प्रभाताभिलाषः (सत्यान्वेषणम्)
गीतानि खिन्नानि हि, छन्दसि विह्वलानि।
रागिण्यः शिथिलाः सदा, रागा दासत्वमागताः॥१॥
निशि दिवं जगराम्यहम्, शशिनि चकोरवदिच्छया।
निशिचरपदयोः कृतं, प्रभातमभ्यर्थयेऽनिशम्॥२॥
आसीदभिलाष एव मे, कलिकां तितलाभ्यः प्रदातुमहम्।
अश्रुपूरितपालिकां, नयनोत्सवकृत्सु वहन्तुमहम्॥३॥
ऋतवः पुनर्बहवः पतिताः, वने बहुलाः पराजिताः।
वसन्तमवाप्तुमिच्छिताः, परं विधिना निरोध्यते॥४॥
किं भाग्यमलिखितं नु को, लिलेख तदपाकर्तुमीशते।
सलिलबिन्दुरिव सिन्धुषु, स्वयमेव लीयते नियतम्॥५॥
कः खलु जनो न दुःखितः, न च वेद शोके स्थिरम्।
कः खलु रविर्न दग्धवान्, न चलितमार्गोऽपि॥६॥
देहः प्राणश्च चेतना, कल्पनैव केवलं सदा।
शूलपथेषु पुष्पकं, विमृशामहे वयं पुनः॥७॥
सत्यनिमेषसंकटे, सृजति विनाशमप्यथ।
शान्तसलिलसिन्धुषु, लहरीमन्विच्छामहे॥८॥
मूलकाव्यः — मुक्तेश्वरः पाराशरः
संस्कृतानुवादः — डॉ. महिमा शुक्ला