By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > *गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*
अन्ताराष्ट्रीयवार्ताः

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/01/11 at 11:50 PM
डॉ.निशिकान्तः पाण्डेयः
Share
2 Min Read
SHARE

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

गाजोल, मालदा

 

मानवस्य प्रकृत्या: सह अन्तःसम्बन्धस्य दार्शनिक-पर्यावरणीय तथा साहित्यिक-दृष्ट्या विश्लेषणं कर्तुं गाजोल-महाविद्यालयेन द्विदिवसीय-अन्तरराष्ट्रीय-सेमिनार् आयोजितः आसीत्। १०–११ जनवरी २०२६ तमे दिनाङ्के महाविद्यालय-परिसरे आयोजितस्य अस्य सेमिनार् इत्यस्य विषयः आसीत्— “मानव–प्रकृति-सम्बन्धः : दार्शनिक, पर्यावरणीय तथा साहित्यिक-अन्वेषणम्”।

गाजोल-महाविद्यालयस्य दर्शन-विभागः भूगोल-विभागः बाङ्ला-विभागः शिक्षाविज्ञान-विभागः तथा च संस्कृत-विभागस्य संयुक्त तत्वावधानेन आयोजिते अस्मिन् सेमिनार् कार्यक्रमे देशविदेशस्य विभिन्न-विश्वविद्यालयेभ्यः आगताः विशिष्टाः प्राध्यापकाः अनुसन्धानकर्तारः शिक्षाविदश्च सहभागितां गृहीतवन्तः।

सेमिनार् इत्यस्य द्वितीयदिवसे मुख्य-अतिथिरूपेण उपस्थितः आसीत् रायगञ्ज-विश्वविद्यालयस्य माननीयः उपकुलपतिः प्रोफेसर् डॉ. दीपककुमार-रायः। सः स्वीयभाषणे वर्तमान-पर्यावरण-सङ्कटस्य सन्दर्भे मानव-प्रकृति-सह-अस्तित्वस्य नैतिक-दायित्वे विशेषं महत्त्वं प्रतिपादितवान्। अस्मिन् कार्यक्रमे उपस्थिताः आसन्— गाजोल-महाविद्यालयस्य प्राचार्यः डॉ. मनोजकुमार-भोजः, सेमिनारस्य कन्भेनरः डॉ. निरङ्कुश-चक्रवर्ती, IQAC समन्वयकः डॉ. महम्मद् निजाइरुल्-इस्लामः, तन्मय-सरकारः, डॉ. अमरचन्द्र-कर्मकारः, देवव्रत-मण्डलः, डॉ. अनिमेष-मण्डलः च अन्ये च।

विशेष-अतिथि-रूपेण तथा विशिष्ट-वक्तृभिः रूपेण उपस्थिताः आसन्— गौड़बङ्ग-विश्वविद्यालयस्य पूर्व-कला-अनुषदस्य डीनः प्रोफेसर् साधनकुमार-साहः, दर्शन-विभागस्य विभागाध्यक्षः प्रोफेसर् सुकुमारचन्द्र-रायः तथा प्रोफेसर् प्रदीप-चौहानः।

अन्तरराष्ट्रीय-स्तरे सेमिनारे वक्तृत्वं कृतवन्तः— थाइलैण्ड-देशस्य शिनावात्रा-विश्वविद्यालयस्य जुली-सिमन-माकारिओला, फिलिपिन्स्-देशस्य डी-ला-साल्-विश्वविद्यालयस्य डॉ. जिनेट् ई. परेनो तथा सौदी-अरब-देशस्य तानाजिब् गैस् पावर् प्लाण्टस्य डिविजन-एक्सिक्युटिव् सेक्रेटरी लाजारो एस्. मैकाटाङ्गायः। अन्ये अपि सहभागिनः आसन्— डॉ. सुदीप्ता-ताराफदारः, रायगञ्ज-विश्वविद्यालयस्य संस्कृत-विभागस्य प्राध्यापकः डॉ. प्रशान्तकुमार-महाला, डॉ. तपस-पलः च।

सेमिनारे पर्यावरण-नैतिकता, जलवायु-परिवर्तनम्, पर्यावरण-सङ्कटम्, बाङ्ला-साहित्ये प्रकृति-चेतना, स्थायी-विकासः, पर्यावरण-न्यायः इत्यादिषु महत्वपूर्णेषु विषयेषु विस्तृतं चर्चां कृतम्। अनुसन्धान-पत्र-प्रस्तुतीकरणेन अन्तर-विभागीय-अनुसन्धानस्य तथा ज्ञान-विनिमयस्य एकः मुक्तः मञ्चः निर्मितः।

आयोजक-कर्तृभिः उक्तं यत्— एतादृशाः अन्तरराष्ट्रीय-सेमिनाराः छात्रेछात्रासु अनुसन्धानकर्तृषु पर्यावरण-चेतनां वर्धयन्ति तथा मानवीय-मूल्यबोधस्य निर्माणे महत्त्वपूर्णां भूमिकां वहन्ति। सफलेन सार्थकेन च आयोजननेन गाजोल-महाविद्यालयः पुनरपि स्वस्य शैक्षणिक-उत्कर्षस्य परिचयं दत्तवान्। अस्मिन् कार्यक्रमे शताधिकाः प्राध्यापकाः, अध्यापिकाः, शिक्षकाः, अनुसन्धानकर्तारः, छात्राछात्राश्च सहभागिन: अभवन्।

You Might Also Like

ऑक्सफोर्ड-विश्वविद्यालयस्य बोडलेयन-पुस्तकालयेन शिक्षापत्र्याः द्विशततम-वर्षगांठ-अवसरे संपूर्ण-ब्रिटेन-देशे प्रदर्शनी-यात्रायाः आयोजनम्

अमरीका-ईरान-इजरायल युद्धम्-: आईआरजीसी-पक्षतः अमरीकी-विमानस्य पतनस्य पुष्टिः

प्रधानमंत्री मोदी विश्वस्य सर्वाधिकलोकप्रियनेता

इज़राइल-देशे ईरानी-आक्रमणम् : प्रधानमन्त्री नेतन्याहू अराद-नगरस्य महापौरेण सह चर्चां कृतवान्

विदेशमन्त्री डॉ. एस्. जयशङ्करः ऑस्ट्रेलिया-कजाकिस्तान-बाङ्ग्लादेशानां प्रतिनिधिभिः सह मिलितवान्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्
Next Article IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?