HPBOSE Dharmshala – हिमाचलप्रदेशे दशमीकक्षायाम् अनुत्तीर्णाः न भविष्यन्ति छात्रा:, राज्यसर्वकारेण परिष्कारनीति: नीतये अनुमोदिता
हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:, धर्मशाला।
हिमाचलप्रदेशस्य दशमीकक्षायाः छात्राणां कृते एषा सुखदवार्ता अस्ति यत् राज्यसर्वकारेण विद्यालयशिक्षामण्डलस्य परिष्कारनीति: (इम्प्रूवमेंट पॉलिसी) औपचारिकरूपेण अनुमोदिता। अस्य निर्णयस्य प्रवर्तनात् आरभ्य मार्च् २०२६ तमे वर्षे आयोज्यमानायां दशमीकक्षायाः परीक्षायां कश्चन अपि छात्रः न तु अनुत्तीर्णः भविष्यति, न च अनुपूरकं (कम्पार्टमेन्ट) आगच्छति।
छात्रेषु शैक्षणिकायास: न्यूनतां यास्यति
नवनीत्याः प्रवर्तनात् छात्राणां शैक्षणिकायास: न्यूनतां यास्यति, अध्ययनस्य च उत्कर्षाय अवसरः लप्स्यते। नवव्यवस्थायां शिक्षामण्डलं वर्षे द्विवारं परीक्षा करिष्यति- आद्या परीक्षा मार्चमासे, द्वितीया तु परिष्कारपरीक्षा जून-जुलैमासयोः भविष्यति। ये छात्राः मार्चमासे मुख्यपरीक्षायां असफलाः भविष्यन्ति, ते जून- जुलाईमासयोः द्वितीयम् अवसरं लप्स्यन्ते। एवं तेषां पूर्णं वर्षं न व्यर्थं गमिष्यति। “अनुत्तीर्णः” तथा “कम्पार्टमेण्ट” इति शब्दौ निष्कासितौ भविष्यतः नवनीत्यां “अनुत्तीर्णः” तथा “कम्पार्टमेण्ट” इति शब्दौ परित्यक्तौ भविष्यतः। एषा नीति: प्रथमपदे दशमकक्षायाः छात्राणां कृते प्रवर्तयिष्यते। शिक्षाविभागः अधुना तामेव द्वादशकक्षायां प्रवर्तयितुं सम्भावनां परिशीलयति। शिक्षामण्डलस्य सचिवः डॉ. मेजर विशालः शर्मा इत्याख्यः उक्तवान् यत् परिष्कारनीतिः सर्वकारतः अनुमोदिता अस्ति। शीघ्रमेव अधिसूचना प्रकाशिताऽपि भविष्यति।

