असमप्रदेशान्तर्गतस्य राष्ट्रियभाषाविद्यालयप्राङ्गणे, सप्तदिवसीय- बोधनवर्गस्य समापनकार्यक्रमः सुसम्पन्नः
हिमसंस्कृतवार्ताः। गतरविवासरे असमप्रदेशान्तर्गतस्य विश्वनाथजनपदस्य विश्वनाथनगरे, एकस्मिन् राष्ट्रियभाषाविद्यालयप्राङ्गणे, संस्कृतभारतीगोष्ठ्या समायोजितस्य सप्तदिवसीय- बोधनवर्गस्य समापनकार्यक्रमः, शताधिकानां संस्कृतप्रेमिणाम् उपस्थित्याम् अत्यन्तं सुन्दरतया सुसम्पन्नः अभवत्। मान्यवरस्य श्रीहितेश्वरदास- महाभागस्य अध्यक्षतायां सभेयं परिचालिता आसीत्। विश्वनाथमहाविद्यालयस्य अध्यक्षेण चिन्तामणिशर्ममहोदयेन दीपप्रज्वलनम् तथा बालिकाभिः च शान्तिपाठः अक्रियत। निर्दिष्टवक्तृत्वेन विश्वनाथमहाविद्यालयस्य सेवानिवृत्तः विज्ञानप्राध्यापकः मान्यवरः अमरज्योतिबरठाकुरः महाभागः उपस्थितः आसीत्। उपस्थितेषु लोकनाथशास्त्रिमहाभागः, नारदोपाध्यायः, प्राध्यापकः डा. दिपेनभराली महाभागः, खाउण्डमहाभागः, सेवकोईराला, दामोदरबरालः, अशोकदाहालः, रमादेवी भगिनी, लतादेवी, गुप्तमहाभागः, अन्ये शिक्षकाः, शिक्षिकादयः अन्यतमाः आसन्। एवमेव वार्ताहराः, संस्कृतानुरागिणः, युवानः, युवतयः, प्रियच्छात्राः उपस्थिताः आसन्। सभामध्ये छात्रेभ्यः प्रमाणपत्रमपि प्रदत्तम्। सभा प्रायशः संस्कृतमाध्यमेन एव प्रवर्तिता। मध्ये मध्ये प्रेमिभिः गीतनृत्यादिकमपि परिवेशितम्। आदिनं प्रवर्तमाना सभेयम् आकर्षिका, मनोमोहिका, प्रेरिका च आसीत्। अन्ते सभाध्यक्षमहोदयस्य मन्तव्यं, धन्यवादज्ञापनादिकं विधाय सभा विसर्जिता अभवत्।मञ्चपरिचालकः- सेवकोईरालामहोदयः, संस्कृतशिक्षकः इति।
असमप्रदेशान्तर्गतस्य राष्ट्रियभाषाविद्यालयप्राङ्गणे, सप्तदिवसीय- बोधनवर्गस्य समापनकार्यक्रमः सुसम्पन्नः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
