By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: १०.६८ कोटिरुप्यकाणां व्ययेन प्रतिस्थापयन्ते १२५ “जननीसुरक्षा- परावर्त्य-रुग्णयानानि”- मुख्यमंत्री सुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > १०.६८ कोटिरुप्यकाणां व्ययेन प्रतिस्थापयन्ते १२५ “जननीसुरक्षा- परावर्त्य-रुग्णयानानि”- मुख्यमंत्री सुक्खुः
हिमाचलवार्ता

१०.६८ कोटिरुप्यकाणां व्ययेन प्रतिस्थापयन्ते १२५ “जननीसुरक्षा- परावर्त्य-रुग्णयानानि”- मुख्यमंत्री सुक्खुः

डॉ.अमनदीप शर्मा
Last updated: 2026/01/10 at 8:11 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

१०.६८ कोटिरुप्यकाणां व्ययेन प्रतिस्थापयन्ते १२५ “जननीसुरक्षा- परावर्त्य-रुग्णयानानि”- मुख्यमंत्री सुक्खुः
हिमसंस्कृतवार्ता:- शिमला। राज्यसर्वकारः १०.६८ कोटिरुप्यकाणां व्ययेन १२५ “जननीसुरक्षा- परावर्त्य- रुग्णयानानि प्रतिस्थापयन्ति। यदा तु वृद्धानां परिचर्यायै तेभ्यः उत्तमस्वास्थ्यसेवाप्रदानार्थं च वृद्धानां उपशामकसेवानां विषये २० कोटिरूप्यकाणि व्ययन्ते। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शुक्रवासरे शिमलानगरे राष्ट्रियस्वास्थ्यमिशनस्य समीक्षासभायाः अध्यक्षतां कुर्वन् एतत् उक्तवान्। सः अवदत् यत् नागरिकानां कृते सुलभाः, गुणवत्तापूर्णाः, मितव्ययी च सेवाः सुनिश्चितकरणं राज्यसर्वकारस्य सर्वोच्चप्राथमिकता अस्ति। तदर्थं स्वास्थ्यविभागस्य अन्तर्गतं विविधाः लोकसेवाः सुदृढाः क्रियन्ते।
वृद्धेभ्य: चिकित्सालयं गन्तुं प्रयोजनं न भविष्यति, गृहे एव चिकित्सां प्राप्स्यन्ति
मुख्यमन्त्री उक्तवान् यत् वृद्धानां परिचर्या सुनिश्चित्य तेभ्यः उत्तमस्वास्थ्यसेवाप्रदानार्थं वृद्धानां उपशामकपरिचर्याकार्यक्रमेण शय्यायां स्थितानां रोगिणां गृहे आधारितपरीक्षणस्य चिकित्सायाश्च प्रवेशः भविष्यति। अस्य कृते विशेषदलानां निर्माणं भविष्यति, येषु वैद्याः, सहायकचिकित्सकाः, अन्ये च कर्मचारिण: सन्ति। एतानि दलानि ७० आदर्शस्वास्थ्यसंस्थाभिः सह सम्बद्धानि भविष्यन्ति।
प्रथमप्रकारस्य मधुमेहरोगिणां बालकानां गर्भिणीनां कृते च निःशुल्कं मधुमेहापचायकयन्त्रं प्रदास्यते
मुख्यमन्त्री उक्तवान् यत् प्रथमप्रकारस्य मधुमेहरोगिणां बालकानां गर्भिणीनां च कृते निःशुल्कं भधुमेहापचायकयन्त्रं प्रदत्तं भविष्यति, यस्य कृते प्रायः ₹२.२५ कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। मादकद्रव्यव्यसनस्य पाशे निबद्धानां युनां पुनर्वासं सुनिश्चितं करणं महत्त्वपूर्णम् अस्ति। पुनर्वासकेन्द्राणां सुदृढीकरणं अत्यावश्यकम्। सः अधिकारिभ्यः व्यापकयोजनां विकसितुं, अस्मिन् दिशि प्रभावीपदं स्वीकर्तुं च निर्देशं दत्तवान्।

You Might Also Like

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

व्यवस्थापरिवर्तनेन राज्ये “नीलक्रान्तिः” इत्यस्य आरम्भं भवति, युन: स्वग्रामेषु जीविका: लप्स्यन्ते

एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article Sirmour Bus Accident- सिरमौरस्य हरिपुरधारे बसदुर्घटना; १२ जनाः मृताः तस्मिन् ४५ यात्रिकाः आसन्
Next Article PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?