By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये द्विदिवसीय-शिक्षक-प्रशिक्षण-कार्यक्रमस्य सफलं समापनम्* 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > *कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये द्विदिवसीय-शिक्षक-प्रशिक्षण-कार्यक्रमस्य सफलं समापनम्* 
संस्कृतगतिविधयः

*कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये द्विदिवसीय-शिक्षक-प्रशिक्षण-कार्यक्रमस्य सफलं समापनम्* 

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2025/10/24 at 11:25 AM
डॉ.निशिकान्तः पाण्डेयः
Share
1 Min Read
SHARE

*कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये द्विदिवसीय-शिक्षक-प्रशिक्षण-कार्यक्रमस्य सफलं समापनम्* 

अक्टोबरमासस्य २२-२३ दिनाङ्कयोः नलबारी-स्थिते कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये विश्वविद्यालयस्य एवं गौहाटी-विश्वविद्यालयस्य MMTTC इत्यस्य च सहयोगेन सम्पन्नं द्विदिवसीयं शिक्षक-प्रशिक्षण-कार्यक्रमम् । अस्य कार्यक्रमस्य विषयः आसीत् — “राष्ट्रीय-शिक्षा-नीतिः २०२० इत्यस्य आलोके अग्रगण्य-अनुसन्धानस्य मार्गदर्शनम्।”

२२ अक्टोबरदिने कार्यक्रमस्य शुभारम्भः कृष्णगुरु-आध्यात्मिक-विश्वविद्यालयस्य माननीय-उपकुलपतिः प्रोफेसर्-मोहनचन्द्र-कलिता-महोदयः कृतवान्। अस्मिन् अवसरे शताधिकाः शिक्षकाः, शिक्षिकाः, अनुसन्धाता-छात्राः च सहभागीभूताः। उद्घाटन-भाषणे प्रोफेसर-कलित-महोदयः अनुसन्धानस्य महत्त्वं तस्य च मौलिकतायाः पक्षे विशेषतया प्रकाशं कृतवान्।

अस्मिन् द्विदिवसीय-कार्यक्रमे असमराज्यस्य विविधानि उच्च-शिक्षा-संस्थानानि समाश्रित्य आगताः अष्ट-वक्तारः विविधेषु विषयेषु व्याख्यानानि दत्तवन्तः। ते सर्वे राष्ट्रिय-शिक्षा-नीत्या अनुसन्धानक्षेत्रे आगतानां नूतनानां सम्भावनानां दिशां च विषये विस्तरेण चिन्तनम् अकुर्वन्। अक्टोबरमासस्य २३ दिने सम्पन्ने समापन-समारोहे गौहाटी-विश्वविद्यालयस्य UGC–MMTTC इत्यस्य च समन्वयकः डॉ. हेमेन डेका तथा कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयस्य कुलसचिवः डॉ. विकास-भार्गव-शर्मा उपस्थितौ आस्ताम्।अन्ते प्रशिक्षण-कार्यक्रमस्य समन्वयकः तथा शैक्षणिककुलसचिवः प्रो. ज्योतिराज-पाठक-महोदयः सर्वेभ्यः प्रतिभागिभ्यः कृतज्ञतां प्रकट्य समारोहं समर्पितवान्।

You Might Also Like

आईपीएल’ इत्यस्य प्रथमां स्पर्धां खेलितुं धर्मशालां प्राप्ता ‘गुजरात टाइटंस’ दलम्

तर्कसंग्रहकार-अन्नमभट्ट-स्मृतौ चतुश्चत्वारिंशत्तमः संस्कृत-शिक्षण-सम्भाषण-शिविरः सम्पन्नः

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य महाकविकालिदास-संस्कृतव्रति- राष्ट्रियपुरस्कारस्य आवेदन/नामनिर्देशनपत्राणाम् आह्वानम्

*कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये सांख्यप्रतिपादितदुःखत्रयाणामुपरि व्याख्यानम्* 

*पश्चिमबङ्गे ऐतिहासिकः राजनीतिकपरिवर्तनः : संस्कृतशपथग्रहणेन स्पन्दितं समग्रभारतम्।*

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article बिलासपुरे द्विदिवसीय- अन्ताराष्ट्रीय- सम्मेलनस्य समापनम्
Next Article *कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणवर्गस्य शुभारम्भः जातः* 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?