प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना नवदेहल्यां कर्तव्य-पथे नवनिर्मितं तृतीयं कर्तव्य-भवनम् उद्घाटितम्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री श्रीनरेन्द्रमोदी नवदेहल्यां कर्तव्य-पथे नवनिर्मितं तृतीयं कर्तव्य-भवनम् उदघाटयत् । अस्मिन् उद्घाटनावसरे अमुना तृतीय-कर्तव्य-भवनस्य निर्माण-सम्बद्धा एका प्रदर्शनी चापि अवलोकिता, यस्यां प्रदर्शन्यां भवनस्य आधुनिक-विशेषताः प्रदर्शिताः सन्ति। अथ च पर्यावरणीय-स्थिरतां सुनिश्चितीकर्तुं निर्मित-भवनस्य विविधेषु पक्षेषु प्रकाशः निक्षिप्तः अस्ति। अस्मिन् अवसरे केन्द्रीय-आवास-पौर-विकास-विषयाणां मन्त्री मनोहरलालः अपि उपस्थितः आसीत् । अत्रावसरे श्रीमोदी संसद्भवन-परिसरे एकं पादप-रोपणमपि अकरोत्। एकस्मिन् संजालीये आलेखे श्रीमोदी प्रत्यपादयत् यत् कर्तव्यभवनं सर्वकारस्य प्रतिबद्धतायाः, प्रजा-सेवायाः निरंतर प्रयासानां च प्रतीकभूतम् अस्ति। एतत् तृतीयं कर्तव्य-भवनम्, सेंट्रल विस्टा इति संसद् भवनस्य एव व्यापक-परिवर्तनस्य एकम् अङ्गम् अस्ति। यस्य उद्देश्यः प्राशासनिक-प्रक्रियाणां सुव्यवस्थिततया परिपालन-पूर्वकं शासनस्य सक्षमतया प्रवर्तनं वर्तते।
प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना नवदेहल्यां कर्तव्य-पथे नवनिर्मितं तृतीयं कर्तव्य-भवनम् उद्घाटितम्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment