राष्ट्रम् एकोनाशीतितमं स्वतन्त्रतादिवसं आमानयति
हिमसंस्कृतवार्ता: – अद्य राष्ट्रम् एकोनाशीतितमं स्वतन्त्रतादिवसं आमानयति। प्रधानमन्त्री नरेन्द्रमोदी शुभावसरेऽस्मिन् देहल्या: लालकिलास्थलात् देशस्य समग्रस्य नेतृत्वं विधास्यति अपि च राष्ट्रं सम्बोधयिष्यति। गतवर्षस्य स्वतन्त्रतादिवस्य विषयो आसीत्- विकसितभारतं सप्तचत्वारिंशदधिकद्विसहस्रतमं इति। ऐषमः वर्षस्य स्वतन्त्रतादिवस्य विषयो वर्तते- “नूतनभारतम्” । एषः समारोहः समृद्धस्य, सुरक्षितस्य, शौर्यस्य च नूतनभारतस्य निरन्तरोत्थानस्य स्मरणार्थं मञ्चरूपेण कार्यं करिष्यति तथा च प्रगति-पथे अग्रेप्रवर्धनाय नवीनोर्जाः प्रदास्यति। अस्मिन् वर्षे स्वातन्त्र्यदिवसस्य उत्सवस्य समये ऑपरेशन सिन्दूर इत्यस्य सफलतायाः उत्सवः भविष्यति। आमन्त्रणपत्रेषु ऑपरेशन सिंदूर इत्यस्य अभियानस्य चित्रं, तथैव चिनाबसेतोः चिह्नं च अङ्कितम् अस्ति । अस्मिन् वर्षे लालदुर्गे उत्सवस्य साक्षिणः भवितुम् विभिन्नवर्गेभ्यः पञ्चसहस्राणि विशेषातिथयः आमन्त्रिताः सन्ति। सेना, नौसेना, वायुसेना, भारतीयतटरक्षक, एनसीसी, सीआरपीएफ, आईटीबीपी, सीआईएसएफ, एसएसवी, बीएसएफ, आईडीएस, आरपीएफ, असम राइफल्स् इत्येतैः बलैः देशस्य चत्वारिंशदधिकैकशततोप्यधिकेषु प्रमुखेषु स्थानेषु वाद्यप्रदर्शनं भविष्यति।
स्वातन्त्र्यसमारोहे पी.एम. विकास-योजनायाः अन्तर्गतं प्रशिक्षिताः सिख-यूनः विशिष्टातिथिरूपेण भागं गृहिष्यन्ति – अल्पसङ्ख्यकप्रकरणमन्त्री किरेन रिजिजुः ।अल्पसङ्ख्यकप्रकरणमन्त्री किरेन रिजिजुः अवदत् यत् स्वातन्त्र्यसमारोहे पी.एम. विकास-योजनायाः अन्तर्गतं प्रशिक्षिताः सिख-यूनः विशिष्टातिथिरूपेण कार्यक्रमे भागं गृहिष्यन्ति। नवदेहली-नगरे एतेषां विशेष-अतिथिभिः सह संवाद कार्यक्रमे मन्त्रिणः स्वस्य भाषणे एतत् उक्तवान्। सः अवदत् यत् एते युवकाः उद्यम-संरेखित-कार्यभूमिकासु प्रशिक्षिताः भवन्ति यानि उद्यमोन्मुख-कार्यबलस्य आवश्यकतां पूरयन्ति। सः अवदत् यत् प्रथमवारं मन्त्रालयः एतान् यूनः स्वातन्त्र्यदिवसस्य समारोहे विशेषातिथिरूपेण प्रेषयति। श्री रिजिजुः दिल्ली-सिक्ख-गुरुद्वारा-व्यवस्थापनसमितेः एकत्रिंशत्सहस्रात् अधिकानां यूनां प्रशिक्षणस्य प्रशंसनीयकार्यस्य कृते अपि अभिनन्दनं कृतवान्।