By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: आपदि कियती क्षति: अभवत् प्रधानमन्त्रिणे सूचयाम:- जयरामठाकुरः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > आपदि कियती क्षति: अभवत् प्रधानमन्त्रिणे सूचयाम:- जयरामठाकुरः
राष्ट्रीयवार्ताःहिमाचलवार्ता

आपदि कियती क्षति: अभवत् प्रधानमन्त्रिणे सूचयाम:- जयरामठाकुरः

डॉ मनोज शैल
Last updated: 2025/09/08 at 10:40 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

आपदि कियती क्षति: अभवत् प्रधानमन्त्रिणे सूचयाम:- जयरामठाकुरः

हिमसंस्कृतवार्ता: – धर्मशाला।

प्रधानमन्त्रिण: नरेन्द्रमोदिन: हिमाचल-भ्रमणात् पूर्वं जयरामठाकुरः काङ्गड़ाजनपदं प्राप्य सज्जतायाः समीक्षां कृतवान्। पत्रकारैः सह अनौपचारिकवार्तालापेन विपक्षनेता हिमाचलप्रदेशम् आगत्य आपदाप्रभावितक्षेत्राणां निरीक्षणं कर्तुं प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति आभारं प्रकटितवान्। सः अवदत् यत्, अस्माकं कष्टसमये अस्माकं मध्ये आगत्य, अस्माभिः सह स्थित्वा, अस्माकं दुःखं च सहभागं कर्तुं सः सम्पूर्णस्य हिमाचलप्रदेशस्य पक्षतः प्रधानमन्त्रिणः कृतज्ञः अस्ति। जयरामठाकुरः अवदत् यत् सः हिमाचले कृताया: हानिविषये प्रधानमन्त्रिणं सूचयिष्यति येन हिमाचलप्रदेशः अधिकतमं साहाय्यं प्राप्तुं शक्नोति। आपत्काले आश्रम- उद्धारकार्यं कर्तुं एनडीआरएफ, सेना, वायुसेना-कर्मचारिणः प्रदातुं प्रधानमन्त्रिणः अपि धन्यवादं दत्तवान्। अस्मिन् समये विपत्त्या अस्मान् अपूर्णीयाः व्रणाः प्राप्ताः इति विपक्षनेता अवदत्। सेप्टेम्बरमासे मानसूनः पुनः आगच्छति, परन्तु अस्मिन् समये प्रचण्डवृष्टिः, भूस्खलनं, मेघविस्फोटः च अद्यापि न स्थगिताः, येन हिमाचलप्रदेशस्य महती प्राणहानिः, धनस्य च हानिः भवति एताः घटनाः पुनः पुनः भवन्ति, अस्य कारणानि ज्ञात्वा तदनुसारं निवारणस्य योजनां कर्तुं आवश्यकता वर्तते। अस्माभिः पूर्वमेव केन्द्रस्य पुरतः एतत् उत्थापितं आसीत्। आपदाम् अध्ययनार्थं गृहमन्त्रिणा बहुक्षेत्रीयदलानि अपि निर्मिताणि सन्ति। यस्मिन् विभिन्नविभागसम्बद्धाः विषयविशेषज्ञाः आसन्।

 

३० जूनमासस्य सा कृष्णरात्रि:

जयरामठाकुरः अवदत् यत् जूनमासस्य ३० दिनाङ्के रात्रौ यदा मानसूनस्य आरम्भः एव आसीत् तदा मण्डीमण्डले बहु विनाशः अभवत्। एकस्मिन् दिने ४२ जनाः प्राणान् त्यक्त्वा सहस्राणि जनाः निराश्रयाः अभवन्। अधुना सितम्बरमासे अपि राज्यस्य प्रत्येकं कोणात् विनाशस्य चित्राणि आगच्छन्ति। मणि महेशयात्रायां वर्षाकारणात् १५००० तः अधिकाः जनाः अटन्ति स्म। सेनायाः चिनूक-चक्रविमानेन सहस्राणि जनाः उद्धारिताः। पर्यटनस्य दृष्ट्या येषु क्षेत्रेषु श्रेष्ठं मन्यते स्म, तेषु विनाशस्य कारणेन व्यापारः पूर्णतया स्थगितः अस्ति। आपद: हृदयविदारकचित्रं दृष्ट्वा पर्यटकाः अपि हिमाचलं परिहरन्ति। यस्य कारणेन सम्पूर्णस्य राज्यस्य अर्थव्यवस्था पर्यटन-उद्योगेन सह सम्बद्धाः जनाः च प्रभाविताः भवन्ति। एकतः राज्यस्य आपदाकारणात् सहस्रकोटिमूल्यानां आधारभूतसंरचनानां हानिः भवति, अपरतः आयस्य स्रोतांसि अपि निरुद्धाणि भवन्ति।

 

बहिः सेबफलानि प्रेषयितुम् एकम् आह्वानं वर्तते

जयरामठाकुरः उक्तवान् यत् हिमाचलप्रदेशस्य जनानां कृते आयस्य प्रमुखः स्रोतः उद्यानसंस्कारः कृषिजन्यपदार्थः च अस्ति। जनानां सेबफलानि पूर्णतया सज्जानि भवन्ति, तानि उद्धृत्य विपणीं प्रति प्रेषयितुं आवश्यकं भवति, परन्तु मार्गाः पिहिताः सन्ति। वाहनानि चालयितुं न शक्नुवन्ति। अतः जनाः स्वसेबफलानि विपणीं प्रति नेतुम् न शक्नुवन्ति। भाण्डारगृहेषु वाहनेषु च जनानां सेबफलानि विनष्टाणि भवन्ति। सहस्रकोटिरूप्यकाणां सेबस्य अर्थव्यवस्था पूर्णविनाशस्य मार्गे अस्ति। सर्वकारेण यथाशीघ्रं मार्गाणां पुनर्स्थापनं कर्तव्यं भविष्यति, अन्यथा क्षेत्रे कोटिमूल्यानां सेबानां अपव्ययः भविष्यति। एषः दुःखदघटनायाः भारं वहन्तः उद्यानपालकानां कृते द्विगुणः आघातः भविष्यति। तथैव आपदाग्रस्तक्षेत्रे अपि विपणीं गमनस्य अभावात् शाकानि नश्यन्ति, कृषकाणां प्रतिदिनं कोटिरूप्यकाणां हानिः भवति।

 

राज्यसर्वकारः आश्रयस्य नाम्ना औपचारिकतां कुर्वन् अस्ति

जयरामठाकुरः अवदत् यत् आपदासमये तत्कालं आश्रयं दातुं कार्यं राज्यसर्वकारस्य दायित्वं भवति, परन्तु राज्यसर्वकारः केवलं आश्रयस्य नामधेयेन औपचारिकतां कुर्वन् अस्ति। आपदासमये सर्वकारेण आश्रयं दातव्यं किन्तु काङ्ग्रेससर्वकारः राजनैतिकवक्तव्यं ददाति। यत्र युद्धपदे कार्यं कर्तव्यं तत्र सर्वकारः नाममात्रं कार्यं कुर्वन् अस्ति। अस्य कारणात् जनानां कृषि-उद्यान-उत्पादाः अपव्ययिताः भवन्ति स्म। ये मार्गाः एकदिनद्वयेन वा यन्त्रद्वयेन उद्घाटयितुं शक्यन्ते ते सार्धैकमासपर्यन्तं पिहिताः आसन्। जनाः दानं संग्रह्य स्वमार्गान् उद्घाटितवन्तः। केन्द्रसर्वकारेण आपदा-आश्रयार्थं हिमाचलप्रदेशाय विविधवस्तूनि ५१५० कोटिरूप्यकाणां आर्थिकसहायता दत्ता अस्ति। अधुनैव विधानसभासत्रे वयं ज्ञातवन्तः यत् सर्वकारेण आपदापीडितानां जनानां कृते केवलं ३०० कोटिरूप्यकाणि एव दत्तानि। सर्वकारस्य एतेभ्यः कार्येभ्यः अवगन्तुं शक्यते यत् अयं सर्वकारः आपदाग्रस्तानां जनानां साहाय्यस्य विषये कियत् गम्भीरः अस्ति।

 

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, Jai Ram Thakur, National News, national News Headlines, News Headlines, PM Modi, अन्तर्राष्ट्रीय समाचार, जयरामठाकुर, दिव्य हिमाचल समाचार, प्रधानमंत्री, प्रधानमंत्री नरेन्द्रमोदी, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, विपक्षनेता जयरामठाकुरः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP News – हिमाचलं “पूर्णसाक्षरराज्यम्” घोषितम्, मुख्यमंत्रिणा सुक्खुना कृता घोषणा
Next Article Kangra News – प्रधानमन्त्रिण: नरेन्द्रमोदिन: धर्मशालायात्रा हिमाचलाय महत्त्वपूर्णा अस्ति- शान्ताकुमारः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?