नालागढस्य डॉ.सन्तोषकुमार: भविता राज्यस्तरीयेण ‘संस्कृत-सेवा-सम्मान:’ इत्यनेन सम्मानित:
हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदा रविवासरे ‘राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: बथांलग:’ इत्यत्र राज्यस्तरीय-संस्कृत-शिक्षक-सम्मान-कार्यक्रम: आयोजयिष्यते । कार्यक्रमेऽस्मिन् हिमाचल-प्रदेशस्य २० संस्कृत-शिक्षका: राज्यस्तरीयेण ‘संस्कृत-सेवा-सम्मान:’ इत्यनेन सम्मानिता: भविष्यन्ति, त्रयश्च संस्कृतशिक्षका: ‘संस्कृत-सेवा:सम्मान:’ इत्यनेन । ये संस्कृत-शिक्षका: कोरोना-कालस्य विषमपरिस्थितौ सर्वकारस्य ‘हर घर पाठशाला’ इति योजनाया: माध्यमेन स्वकीय-ज्ञानोत्साह-समर्पण-भावै: प्रतिगृहं प्रतिच्छात्रं वा संस्कृतं प्रापितवन्त: । ते संस्कृतं प्रति समर्पितशिक्षका: ‘संस्कृत-सेवा-सम्मान:’ इत्यनेन सम्मानिता: भविष्यन्ति । एतेषु विंशतिशिक्षकेषु नालागढ़स्य सम्माननीय: डॉ.सन्तोषकुमार: अपि अन्यतम: । समग्रनालागढस्य कृते अयं गौरवास्पदं वर्तते । डॉ.सन्तोषकुमार: ‘बैहली’ इति ग्रामस्य मूलवास्तव्यो वर्त्तते । श्रीसुनयना-संस्कृत-महाविद्यालय: स्वारघाट:, राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: कुण्डलू, राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: बारियांँ इत्यादिषु अनेक – शिक्षणसंस्थानेषु अयं महोदय: शिक्षणकार्यं कृतवान् । अनेक-प्रकल्पानां माध्यमेन अयं महोदय: समाजं प्रति संस्कृतभाषां नेतुं प्रयासं कृतवान् । तस्मात् प्रेरणां प्राप्य अनेके जना: संस्कृतानुरागिणोऽभवन् । माननीयस्य डॉ.सन्तोषकुमारस्य कृते राज्यस्तरीयस्य संस्कृत-सेवा-सम्मानस्य समाचार: समग्रस्य नालागढ़क्षेत्रस्य कृते गौरवास्पदं वर्त्तते ।