IGMC SHIMLA – हिमाचले चिकित्सकाः सामूहिक-अवकाशे, ओपीडीसेवाः प्रभाविताः; सेवासमापना- आदेश- निरस्तीकरणस्य याचना

हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:, शिमला ।
हिमाचलप्रदेशे शिमलास्थिते आईजीएमसी- चिकित्सालये रोगिणा सह चिकित्सकस्य विग्रह-प्रकरणे आरोपितस्य चिकित्सकस्य सेवा-समापनानन्तरं विषयः अतिशयेन तीव्रः अभवत्। क्रुद्धाः चिकित्सकसंघाः गुरुवासरे गोष्ठीं कृत्वा शुक्रवासरे एकदिवसीय- सामूहिकम् अवकाशं कर्तुं निर्णयम् अकुर्वन्। याचनानाम् अस्वीकृतौ शनिवासरात् आन्दोलनम् कर्तुं घोषणां च अकुर्वन्। शनिवासरे प्रातः आवासीयचिकित्सकाः मुख्यमन्त्रिणा सुखविन्द्रसिंह-सुक्खुना सह मेलितुं निश्चितवन्तः। याचनानाम् अस्वीकृतौ स्वनिर्णये स्थिरा भविष्याम इति ते अवदन्। मुख्यमन्त्रिणा सह सभानन्तरम् आवासीयचिकित्सकसंघ: आन्दोलनम् प्रतिनिवर्तिष्यति। आईजीएमसी- शिमला- आवासीय- चिकित्सकसंघस्य अध्यक्षः सोहिलशर्मा अवदत् अस्मान् आमन्त्र्य अस्माकम् उपालम्भं विस्तरेण श्रोतुं मुख्यमन्त्रिणः धन्यवादः। डॉ. राघवनरूलाविषये अस्माकं याचना प्रस्तुता, यस्य विषये मुख्यमन्त्रिणः आश्वासनेन कृता चिकित्सकसुरक्षां दृढीकर्तुं संशोधितनिर्देशिकाः अपि निर्गताः।
आईजीएमसीमध्ये २२ दिसम्बरदिने चिकित्सकरोगिणोः विग्रहप्रकरणे सर्वकारेण वरिष्ठ-आवासीयचिकित्सकस्य डॉ. राघवनरूलायाः सेवासमापनादेशः निर्गतः। मुख्यमन्त्रिणः कठोरदृष्टिकोणानन्तरम् एषा कार्यविधि: कृता। अस्य विरोधे चिकित्सकसंघाः आन्दोलनं आरब्धवन्तः। तेषां कथनं यत् डॉ. राघवनरूलायाः सेवासमापनादेशः अन्यायपूर्णः, सः त्वरितं निरस्तव्यः।
सामूहिक-अवकाशस्य कारणेन चिकित्सालयेषु सेवाः प्रभाविताः। तथापि आपत्कालीनसेवाः प्रवर्तमानाः। डीडीयू- शिमलायाम् ओपीडीसेवा स्थगिता, आपत्कालीनसेवाः तु उपलब्धाः। आईजीएमसी- शिमलायां केवलम् आपत्कालीनसेवाः एव सञ्चलन्ति, ओपीडीसेवाः स्थगिताः; परन्तु परामर्शकचिकित्सकाः स्वसेवां ददति।
चिकित्सक- आन्दोललेन धर्मशाला- चिकित्सालयेऽपि ओपीडी स्थगिता
हिमाचलप्रदेशे चिकित्सक-आन्दोलनस्य प्रभावेण धर्मशालाचिकित्सालयेऽपि ओपीडीसेवाः स्थगिताः, येन रोगिणां महान् कष्टः अभवत्। प्रभातात् कोऽपि चिकित्सकः ओपीडी-मध्ये न उपविष्टः।
नरेश दास्टा संतर्जना अयच्छत्
आरडीए-अध्यक्षः डॉ. सोहिलशर्मा आरोपं कृतवान् यत् डॉ. राघवाय जीवनहिंसाया देशत्यागस्य च संतर्जना दत्ता। एषा संतर्जना नरेशदास्टानाम्ना व्यक्तिना दत्तेति तेन उक्तम्। आवासीयचिकित्ससंघ: तत्क्षणं एफ. आई. आर. पञ्जीकरणस्य आग्रहम् अकरोत्। आईजीएमसीपरिसरे जनसम्मर्दनेन चिकित्सकाः संतर्जिता: इति अपि आरोपः, येन चिकित्सालयस्य कार्यप्रणाली बाधिता। सर्वकारीय-सम्पत्तेः हानिः अपि आरोपिता।
कुल्लू-चिकित्सकाः अपि चिकित्सकस्य पक्षे; निष्पक्ष- अन्वेषणस्य याचना
