होराद्वयं यावत् उपवासं करिष्यति। अस्मिन् हिमाचल-काङ्ग्रेस-प्रभारी रजनी पाटिल अपि मुख्यरूपेण सम्मिलिता भविष्यति। जनवरी-मासस्य ३० दिनाङ्के शिमलास्थित-ऐतिहासिक-रिज-मैदाने महात्मागान्धिनः प्रतिमायाः सम्मुखं एषः उपवासः भविष्यति। अतः हिमाचल-काङ्ग्रेस-अध्यक्षेण सर्वेभ्यः मण्डलाध्यक्षेभ्यः, विधायाकेभ्यः, पूर्वविधायाकेभ्यः अन्येभ्यः च अस्मिन् कार्यक्रमे भागं ग्रहीतुं निर्देशाः निर्गताः। उल्लेखनीयं वर्तते यत् अखिलभारतीय-काङ्ग्रेस-समित्या मनरेगा-योजनातः महात्मागान्धिनः नाम निष्कासनस्य विरोधाय देशव्यापी ‘मनरेगा बचाओ संग्राम’ (मनरेगा-रक्षण-सङ्ग्रामः) आरब्धः। अस्य अन्तर्गतं हिमाचलप्रदेशे अपि काङ्ग्रेस-पक्षेण एकं अभियानं चालितम् अस्ति तथा च ग्रामस्तरे कार्यक्रमाणां आयोजनं क्रियते। अस्यामेव शृङ्खलायां हिमाचल-काङ्ग्रेस-पक्षेण ३० जनवरी दिनाङ्के प्रातः ११ वादने मध्याह्न १ वादनं यावत् रिज-मैदाने गान्धि-प्रतिमायाः पुरतः उपवासं कर्तुं निर्णयः गृहीतः।
“मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
