*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

गाजोल, मालदा
मानवस्य प्रकृत्या: सह अन्तःसम्बन्धस्य दार्शनिक-पर्यावरणीय तथा साहित्यिक-दृष्ट्या विश्लेषणं कर्तुं गाजोल-महाविद्यालयेन द्विदिवसीय-अन्तरराष्ट्रीय-सेमिनार् आयोजितः आसीत्। १०–११ जनवरी २०२६ तमे दिनाङ्के महाविद्यालय-परिसरे आयोजितस्य अस्य सेमिनार् इत्यस्य विषयः आसीत्— “मानव–प्रकृति-सम्बन्धः : दार्शनिक, पर्यावरणीय तथा साहित्यिक-अन्वेषणम्”।
गाजोल-महाविद्यालयस्य दर्शन-विभागः भूगोल-विभागः बाङ्ला-विभागः शिक्षाविज्ञान-विभागः तथा च संस्कृत-विभागस्य संयुक्त तत्वावधानेन आयोजिते अस्मिन् सेमिनार् कार्यक्रमे देशविदेशस्य विभिन्न-विश्वविद्यालयेभ्यः आगताः विशिष्टाः प्राध्यापकाः अनुसन्धानकर्तारः शिक्षाविदश्च सहभागितां गृहीतवन्तः।
सेमिनार् इत्यस्य द्वितीयदिवसे मुख्य-अतिथिरूपेण उपस्थितः आसीत् रायगञ्ज-विश्वविद्यालयस्य माननीयः उपकुलपतिः प्रोफेसर् डॉ. दीपककुमार-रायः। सः स्वीयभाषणे वर्तमान-पर्यावरण-सङ्कटस्य सन्दर्भे मानव-प्रकृति-सह-अस्तित्वस्य नैतिक-दायित्वे विशेषं महत्त्वं प्रतिपादितवान्। अस्मिन् कार्यक्रमे उपस्थिताः आसन्— गाजोल-महाविद्यालयस्य प्राचार्यः डॉ. मनोजकुमार-भोजः, सेमिनारस्य कन्भेनरः डॉ. निरङ्कुश-चक्रवर्ती, IQAC समन्वयकः डॉ. महम्मद् निजाइरुल्-इस्लामः, तन्मय-सरकारः, डॉ. अमरचन्द्र-कर्मकारः, देवव्रत-मण्डलः, डॉ. अनिमेष-मण्डलः च अन्ये च।
विशेष-अतिथि-रूपेण तथा विशिष्ट-वक्तृभिः रूपेण उपस्थिताः आसन्— गौड़बङ्ग-विश्वविद्यालयस्य पूर्व-कला-अनुषदस्य डीनः प्रोफेसर् साधनकुमार-साहः, दर्शन-विभागस्य विभागाध्यक्षः प्रोफेसर् सुकुमारचन्द्र-रायः तथा प्रोफेसर् प्रदीप-चौहानः।
अन्तरराष्ट्रीय-स्तरे सेमिनारे वक्तृत्वं कृतवन्तः— थाइलैण्ड-देशस्य शिनावात्रा-विश्वविद्यालयस्य जुली-सिमन-माकारिओला, फिलिपिन्स्-देशस्य डी-ला-साल्-विश्वविद्यालयस्य डॉ. जिनेट् ई. परेनो तथा सौदी-अरब-देशस्य तानाजिब् गैस् पावर् प्लाण्टस्य डिविजन-एक्सिक्युटिव् सेक्रेटरी लाजारो एस्. मैकाटाङ्गायः। अन्ये अपि सहभागिनः आसन्— डॉ. सुदीप्ता-ताराफदारः, रायगञ्ज-विश्वविद्यालयस्य संस्कृत-विभागस्य प्राध्यापकः डॉ. प्रशान्तकुमार-महाला, डॉ. तपस-पलः च।
सेमिनारे पर्यावरण-नैतिकता, जलवायु-परिवर्तनम्, पर्यावरण-सङ्कटम्, बाङ्ला-साहित्ये प्रकृति-चेतना, स्थायी-विकासः, पर्यावरण-न्यायः इत्यादिषु महत्वपूर्णेषु विषयेषु विस्तृतं चर्चां कृतम्। अनुसन्धान-पत्र-प्रस्तुतीकरणेन अन्तर-विभागीय-अनुसन्धानस्य तथा ज्ञान-विनिमयस्य एकः मुक्तः मञ्चः निर्मितः।
आयोजक-कर्तृभिः उक्तं यत्— एतादृशाः अन्तरराष्ट्रीय-सेमिनाराः छात्रेछात्रासु अनुसन्धानकर्तृषु पर्यावरण-चेतनां वर्धयन्ति तथा मानवीय-मूल्यबोधस्य निर्माणे महत्त्वपूर्णां भूमिकां वहन्ति। सफलेन सार्थकेन च आयोजननेन गाजोल-महाविद्यालयः पुनरपि स्वस्य शैक्षणिक-उत्कर्षस्य परिचयं दत्तवान्। अस्मिन् कार्यक्रमे शताधिकाः प्राध्यापकाः, अध्यापिकाः, शिक्षकाः, अनुसन्धानकर्तारः, छात्राछात्राश्च सहभागिन: अभवन्।
