By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: शून्यात् शतकम्-राष्ट्रीयस्वयंसेवकसंघः (RSS)
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > विचारविमर्शः > शून्यात् शतकम्-राष्ट्रीयस्वयंसेवकसंघः (RSS)
विचारविमर्शः

शून्यात् शतकम्-राष्ट्रीयस्वयंसेवकसंघः (RSS)

डॉ.अमनदीप शर्मा
Last updated: 2025/10/07 at 8:18 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
6 Min Read
SHARE

शून्यात् शतकम्-राष्ट्रीयस्वयंसेवकसंघः (RSS)

डॉ.मुकेशशर्मा
सहायकाचार्यः, शिक्षाशाखा-विद्याशाखा,केन्द्रीयसंस्कृतविश्वविद्यालयः वेदव्यासपरिसरः बलाहरः हि.प्र।

भारतस्य यशस्विनः प्रधानमन्त्री श्रीनरेन्द्रमोदी-महाभागेन उक्ताः “राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य साक्षिणः भवितुं वर्तमानयुगस्य स्वयंसेवकानां कृते महान् सौभाग्यं भवति” । एते शब्दाः स्वयंसेवकान् प्रेरयन्ति, स्फूरयन्ति च। राष्ट्रचेतनां जागरयन्तः ये आन्दोलनाः सक्रियाः सन्ति, तेषु राष्ट्रीयस्वयंसेवकसंघस्य स्थानम् अद्वितीयम् अस्ति। सः केवलं संगठनम् न, अपि तु एकः विचारः, एकः संस्कारः, एकः सांस्कृतिकजागरणस्य प्रवाहः च अस्ति। ख्रिष्टाब्द् 1925 तमे वर्षे नागपुरनगरे अस्य स्थापना अभवत्। प्रायशः द्विसहस्रवर्षपर्यन्तं भारतः दास्यबन्धनेन बद्धः आसीत्। विदेशीशासनं न केवलं राजनैतिकस्वातन्त्र्यं हरितवान्, अपि तु भारतीयसमाजस्य आत्मानं विभक्तुं प्रयत्नं कृतवान्। समाजे शनैः-शनैः सांप्रदायिकता, जातिभेदः, सामाजिकविषमता च प्रगाढरूपेण व्यापिता अभवत्। एतस्मिन् विषमसमये डॉ. हेडगेवार-महाशयः अनुभवत् यत् यदि समाजे जागरणं आनितव्यम्, तर्हि केवलं राजनैतिकसंघर्षः पर्याप्तः न, अपितु सांस्कृतिक-सामाजिकचेतनायाः सुदृढीकरणम् अपि आवश्यकम्।

