आपदि जयरामठाकुरस्य सहृदय-नेतृत्वम्
त्रासदी न केवल पर्वतानां पतनम्, अतिवृष्टेः प्रकोपः वा भवति; सा तु मानवानां संवेदनायाः, नेतृत्वस्य धराया: च सम्बद्धत्वस्य कर्शपट्टिका (कसौटी) भवति। आपदा सः कालः भवति यदा मानवीयमूल्यानां, करुणानाम्, उत्तरदायित्वस्य च वास्तविकी परीक्षा भवति। न केवल सेतूनां प्रक्षालनं, गृहाणां विनाशः वा त्रासदी भवति, अपि तु तत्क्षणं भवति यदा मनुष्यं तस्य आन्तरिकशक्त्या सह उन्नतं तिष्ठति विखण्डितं वा भवति।
एवं संकटे घोषणाः, योजनाः, औपचारिकनियमाः केवलं अभिलेखानां भाषया परिवर्तिताः दृश्यन्ते। यदा आपद् आगच्छति तदा आवश्यकता भवति तादृशस्य नेतृत्वस्य यः न केवलं घोषणां करोति, न प्रकाशमयानां यंत्राणां पुरतः भाषणं ददाति, अपि तु मौनेन, निःस्वार्थेन, आत्मीयभावेन च आगत्य केवलं एतद् वदति – “अहं भवद्भि: सह अस्मि” इति।
हिमाचलप्रदेशस्य मण्डीजनपदस्य सिराजक्षेत्रे यदा प्रचण्डवृष्टिः समभवत्, ग्रामाः नष्टाः, मार्गाः क्षतिग्रस्ता:, गृहाणि च मलिनावशेषे परिवर्तितानि, तदा कश्चन मुखं यः विजृम्भनं (ताम-झाम) विना पन्थानं स्वयमेव पदाति: गच्छन् दृष्टम् – न मार्गा:, नोपमार्गा: न च सञ्चारव्यवस्था: । तद् मुखम् आसीत् हिमाचलप्रान्तस्य पूर्वमुख्यमन्त्रिणः तथा च वर्तमानविपक्षनेतुः जयरामठाकुरस्य। परं तत्र तस्य राजनैतिक-परिचयं न प्रमुखम्, अपितु ग्रामजनस्य दुःखेन सह-संवेदनया संलग्नस्य व्यक्तित्वं प्रमुखम्। यतोहि तस्य जीवनम् अत्र व्यतीतं अत्रत्यानाम् उपत्यकानां स्पन्दनं तेन अनुभूतम्। यस्य जीवने संवेदना औपचारिकतामात्रमेव न वर्तते अपितु जीवनस्य सरल: स्वभाव: वर्तते।
तस्य यात्रा औपचारिकी निरीक्षणयात्रा नासीत्, न स्वागतं, न भाषणम्, न च भावचित्रस्वीकर्तॄणाम् उपस्थितिः। सः आसीत् आन्तरिकः प्रेरणास्वरः – य: अन्तर्हृद्यात् स्फुटित: आसीत् “यदा संकटम् आगच्छति तदा नेता न, आत्मीयः सखा इव आगन्तव्यम्” इति।
मार्गाः विच्छिन्ना:, सेतव: वहिताः, प्रशासनम् अपि संसाधनाभावात् सीमितम् अभवत्। तथापि जयरामठाकुरः संवेदनायाः मापकं गृहीत्वा आगतः। न भाषणम्, न घोषणाः, केवलं जनानां नेत्रेषु पश्यन् तेषां हृदयगतं दुःखं अवगच्छत्। सः केवलं एकं वाक्यं अवदत् – “वयं पुनः उत्थास्याम:।” एषः न घोषवाक्यम्, न राजनैतिकम् भाषणम्, एषा आशा आसीत्। या तस्य समयस्य महती आवश्यकता आसीत्।
कदाचित् केवलं मौनेन सहस्थितिः अपि समाधानरूपा भवति। सः तत्र ग्रामं ग्रामं गत्वा तेषां भयम्, वेदना च स्वयमेव अनुभूतवान् यां वेदनांआ जना: जीवन्ति स्म। न मीडिया, न प्रचारः, एतद् केवलं नेतृत्वस्य नैव अपितु एकस्य सरलस्य सहृदयस्य व्यक्तित्वस्य आचरणमासीत्।
