आन्ध्रप्रदेशस्य मार्गाः अमेरिकीय मार्गसदृशाः भविष्यन्ति- केन्द्रीयपरिवहनराजमार्गमन्त्री नितिनगडकरी ।
हिमसंस्कृतवार्ता: – केन्द्रीयपरिवहनराजमार्गमन्त्रिणा नितिनगडकरिणा घोषितं यत् आगामिवर्षद्वये आन्ध्रप्रदेशस्य मार्गाः अमेरिकीय मार्गसदृशाः भविष्यन्ति। आन्ध्रप्रदेशस्य मङ्गलागिरीनगरे सप्तविंशति मार्गविकासपरियोजनानां आधारशिलास्थापनं कृत्वा त्रयस्त्रिंशोत्तर द्विशताधिक पञ्चसहस्रकोटिरूप्यकाणां सम्पन्नद्वयोः परियोजनयोः राष्ट्राय समर्पणानन्तरं मुख्यमन्त्रिणा एन. चन्द्रबाबू नायडूना सह एकं उपवेशनं संबोधयन् तेनोदीरितं यत् नवपरियोजनाभिः आन्ध्रप्रदेशं तेलंगाना-कर्णाटक-ओडिशा-तमिलनाडु राज्यं च निकटतया संयोजयिष्यते। केन्द्रीयमन्त्री घोषितवान् यत् विजयवाडा-हैदराबाद-मार्गस्य विकासः राजमार्गरूपेण भविष्यति, येन द्वयोः नगरयोः मध्ये यात्रायाः समयः केवलं द्विहोरा यावत् भविष्यति।
आन्ध्रप्रदेशस्य मार्गाः अमेरिकीय मार्गसदृशाः भविष्यन्ति- केन्द्रीयपरिवहनराजमार्गमन्त्री नितिनगडकरी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
