By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणवर्गस्य शुभारम्भः जातः* 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > *कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणवर्गस्य शुभारम्भः जातः* 
संस्कृतगतिविधयः

*कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणवर्गस्य शुभारम्भः जातः* 

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2025/10/25 at 10:24 PM
डॉ.निशिकान्तः पाण्डेयः
Share
2 Min Read
SHARE

*कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणवर्गस्य शुभारम्भः जातः* 

 

नलबारी, २३ अक्टोबरः २०२५ (असमप्रदेशः) –

अद्य कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालयस्य (नवदेहली) साहाय्येन, सर्वदर्शनविभागेन संस्कृतविकासकेन्द्रेण च संयुक्ततया आयोज्यमानस्य द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणवर्गस्य (२३–२४ अक्टूबर २०२५) दिव्यः शुभारम्भः जातः।

 

सर्वप्रथमे उद्घाटनसत्रं सञ्जातम्। अस्मिन् उद्घाटनसत्रे मुख्यातिथिः आसीत् – संस्कृतभारत्याः उत्तर-असमप्रान्तस्य संघटनमन्त्री आदरणीयः भवेन शइकीया महोदयः। तेन बालकेन्द्रस्य उद्देश्यानाम्, तस्य बालशिक्षणविकासे योगदानस्य च विषये महत्त्वपूर्णं भाषणं प्रदत्तम्। तेन संस्कृतभाषायाः जनमानसप्रवेशे बालकेन्द्राणां भूमिकां विस्तीर्णतया प्रतिपाद्य, शिक्षकेभ्यः प्रेरणाप्रदं सन्देशः दत्तः। सः उक्तवान् यत् संस्कृतम् केवलं भाषा न, अपितु भारतीयसंस्कृतेः आत्मा अस्ति। बालकेन्द्राणां माध्यमेन एषा आत्मशक्तिः भाविसंततौ प्रसारयितुं शक्या।

तदनन्तरं आखिलभारतीयबालकेन्द्रस्य मुख्योपद्रष्टा आदरणीयः डॉ वेङ्कटरमणमूर्तिमहोदयः उपस्थितः आसीत्। तेन बालकेन्द्रचालनविषये सविस्तरं मार्गदर्शनं दत्तम् – “कथं बालकेन्द्रं चालनीयम्?के तत्र नियमाः?के च शिक्षणोपायाः इत्यादीन् विषयान् सम्यग् निरूपितवान्। सः अतीव सुबोधतया बालकेन्द्रचालनस्य सम्यग्व्यवस्थाम्, शिक्षणप्रक्रियायाः नवोपायान्, बालमानसिकविकासस्य वैज्ञानिकपद्धतिं च विवेचितवान्। तथा श्लोकानां पाठनं कथं भवेत् तदपि अभिनयेन महोदयः प्रदर्शितवान्। एवं च भाषाक्रीडा-संख्याक्रीडेत्यादीनां द्वारा कथं पाठयितुं शक्यते तदपि महोदयेन परवर्तिसमये अतीव सुष्ठुतया प्रदर्शितम्।

सहैव आन्ध्रप्रदेशप्रान्तस्य बालकेन्द्रप्रमुखा मान्या अरुणाश्रीमहोदया अपि उपस्थितासीत्, या प्रशिक्षणस्य कौशलं सजीवप्रदर्शनपूर्वकं सर्वान् अध्यापकान् प्रशिक्षितवती।तया अभिनयपूर्वकं शिक्षणप्रणालीनाम् उदाहरणानि प्रदर्शितानि, यानि प्रशिक्षणार्थिनः हर्षेण अनुभूतवन्तः।

 

कार्यक्रमस्य अध्यक्षस्थानं विश्वविद्यालयस्य कुलपतिः आचार्यः प्रह्लाद-रा. जोशी महोदयः आभासीयमाध्यमेन स्वकीयया उपस्थित्या शोभयामास। तेन उक्तम्- बालकेन्द्रेभ्यः संस्कृतभाषायाः प्रचारप्रसारः समग्रे राष्ट्रे सशक्तं स्वरूपं लभते। बाल्यावस्थायामेव संस्कृतशिक्षणस्य आरम्भः संस्कृतसंस्कृतेः पुनर्जागरणाय अत्यावश्यकः इति।

एवञ्च कुलसचिवः डॉ विकासभार्गवशर्ममहोदयः अपि उद्घाटनसत्रे सन्निहितः आसीत्, येन सर्वेषां अतिथीनां सादरं स्वागतं कृतम्।

विभागाध्यक्षः डॉ रणजीतकुमारतिवारीमहोदयः अपि स्वागतोद्बोधनं कृत्वा सर्वान् अभिनन्द्य बालकेन्द्रस्य माहात्म्यं विवेचितवान्।

 

अस्मिन् प्रसङ्गे भारतदेशस्य नानास्थानेभ्यः आगताः अध्यापकाः, शोधार्थिनः, छात्राश्च समुपस्थिताः।

विभागस्य प्रमुखाध्यापकाः — डॉ सुधाकरमिश्रमहोदयः, डॉ रातुलबुजरबरुवामहोदयः, डॉ गणेशमिश्रमहोदयः, डॉ विवेकाचार्यमहोदयः च प्रमुखतया उपस्थिताः आसन्।

सहैव विभागीयसहायिका आचार्या सुश्री लोपामुद्रा गोस्वामी, अतिथ्याध्यापकाः अध्यापिकाश्च कार्यक्रमे सक्रियतया सहभागीबभूवुः।

 

कार्यक्रमस्य सञ्चालनं विश्वविद्यालयस्य व्याकरणविभागस्य अतिथ्याध्यापकः डॉ मिलन माजी महोदयः कुशलतया कृतवान्।

कार्यक्रमस्य वैदिकमङ्गलारम्भः विभागीयशोधच्छात्रेण लिराजेन काफ्लेमहोदयेन मन्त्रोच्चारणपूर्वकं सम्पन्नः।

अन्ते धन्यवादप्रस्तुतिः विभागीयसहायकाध्यापिकया सुश्री लोपामुद्रया गोस्वामिमहोदयया कृता।

शान्तिमन्त्रपाठेन कार्यक्रमस्य समापनं मंगलपूर्वकं सम्पन्नम्।

एवं कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये संस्कृतशिक्षणस्य प्रचाराय, बालमानसविकासाय, शिक्षकप्रशिक्षणाय च एकः प्रेरणादायकः अध्यायः आरब्धः।

एषः प्रशिक्षणवर्गः न केवलं शिक्षकेभ्यः उपयोगी, अपितु संस्कृतभाषायाः जागरणाय, संस्कृतसंस्कृतेः पुनः प्रतिष्ठापनाय च महत्वपूर्णं योगदानं दास्यति।

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्

LBS विश्वविद्यालये “AI-युगे शोधस्य अन्तर्राष्ट्रियं भविष्यम्” इति विषये सार्थक-विमर्शः

पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीयसंस्कृतशिक्षणकार्यशालायाः सफलसमापनम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article *कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये द्विदिवसीय-शिक्षक-प्रशिक्षण-कार्यक्रमस्य सफलं समापनम्* 
Next Article *पं. प्रताप नारायण मिश्र युवा साहित्यिकपुरस्कारः – 2025 इत्यनेन सम्मानेन विभूषिता विदूषी डा. दीपिकादीक्षितमहोदया*
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?