राष्ट्रीयस्वयंसेवकसंघस्य स्थापनायाः मूलविचारः आसीत्- संस्कृतसांस्कृतिकपरम्पराणां संरक्षणं तासां परम्पराणां सम्वाहकानां हिन्दूजनानां संगठनं जागरणञ्च। संघः मन्यते यत् भारतदेशस्य दास्यावस्थायाः मुख्यं कारणम् आसीत् हिन्दूसमाजस्य असंगठनम्। हिन्दूसमाजः जाति-वर्ग-भाषा-प्रान्त्यादिषु च विभक्ताः आसन्, अनेन कारणेन भारतं दुर्बलं जातम्। संघः अनुभवं कृतवान् यत् देशः सशक्तः, कर्तव्यनिष्ठः जागृतः भवेत् अनेन कृते सर्वप्रथमं हिन्दूसमाजं एकसूत्रे बन्धनीयः। एवमेव एषः विचारः संघस्य यात्रायाः आधारः अभवत्। संघः स्वदिशां राजनैतिकमञ्चात् न निर्धारितवान्, अपि तु समाजसंगठनस्य मार्गं स्वीकृतवान्। हिन्दूसमाजं एकसूत्रेबन्धनाय संघे शाखायाः प्रारूपम् आगतम्। शाखाः केवलं क्रीडायाः वा व्यायामस्य केन्द्राणि न, अपितु अनुशासनस्य, चरित्रनिर्माणस्य, राष्ट्रभक्तेः च विद्यालयरूपेण विकसिताः।
संघस्य लक्ष्यं समाजे अनुशासनस्य, एकतायाः, राष्ट्रभक्तेः च भावं जागरयितुम् आसीत्।
अस्य प्रयोजनं तादृशान् नागरिकान् निर्माणयितुं यः चरित्रवान्, सेवाभावी, संगठितश्च स्यात्, ये च भारतीयसंस्कृतिं परम्परां च स्वजीवने अनुसरन्ति।
एषा भूमिका अद्यापि तावत् एव प्रासंगिका अस्ति, यतोहि स्वातन्त्र्यस्य 78वर्षानन्तरमपि भारते हिन्दूसमाजस्य एकीकरणस्य, सुसंस्कृतनिर्माणस्य, संगठितकरणस्य च आवश्यकता अस्ति।
स्थापना च पृष्ठभूमिः
राष्ट्रीयस्वयंसेवकसंघस्य स्थापना विजयदशमीदिवसे सप्तविंशतितमे दिनाङ्के सितम्बरमासस्य सन् 1925 तमे वर्षे नागपुरनगरे अभवत्। तस्मिन् समये भारतदेशः अनेकाभिः समस्याभिः पीडितः आसीत्। आङ्ग्लशासनं भारतीयसमाजं दुर्बलयितुं शिक्षायां, राजनैतिके, सामाजिके च क्षेत्रे फूटं संवर्धयामास। समाजः जातिभेदेन विभक्तः आसीत्, विदेशीशक्तिः च तं विभाजनं अधिकं गम्भीरं कर्तुं प्रयत्नं कृतवती।
डॉ. केशवबलिराम-हेडगेवार-महाशयः, यः स्वयम् कांग्रेसनामकसंस्थायां सक्रियः कार्यकर्ता आसीत्, अनुभवत् यत् स्वातन्त्र्यसङ्ग्रामस्य शक्ति: केवलं राजनैतिके क्षेत्रे सीमिता न भवेत्। यदि समाजः असंगठितः तर्हि स्वातन्त्र्यमपि स्थायि न भविष्यति।
सः अपि अवलोकयत् यत् 1857 तमे वर्षे प्रथमस्वातन्त्र्यसङ्ग्रामः असफलः अभवत्, कारणं तु समाजः असंगठितः आसीत्। भिन्नजातयः भिन्नवर्गाश्च स्वस्वार्थाय युध्यन्तः आसन्, किन्तु व्यापकः राष्ट्रीयदृष्टिकोणः अभावः आसीत्। एषः ऐतिहासिकानुभवः एव तं प्रेरितवान् यत् “एकं तत्सदृशं संगठनं भवेत्, यत् व्यक्तेः समाजस्य च चरित्रनिर्माणं कर्तुं समर्थं स्यात्।” अतः संघस्य स्थापना न राजनीतिकमहत्त्वाकाङ्क्षायै, किन्तु सांस्कृतिकराष्ट्रवादस्य आधाररचनायै अभवत्।
एतस्मिन् पृष्ठभूमौ संघः लक्ष्यं निर्धारितवान् — “व्यक्तेः विकासः समाजस्य राष्ट्रस्य च शक्तिरूपेण परिणमेत्।” शाखाप्रणालीद्वारा शारीरिक-मानसिक-नैतिकशिक्षणं दत्वा अनुशासितं संगठितं चरित्रवन्तं समाजं निर्मातुं प्रमुखं लक्ष्यं जातम्। एषः एव स्थापनाकालः संघस्य आगामिशताब्दी-यात्रायाः दृढं आधाररूपं अभवत्।
________________________________________

