सोमनाथमन्दिरस्य गतशताधिकवर्षाणाम् अस्तित्वं देशस्य सुदृढ़संस्कृतेः भावं प्रतिबिम्बयति- प्रधानमन्त्री नरेन्द्रमोदी
सोमनाथमन्दिरस्य गतशताधिकवर्षाणाम् अस्तित्वं देशस्य सुदृढ़संस्कृतेः भावं प्रतिबिम्बयति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। सः अवदत् यत्, पुनः पुनः आक्रमणेषु, विपदेषु च सत्सु अपि सोमनाथमन्दिरं निरन्तरं उन्नतं वर्तते। षड्विंशत्यधिकैकशततमे वर्षे जाते सोमनाथ-देवालयस्य उपरि प्रथम-आक्रमणस्य सहस्रवर्षाणां ऐतिहासिक अवसरे ओपी-एड् इत्यस्मिन् निदर्शनं कुर्वन् प्रधानमन्त्री उक्तवान्, सोमनाथ-शब्दं श्रुत्वा जनानां हृदयेषु मनसिषु च अभिमानस्य अनुभूतिः भवति। सः अवदत् यत्, एतत् देशस्य आत्मायाः नित्यघोषः अस्ति तथा च एतत् भव्यं मन्दिरं देशस्य पश्चिमतटे गुजरातराज्ये प्रभासपाटने स्थितः अस्ति। सोमनाथ मन्दिरस्य जीर्णोद्धारार्थ योगदानकर्तृणां प्रयत्नानां प्रशंसां कुर्वन् प्रधानमन्त्री अवदत् यत्, पुनः प्रतिष्ठापितं मन्दिरं भक्तानां कृते उद्घाटनानन्तरं षड्विंशत्यधिकद्विसहस्रतमे वर्षे पञ्चसप्तति वर्षाणि पूरयित्वा अन्यं महत्त्वपूर्णं लक्ष्यं प्राप्स्यति। प्रधानमन्त्री मोदी अवदत् यत् षड्विंशत्यधिकैकसहस्रतमे तमे वर्षे जनवरीमासे महमूदः गज़नी-इत्येषः अस्य मन्दिरस्य उपरि आक्रमणं कृतवान्, हिंसात्मकेन बर्बरेन च आक्रमणेन आस्थायाः सभ्यतायाः च महान् प्रतीकं नाशयितुं प्रयतितवान्। श्रीमोदिना दृश्य-श्रव्य-माध्यमेन उक्तं यत्, सहस्रवर्षाणाम् अनन्तरं अपि, सोमनाथस्य वैभवं पुनः स्थापयितुं असंख्य-प्रयत्नैः इदं मन्दिरं अद्यापि तथैव-वैभवयुतं वर्तते। अत्रान्तरे, प्रधानमन्त्री नरेन्द्रमोदी रविवासरे गुजरात स्थितस्य सोमनाथमन्दिरस्य भ्रमणं करिष्यति। एकः अधिकारी अवदत् यत् सोमनाथस्य स्वाभिमान-पर्व स्मरणाय सोमनाथे वर्षपर्यन्तम् कार्यक्रमाणाम् आयोजनस्य योजना निर्मिता अस्ति। षड्विंशत्यधिक द्विसहस्रतमे वर्षे सोमनाथस्य उपरि प्रथमस्य आक्रमणस्य एकसहस्रवर्षाणि जातानि । सोमनाथे जनवरीमासस्य अष्टम दिनाङ्कादारभ्य एकादश दिनाङ्कपर्यन्तं नैके आध्यात्मिक-सामाजिक-कार्यक्रमाः आयोजिताः भविष्यन्ति।
सोमनाथस्य मन्दिरस्य प्राणप्रतिष्ठा-समये प्रथमराष्ट्रपतेः डा. राजेन्द्रप्रसादस्य परिकल्पना अधुना प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे परिपूर्णा भविष्यति।
भाजपेति दलेन उक्तं यत् ऐतिहासिकस्य सोमनाथस्य मन्दिरस्य प्राणप्रतिष्ठा-समये प्रथमराष्ट्रपतेः डा. राजेन्द्रप्रसादस्य परिकल्पना अधुना प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे परिपूर्णा भविष्यति। नवदिल्ल्याः दलस्य-मुख्यालये वार्ताहर-सम्मेलनं सम्बोधयन् दलस्य प्रवक्ता डा. सुधांशु त्रिवेदी अवदत् यत्, भारतं समृद्धिं प्रति गच्छन् अस्ति, अधुना देशः विश्वस्य चतस्रः बृहत्तमार्थव्यवस्था अभवत् ।
सोमनाथमन्दिरस्य गतशताधिकवर्षाणाम् अस्तित्वं देशस्य सुदृढ़संस्कृतेः भावं प्रतिबिम्बयति- प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
