मुख्यमंत्री सुक्खुः दूनविधानसभानिर्वाचनक्षेत्रे ३८३ कोटिरुप्यकाणां परियोजनानां उद्घाटनानि शिलान्यासान् चाकरोत्
हिमसंस्कृतवार्ता: – सोलनम्।
सोलनजनपदस्य दूनविधानसभानिर्वाचनक्षेत्रे एकदिवसीये प्रवासे मुख्यमंत्री सुखविन्दरसिंहसुक्खुः ३८३ कोटिरुप्यकाणां द्वादशविकासात्मक-परियोजनानां उद्घाटनानि शिलान्यासान् चाकरोत् । सः ८६ रुप्यकाणां व्ययेन निर्मितस्य बद्दी-साई-रामशहर-मार्गस्य उद्घाटनं कृतवान्। दूनक्षेत्रे १५.७८ कोटिरूप्यकाणां व्ययेन निर्मितं ट्यूबवेल्स् इत्यस्य, बद्दीनगरे १०.६४ कोटिरूप्यकाणां व्ययेन नवनिर्मितस्य नागरिकचिकित्सालयस्य, ३.१५ कोटिरूप्यकाणां व्ययेन निर्मितस्य बरोटीवालायां नवनिर्मितस्य सामुदायिकस्वास्थ्यकेन्द्रस्य उद्घाटनमपि कृतवान्। असौ शिक्षाखण्ड बद्दी इत्यस्य अन्तर्गतं हरिपुरसण्डौली, सूरज माजरा, लबाना, चक्कां इत्यत्र च नवनिर्मितानां सर्वकारीयप्राथमिकविद्यालयानाम् अपि उद्घाटनं कृतवान् ।
मुख्यमन्त्री बद्दी ७३.२१ कोटिरूप्यकाणां व्ययेन निर्मीयमाणस्य गुणवत्ताविश्वसनीयविद्युत्- आपूर्तियोजनाया:, ६३.७३ कोटिरूप्यकाणां व्ययेन बद्दी-शीतलपुर-जगतखाना-मार्गस्य निर्माणस्य, कोटिरुप्यकाणां व्ययेन निर्मीयमाणस्य अतर्राज्यीयबसस्थानकस्य बद्दी इत्यस्य, ३७.६७ कोटिरूप्यकाणां व्ययेन, लघुसचिवालयभवनस्य शेषक्षेत्राणां कृते ३७.१० कोटिरूप्यकाणां व्ययेन मलनिकासीयोजनाया: निर्माणस्य, कल्याणपुरे ५ कोटिरूप्यकाणां व्ययेन राजीवगान्धी-दिवस-बोर्डिंग-विद्यालयस्य निर्माणस्य च आधारशिला: अस्थापयत्।