संघस्य मूलदर्शनम्

संघस्य दर्शनं त्रिषु स्थम्भेषु प्रतिष्ठितम् अस्ति — राष्ट्रं प्रथमम्, स्वयंसेवा, तथा सांस्कृतिकैकात्मता।
संघः मन्यते यत् व्यक्तेः जीवनं तावत् एव सार्थकं भवति यावत् सः राष्ट्राय उपयोगी भवति। व्यक्तिः स्वार्थाय न कार्यं करोतु, अपि तु समाजस्य राष्ट्रस्य च हिताय कर्म कुर्यात्। एषा भावना शाखासु निरन्तरं संस्काररूपेण विकसितः।
“स्वयंसेवा” केवलं सामाजिककार्यरूपेण न दृष्टव्या, किन्तु जीवनस्य आदर्शरूपेण। संघस्य स्वयंसेवकाः सर्वासु परिस्थितिषु सेवायाः प्रधानत्वं ददति – चाहे प्राकृतिकआपदाः सन्तु, शिक्षायाः प्रसारः, स्वास्थ्यसेवा, वा समाजसंगठनम्। सेवायाः माध्यमेन संघः इदं संदेशं दत्ते यत् राष्ट्रोत्थानः केवलं शासनस्य न दायित्वम्, प्रत्युत समाजस्य सर्वेषां नागरिकानां कर्तव्यम्।
सांस्कृतिकैकात्मता संघस्य तृतीयः आधारः। भारतं विविधतानां देशः अस्ति। भाषाः, प्रान्ताः, आचाराः भिन्नाः सन्ति, किन्तु आत्मा एक एव। संघः एताः विविधताः न भङ्क्तुम् इच्छति, किन्तु ताः एकसूत्रे संयोजयितुं प्रयत्नं करोति। “वसुधैव कुटुम्बकम्”, “सर्वे भवन्तु सुखिनः” इत्येतौ वैदिकसन्देशौ अस्य केन्द्रस्थौ स्तः। एषः एव दर्शनः संघं केवलं संगठनं न, अपि तु सांस्कृतिकचालनं भवति।
शून्यात् शिखरं प्रति यात्रा
संघस्य यात्रा शून्यात् शिखरं प्रति प्रेरणादायिनी कथा अस्ति। प्रारम्भकदशकेषु शाखानां संख्या अत्यल्पा आसीत्, तथा आङ्ग्लशासनकालात् आरभ्य स्वातन्त्र्योत्तरकाले अपि संघः प्रतिबन्धैः, आरोपैः च सामना कृतवान्। तथापि संघस्य मूलाधारः दृढतरः जातः।
संघः राजनैतिकसम्बन्धं त्यक्त्वा समाजस्य सर्वेषु क्षेत्रेषु योगदानं दत्तवान्। शिक्षाक्षेत्रे विद्याभारती, सेवाक्षेत्रे सेवाभारती, महिलाशक्तिवर्धनाय राष्ट्रीय सेविका समिति, आदिवासिकल्याणाय वनवासीकल्याणाश्रम इत्यादयः संगठनाः तस्य प्रेरणया स्थापिताः। एते संस्थानानि सहस्रशः समाजस्य नाडीं ज्ञात्वा सततं सेवाकार्यं कुर्वन्ति।
अद्य संघः विश्वस्य महान्तमः स्वयंसेवीसंगठनः अस्ति। विदेशेषु अपि तस्य शाखाः कार्यकर्तारः च सक्रियाः सन्ति। अस्य शक्तिः केवलं संख्यायां न, अपि तु विचाररूपे प्रतिष्ठिता। शाखासु प्रशिक्षितः चरित्रवान् स्वयंसेवकः यत्र गच्छति, तत्र राष्ट्रहितं परमं मन्यते। एषैव यात्रा संघं “शून्यात् शिखरं प्रति” नीतवती।

