उत्तराखण्डे मेघ-विस्फोट-प्रभाविते उत्तरकाशी जनपदस्य धरालीति क्षेत्रे रक्षोद्धार-कार्यं युद्धस्तरे प्रवर्ततेतराम्
हिमसंस्कृतवार्ता: – उत्तराखण्डे जनानां रक्षोद्धार-कार्यं प्रवर्ततेतराम्। खीर-गङ्गा-नद्यां मेघ-विस्फोट-कारणेन दुरापन्नस्य प्रलयङ्करस्य तोयप्लवस्य अनन्तरम् उत्तरकाशी जनपदस्य धरालीति क्षेत्रे युद्धस्तरे रक्षोद्धार-कार्यं प्रवर्ततेतराम्। सैन्यबलम् राष्ट्रिय-आपदा-मोचनबलं, राज्य-आपदा-मोचनबलं, जनपद-प्रशासनम्, अन्यानि च उद्धारदलानि निरन्तरं कार्यरतानि सन्ति। अत्रान्तरे, मुख्यमन्त्री पुष्कर-सिंह-धामी आपदा-प्रभावित-क्षेत्राणां जनैः साकं संभाषणं कृत्वा तेषां कुशलक्षेमं ज्ञातवान्। सहैव आपदा-प्रभावित-परिवारेभ्यः सर्व-सम्भव-सहायता-प्रदानमपि आश्वासितवान्। सहैव उत्तरकाशी-स्थिते आपदा-नियन्त्रण-कक्षे जनोद्धार-सुरक्षा-कार्याणां विस्तृत-समीक्षामपि व्यदधात्। असौ तत्र सुरक्षोद्धार-कार्येषु नियुक्तैः कार्मिकैः साकमपि सम्भाषणम् आचरितवान्। मुख्यमंत्री प्रावोचत् यत् राज्य-सर्वकारस्य सर्वोच्च-प्राथमिकता इदं सुनिश्चितीकरणम् अस्ति यत् सर्वेभ्यः प्रभावितेभ्यः जनेभ्यः उद्धार-साहाय्यं शीघ्रमेव प्राप्तम्भवेत्। अथ च शीघ्राति-शीघ्रं सामान्य-स्थितिः प्रवर्तिता भवेत्। अनेन प्रशासनं निर्दिष्टम् अस्ति यत् कश्चिदपि प्रभावितः परिवारः सहायताभिः वंचितः न भवेत्। मुख्यमन्त्री प्रावोचत् यत् सैन्यबलेन प्रायः नवत्युत्तर-एक-शतं जनाः उद्धार-पूर्वकं सुरक्षित-स्थानेषु प्रापिताः सन्ति। प्रधानमन्त्री श्रीनरेन्द्रमोदी अपि विधीयमानानां जनोद्धार-प्रयासानां विषये मुख्यमन्त्रिणा धामि-वर्येण समं दौरभाषिकं सम्भाषणम् आचरितवान्। अथ च केन्द्र-सर्वकार-सर्वसम्भव-सहायता-प्रदानमपि आश्वासितवान्। अत्रान्तरे, ऋतु-विज्ञानविभागेन उत्तराखंडे, हिमाचल-प्रदेशे, उत्तर-प्रदेशे, केरले च प्रचंड-वृष्टेः सुरक्षा-संचेतना प्रख्यापितास्ति । आगामि-दिनेषु समस्ते राज्ये आनारतम् अतिवृष्टेः अनुमानं कृतम् अस्ति।
उत्तराखण्डे मेघ-विस्फोट-प्रभाविते उत्तरकाशी धरालीति क्षेत्रे रक्षोद्धार-कार्यं युद्धस्तरे
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