आईजीएमसी-प्रकरणे कुल्लू-जनपदस्य चिकित्सकाः अपि पक्षे आगता:। क्षेत्रीय-चिकित्सालये कुल्लू- चिकित्सकाः कार्यारोधे आसन्, ओपीडी-सेवाः न दत्ताः। द्वारगोष्ठी आयोजिता। चिकित्सक-संघस्य अध्यक्षः राजेन्द्रकोहली अवदत् आईजीएमसी-चिकित्सकस्य पद- अपसारणं त्रुटिपूर्णम्; अस्मिन् प्रकरणे निष्पक्ष- अन्वेषणस्य अनिवार्यता वर्तते।
सामूहिक-अवकाशे चिकित्सकाः, रोगिणः व्याकुलाः
सोलन- क्षेत्रीय- चिकित्सालयेन साकम् अन्येषु चिकित्सालयेषु चिकित्सकानां सामूहिक-अवकाशात् रोगिणां महत् कष्टम्। प्रभाते रोगिणः अवकाशविषये अनभिज्ञाः आसन्; दूर-दूरत: प्रदेशेभ्यः आगतानां क्लेशः अधिकः अभवत्। आईजीएमसी-शिमलायां आवासीय- चिकित्सकस्य डॉ. राघवस्य विमुक्तिकरणविषयः अधिक: उष्णः भवति।
डॉ. राघव नरूलायाः निलवंबीकरणे विरोधः
आईजीएमसी- शिमलायां चिकित्सक- रोगि- विग्रहप्रकरणे सर्वकारेण विभागेन च डॉ. राघव नरूलायाः सेवासमापनं कृतम्। अस्य विरोधे पांवटाक्षेत्रे मध्याह्नपर्यन्तं विपणी: पिहिता आसीत्। बाल्मीकिचौकत: मुख्यविपणीं गीताभवनं यावत् रोषप्रदर्शनं कृतम्; विधायकः सुखराम-चौधरी अपि सम्मिलितः। ततः एसडीएममाध्यमेन मुख्यमन्त्रिणे ज्ञापनं प्रेषितं, चिकित्सकस्य पुनर्नियुक्ते: याचना च कृताः।
किम् अकथयत् विपक्षनेता जयरामठाकुरः
विपक्षनेता भाजपानेता जयरामठाकुरः अवदत् यत् प्रतिवेदनानन्तरं सरकारेण कार्यविधि: कृता; एतादृशाः घटनाः न भवन्तु, भविष्ये ताः निवारयितुम् आवश्यकं कार्यं करणीयम्। भाजपासांसदः अनुरागठाकुरः अपि अवदत् यत् अन्वेषणं तथा कार्यविधि: आवश्यकौ।
आरोपित-चिकित्सकस्य मातुः वक्तव्यम्; निष्पक्ष- अन्वेषणस्य याचना
विमुक्तिकृतस्य डॉ. राघव-नरूलायाः माता अपि समक्षं आगता। सा अवदत्- कोऽपि पुत्रः स्वमातापितृ-विषये अपशब्दान् न सहते। स्वास्थ्य-मन्त्री धनीराम शाण्डिलेन पूर्णं कथनं न श्रुत्वा मम पुत्रः ‘गुण्डा’ इति उक्तः इति तस्याः आरोपः। सा सम्पूर्णप्रकरणस्य निष्पक्ष- अन्वेषणम् याचते।
प्रदेशव्यापी- आह्वानस्य कारणेन रामपुरस्य विविध-स्वास्थ्य-संस्थासु चिकित्सकाः अवकाशं समर्थितवन्तः। चिकित्सक-अवकाशात् सर्वाः ओपीडी-सेवाः स्थगिताः, चिकित्सालये पूर्णा नीरवता आसीत्। शतानि रोगिणः उपचारं विना प्रत्यागताः। आपत्कालीन-सेवाः तु प्रवृत्ताः, परन्तु तत्र चिकित्सकानां कार्यभारः वर्धितः। अधिकांशाः आगन्तुकाः अवकाशविषये अनभिज्ञाः आसन्; वृद्धाः बालाः च विशेषतः पीडिताः।
विविधरोगैः पीडितानाम् उपचार-अलाभात् तेषां परिचर्यकाणां मध्ये अपि रोषः दृश्यते। शनिवासरात् चिकित्सालयेषु व्यवस्था पुनः सामान्यां गमिष्यति इति कथ्यते। चिकित्सक-रोगि-विग्रह-प्रकरणं सहस्राणां रोगिणां क्लेशस्य कारणं भवति। चिकित्सालयं प्राप्ता वृद्धा महिला रामीदेवी, नरैणतः सन्दीपकुमारः, यशवन्तसिंहः, रामेश्वरसिंहः, राजेशकुमारः, कुलदीपः, राहुलः इत्यादयः अवदन् चिकित्सालयं प्राप्य चिकित्सकानां अवकाशविषये ज्ञातम्; चिकित्सक- अभावात् उपचारं विना प्रत्यावर्तिताः।