पञ्चपरिवर्तनानि : संघस्य शताब्दी-यात्रायाः पञ्च आयामाः

१.कुटुम्बप्रबोधनम्- भारतीयसंस्कृतेः अन्तर्गतं कुटुम्बं केवलं रक्तसम्बन्धस्य समूहः न, किन्तु संस्कारशाला एव। आधुनिकजीवनशैलीस्य पश्चिमीयप्रभावस्य च कारणेन पारिवारिकसूत्राणि दुर्बलानि जातानि। अत्र “कुटुम्बप्रबोधनम्” इत्यस्य तात्पर्यं – कुटुम्बं पुनः संस्कारपरम्परा-नैतिकतायाः च केन्द्ररूपेण स्थापयितुं प्रयत्नः। संघस्य मतम् अस्ति – सुदृढः कुटुम्बः एव सुदृढस्य समाजस्य राष्ट्रस्य च मूलाधारः।
२. पर्यावरणसंरक्षणम्- भारतीयपरम्परायां प्रकृतिः देवतुल्या परिगण्यते। अद्यतनयुगे प्रदूषणम्, वनोंच्छेदनं, जलसंकटं च भयंकररूपेण वर्धमानम्। संघः वृक्षारोपणेन, जलसंचयेन, प्लास्टिक-निवारणेन, प्राकृतिकसंसाधनरक्षणेन च प्रत्यक्षरूपेण समाजं संयोजयति।
३.सामाजिकसमरसता- भारतस्य महत्ता तस्य विविधता एव। किन्तु एषा विविधता कदाचित् विभाजनस्य कारणं भवति। अतो हि संघः “सामाजिकसमरसता” इति परिवर्तनं प्रबोधयति। जाति-भाषा-प्रान्त-धर्मादि-आधारितभेदभावं निरस्य समाजं एकं कुटुम्बवत् द्रष्टुमेव तस्य लक्ष्यं।
४.नागरिककर्तव्यपालनम्- स्वातन्त्र्यम् केवलं अधिकाराणां नाम न, अपि तु तस्मात् बहुधा अधिकं कर्तव्यानां पालनम्। संघः नागरिकान् प्रति इदं संदेशं दत्ते – राष्ट्रं केवलं सरकारया न चालयते, प्रत्युत प्रत्येकनागरिकस्य आचरणेन एव।
५.स्वबोधः- स्वबोधः नाम स्वस्य जडानां, स्वीयपरिचयस्य, स्वसंस्कृतेः च ज्ञानम्। संघः अस्मिन् परिवर्तनद्वारा संदेशं दत्ते यत् आत्मबोधः एव आत्मविश्वासस्य मूलम्।

You Might Also Like

संस्कृतसप्ताहः – परम्परायाः पुनरुद्धारः, राष्ट्रचेतनायाः नवोदयः

संवाद:-काव्यानन्दिन्योः समसामयिकविषये वार्तालापः

Rss- भारत-पाकिस्तानयोः संघर्षे राष्ट्रस्वयंसेवकसङ्घस्य वक्तव्यम्

दक्षिणएशियायाः सहस्वप्नस्य साधकः- दक्षिणएशियाईविश्वविद्यालयः

Women: स्त्रियः आदरस्य आवश्यकतां अनुभवन्ति, न तु पूजाम्-न्यायाधीशः

TAGGED: Rss, राष्ट्रीय स्वयंसेवक संघ
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article केन्द्रीयस्वास्थ्यमन्त्री जगतप्रकाशनड्डा हिमाचलप्रदेशे स्वास्थ्ययोजनानां कार्यान्वयनार्थं अतिरिक्तरूपेण १२३ कोटिरूप्यकाणां अनुमोदनं कृतवान्
Next Article बिहारविधानसभानिर्वाचनस्य तिथयः घोषिताः, मतदानं द्वयोः चरणयोः नवम्बर ६, ११ च दिनाङ्कयो: भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?