द्विवर्षेभ्यः न्यूनेभ्यः बालकेभ्यः कास-शीत-द्रव्यौषधं न दातव्यम्-स्वास्थ्यसेवामहानिदेशालयः
हिमसंस्कृतवार्ताः। मध्यप्रदेशे राजस्थाने च प्रतिबन्धितकासौषधस्य सेवनं कृत्वा बालकानां मृत्योः अनन्तरं केन्द्रसर्वकारेण निर्देशाः अधिसूचिताः। द्विवर्षेभ्यः न्यूनेभ्यः बालकेभ्यः कास-शीत-द्रव्यौषधं न दातव्यम् इति सर्वकारेण उक्तम् । स्वास्थ्यसेवामहानिदेशालयेन बालरोगिषु कासौषधस्य उपयोगविषये निर्देशपत्रम् अधिसूचितम्। सामान्यतया पञ्चवर्षेभ्यः न्यूनानां बालकानां कृते ते न शस्यन्ते । कस्यापि औषधस्य उपयोगाय सावधानीपूर्वकं नैदानिकमूल्यांकनं, निकटनिरीक्षणं, समुचितमात्रायाः कठोरपालनं, न्यूनतमप्रभावी अवधिः, बहुविधौषधसंयोजनानां परिहारः च आवश्यकाः भवन्ति अपि च, निर्धारितौषधानां पालनविषये जनसमूहं शिक्षितं कर्तुं शक्यते । मध्यप्रदेशे राजस्थाने च प्रतिबन्धितौषधस्य सेवनं कृत्वा आहत्य ११ बालकाः मृताः। तेषु मध्यप्रदेशस्य छिन्द्वरामण्डले मृतानां संख्या नव अभवत् । परन्तु प्रारम्भिक अन्वेषणेन औषधस्य प्रतिरूपेकेषु DEG अथवा EG इत्यस्य लेशाः न प्राप्ताः, ये वृक्कं प्रभावितं कर्तुं शक्नुवन्ति।
कासौषधस्य प्रतिरूपकेषु हानिकारकं रसायनं नास्ति
नई दिल्ली। मध्यप्रदेशे राजस्थाने च बालकानां मृत्योः कासस्यऔधधेन सह सम्बद्धानां प्रतिवेदनानां विषये स्वास्थ्यपरिवारकल्याणमन्त्रालयेन स्पष्टीकरणं कृतम्। मन्त्रालयेन स्पष्टीकृतं यत् एनसीडीसी, एनआईवी, सीडीएससीओ इत्यादीनां विविधसंस्थानां संयुक्तदलेन स्थलं गत्वा औषधस्य, रक्तस्य प्रतिरूपकानि एकत्रितानि। मध्यप्रदेशराज्यस्य खाद्य-औषधप्रशासनेन अपि त्रीणां प्रतिरूपकाणां परीक्षणं कृतम्, ये डाइथिलीनग्लाइकोल् अथवा एथिलीनग्लाइकोल् मुक्ताः इति ज्ञातम्। इदानीं एनआईवी, पुणे इत्यस्य अन्वेषणेन एकस्मिन् प्रकरणे लेप्टोस्पायरोसिस् संक्रमणस्य पुष्टिः अभवत् । स्वास्थ्यमन्त्रालयेन उक्तं यत् जलस्य, मशकानां इत्यादीनां वाहकानां, श्वसनमार्गस्य च प्रतिरूपकाणां परीक्षणं प्रचलति।
द्विवर्षेभ्यः न्यूनेभ्यः बालकेभ्यः कास-शीत-द्रव्यौषधं न दातव्यम्-स्वास्थ्यसेवामहानिदेशालयः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