एतेषु तस्य स्वकीयं दुःखं अपि आसीत् – तस्य पारिवारिकगृहं तांदीग्रामे विनष्टम् अभवत्। परं सः न तस्य विशेषतः उल्लेखम् अकरोत् न च प्राथमिकताम् अददत्। केवलं अवदत् – “मम पीडाऽपि सा एव या भवतः मुखे दृश्यते।” अत्र ‘पदम्’ अदृश्यं जातम्, केवलं ‘वयं’ शेषम्। नेतु: जनानां च मध्ये भेद: समाप्त:।
एतादृशस्य आचरणस्य एषा एका एव घटना उदाहरणं नास्ति। जयरामठाकुरस्य पूर्वकार्यकाले अपि पुनःपौन्येन दृष्टा:। कोरोना-विभीषिकायाम् यदा सम्पूर्णं विश्वं व्याप्तमासीत्। तदापि सः निर्भयतया प्रदेशस्य नेतृत्वं कृतवान्। ‘मुख्यमन्त्री सेवा संकल्प हेल्पलाइन’ इति स्थापिता । येन लक्षाधिका: जना: त्वरितं समाधानं प्राप्तवन्त:। ‘जनमञ्चम्’ इति कार्यक्रमेन सः सर्वेभ्यः प्रत्यक्षं संवादं स्थापितवान्। स: केवलं प्रशासक: एव न अपितु एतादृश: व्यक्तित्व: अभवत् य: जनानां पीडां स्वपीडाम् अवगच्छति स्म समाधानं कर्तुं च प्रयतते स्म।
अपि च, सः विपक्षे स्थित्वाऽपि तस्य समर्पणं न परिवर्तितम्। विपत्तिकाले सः सर्वकारस्य आलोचनां विहाय संयमेन सहजभाषया समाधानं प्रदत्तवान्। एनडीआरएफ- हेलीकॉप्टरसेवानां निमित्तं केन्द्रात् सहायतां याचितवान्। आश्रयकार्येषु त्वरितगत्याः चेष्टाः कृताः। तस्य प्राथमिकता राजनीति: न अपितु आश्रय: आसीत् । या अद्यापि जनै: सह तस्य सन्निकटतां प्रदर्शयति।
अद्य राजनैतिके यत्र हैशटैग्, रोषः, बाइट्-संस्कृतेः प्रबलता अस्ति, तत्र जयरामठाकुरः मानवीयतायाः एका मृदुधारा इव दृश्यते – या धारा गम्भीरा, मौनगामिनी च अस्ति। स: राजनीतिं प्रदर्शनं न अपितु सेवा इति मन्यते। नेतृत्वं तस्य कृते उत्तरदायित्वम् अस्ति, न केवलं अवसरः। एतदेव कारणमस्ति यत् असौ सत्तायां भवेत् न वा भवेत् परन्तु जनानां विश्वासस्य केन्द्रं भवति।
यदा कदापि भविष्ये सिराजक्षेत्रे एषा आपत्ति स्मृतिपथम् आगमिष्यति, तदा लोकाः न केवलं संख्यां वा विनाशं स्मरिष्यन्ति, किं तु तं मौनमुखं स्मरिष्यन्ति – यः कथनेन विनापि बहुकिमपि कथितवान्। प्रथमं आगतः, यः दुःखे सहचरत्वं प्रदत्तवान्। तमसि प्रकाशं दातुं न अपितु तेन सह गन्तुं प्रवृत्त: अभवत्। तदा जना: एतद् न प्रक्ष्यन्ति यत् स: नेता सत्तायामासीत् वा विपक्षे स्थितः, केवलं वदिष्यन्ति – “सः अस्माकं जनः आसीत्।”
यदा संवेदनायाः मूर्तरूपं नेतृत्वं भवति, तदा जयरामठाकुरेण सदृशः व्यक्तिः केवलं राजनेता न, अपि तु परम्परा भवति।
लेखक: – हितेन्द्र: शर्मा (कुमारसेनम्, शिमला)
अनुवादक: – डॉ मनोजशैल: (लघ्वीकाशी मण्डी)