वस्त्रमन्त्री गिरिराजसिंहः अवदत् यत्, “गतदशके वस्त्रक्षेत्रे महती वृद्धिः अभवत्।”
वस्त्रमन्त्री गिरिराजसिंहः अवदत् यत् विगतदशके वस्त्रक्षेत्रे महती वृद्धिः अभवत्। नवीदिल्लीनगरे भारतस्य अन्तर्राष्ट्रीयवस्त्रमेलायाः उद्घाटनं कुर्वन् वस्त्रमन्त्री सिंहः अवदत् यत् २०२५ तमवर्षपर्यन्तं गृहविपणिः ₹६ लक्षकोटितः ₹१३ लक्षकोटिपर्यन्तं वर्धितः अस्ति, तथा च कोविड्-उत्तरकालस्य निर्यातस्य अपि २५ प्रतिशताधिकं वृद्धिः अभवत् सः अवदत् यत् २०२५ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं वस्त्र-उद्योगः ₹२९,००० कोटिरूप्यकाणि प्राप्तवान् अस्ति ।वस्त्रमन्त्री गिरिराजसिंहः अवदत् यत् वस्त्रक्षेत्रं बृहत्तमेषु रोजगारसृजनमञ्चेषु अन्यतमं जातम्। विदेशीयपरिकल्पनासु ध्यानं न दत्त्वा भारतस्य स्वकीयमानकानां निर्माणस्य आवश्यकतायां सः बलं दत्तवान् । भारत अन्तर्राष्ट्रीयवस्त्रमेला भारतीयनिर्यातकानां कृते विदेशीयक्रेतृभिः सह सम्पर्कं कर्तुं मञ्चं प्रदाति। निर्यातकाः स्वस्य नवीनं प्रारुपम् उत्पादं च प्रदर्शयन्ति।
वस्त्रमन्त्री गिरिराजसिंहः अवदत् यत्, “गतदशके वस्त्रक्षेत्रे महती वृद्धिः अभवत्।”
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
