*कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणवर्गस्य शुभारम्भः जातः*
नलबारी, २३ अक्टोबरः २०२५ (असमप्रदेशः) –
अद्य कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालयस्य (नवदेहली) साहाय्येन, सर्वदर्शनविभागेन संस्कृतविकासकेन्द्रेण च संयुक्ततया आयोज्यमानस्य द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणवर्गस्य (२३–२४ अक्टूबर २०२५) दिव्यः शुभारम्भः जातः।
सर्वप्रथमे उद्घाटनसत्रं सञ्जातम्। अस्मिन् उद्घाटनसत्रे मुख्यातिथिः आसीत् – संस्कृतभारत्याः उत्तर-असमप्रान्तस्य संघटनमन्त्री आदरणीयः भवेन शइकीया महोदयः। तेन बालकेन्द्रस्य उद्देश्यानाम्, तस्य बालशिक्षणविकासे योगदानस्य च विषये महत्त्वपूर्णं भाषणं प्रदत्तम्। तेन संस्कृतभाषायाः जनमानसप्रवेशे बालकेन्द्राणां भूमिकां विस्तीर्णतया प्रतिपाद्य, शिक्षकेभ्यः प्रेरणाप्रदं सन्देशः दत्तः। सः उक्तवान् यत् संस्कृतम् केवलं भाषा न, अपितु भारतीयसंस्कृतेः आत्मा अस्ति। बालकेन्द्राणां माध्यमेन एषा आत्मशक्तिः भाविसंततौ प्रसारयितुं शक्या।
तदनन्तरं आखिलभारतीयबालकेन्द्रस्य मुख्योपद्रष्टा आदरणीयः डॉ वेङ्कटरमणमूर्तिमहोदयः उपस्थितः आसीत्। तेन बालकेन्द्रचालनविषये सविस्तरं मार्गदर्शनं दत्तम् – “कथं बालकेन्द्रं चालनीयम्?के तत्र नियमाः?के च शिक्षणोपायाः इत्यादीन् विषयान् सम्यग् निरूपितवान्। सः अतीव सुबोधतया बालकेन्द्रचालनस्य सम्यग्व्यवस्थाम्, शिक्षणप्रक्रियायाः नवोपायान्, बालमानसिकविकासस्य वैज्ञानिकपद्धतिं च विवेचितवान्। तथा श्लोकानां पाठनं कथं भवेत् तदपि अभिनयेन महोदयः प्रदर्शितवान्। एवं च भाषाक्रीडा-संख्याक्रीडेत्यादीनां द्वारा कथं पाठयितुं शक्यते तदपि महोदयेन परवर्तिसमये अतीव सुष्ठुतया प्रदर्शितम्।
सहैव आन्ध्रप्रदेशप्रान्तस्य बालकेन्द्रप्रमुखा मान्या अरुणाश्रीमहोदया अपि उपस्थितासीत्, या प्रशिक्षणस्य कौशलं सजीवप्रदर्शनपूर्वकं सर्वान् अध्यापकान् प्रशिक्षितवती।तया अभिनयपूर्वकं शिक्षणप्रणालीनाम् उदाहरणानि प्रदर्शितानि, यानि प्रशिक्षणार्थिनः हर्षेण अनुभूतवन्तः।
कार्यक्रमस्य अध्यक्षस्थानं विश्वविद्यालयस्य कुलपतिः आचार्यः प्रह्लाद-रा. जोशी महोदयः आभासीयमाध्यमेन स्वकीयया उपस्थित्या शोभयामास। तेन उक्तम्- बालकेन्द्रेभ्यः संस्कृतभाषायाः प्रचारप्रसारः समग्रे राष्ट्रे सशक्तं स्वरूपं लभते। बाल्यावस्थायामेव संस्कृतशिक्षणस्य आरम्भः संस्कृतसंस्कृतेः पुनर्जागरणाय अत्यावश्यकः इति।
एवञ्च कुलसचिवः डॉ विकासभार्गवशर्ममहोदयः अपि उद्घाटनसत्रे सन्निहितः आसीत्, येन सर्वेषां अतिथीनां सादरं स्वागतं कृतम्।
विभागाध्यक्षः डॉ रणजीतकुमारतिवारीमहोदयः अपि स्वागतोद्बोधनं कृत्वा सर्वान् अभिनन्द्य बालकेन्द्रस्य माहात्म्यं विवेचितवान्।
अस्मिन् प्रसङ्गे भारतदेशस्य नानास्थानेभ्यः आगताः अध्यापकाः, शोधार्थिनः, छात्राश्च समुपस्थिताः।
विभागस्य प्रमुखाध्यापकाः — डॉ सुधाकरमिश्रमहोदयः, डॉ रातुलबुजरबरुवामहोदयः, डॉ गणेशमिश्रमहोदयः, डॉ विवेकाचार्यमहोदयः च प्रमुखतया उपस्थिताः आसन्।
सहैव विभागीयसहायिका आचार्या सुश्री लोपामुद्रा गोस्वामी, अतिथ्याध्यापकाः अध्यापिकाश्च कार्यक्रमे सक्रियतया सहभागीबभूवुः।
कार्यक्रमस्य सञ्चालनं विश्वविद्यालयस्य व्याकरणविभागस्य अतिथ्याध्यापकः डॉ मिलन माजी महोदयः कुशलतया कृतवान्।
कार्यक्रमस्य वैदिकमङ्गलारम्भः विभागीयशोधच्छात्रेण लिराजेन काफ्लेमहोदयेन मन्त्रोच्चारणपूर्वकं सम्पन्नः।
अन्ते धन्यवादप्रस्तुतिः विभागीयसहायकाध्यापिकया सुश्री लोपामुद्रया गोस्वामिमहोदयया कृता।
शान्तिमन्त्रपाठेन कार्यक्रमस्य समापनं मंगलपूर्वकं सम्पन्नम्।
एवं कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये संस्कृतशिक्षणस्य प्रचाराय, बालमानसविकासाय, शिक्षकप्रशिक्षणाय च एकः प्रेरणादायकः अध्यायः आरब्धः।
एषः प्रशिक्षणवर्गः न केवलं शिक्षकेभ्यः उपयोगी, अपितु संस्कृतभाषायाः जागरणाय, संस्कृतसंस्कृतेः पुनः प्रतिष्ठापनाय च महत्वपूर्णं योगदानं दास्यति।

