प्रधानमन्त्री श्रीनरेन्द्रमोदी त्रिनिदाद टोबैगो-देशे षष्ठवंशश्रेणिक-भारतीयमूलस्य नागरिकाणां कृते ओ.सी.आई-कार्ड इत्यस्य घोषणां कृतवान्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री श्रीनरेन्द्रमोदी त्रिनिदाद-टोबैगो-देशयो: षष्ठवंशश्रेणिक-भारतीयमूलस्य नागरिकाणां कृते ओ.सी.आई-कार्ड इति भारतीय-विदेशी-नागरिकपत्रस्य घोषणां कृतवान्, येन ते भारते प्रतिबन्धं विना निवासं कार्यं च कर्तुं शक्नुवन्ति। त्रिनिदाद-टोबैगो-देशे एकं कार्यक्रमं सम्बोधयन् श्रीमोदी भारतीयसमुदायं स्व-पैतृकभूमौ भ्रमितुं, भारतेन सह-सम्बन्धं गभीरं कर्तुं च प्रोत्साहितवान्। श्रीमोदी यूपीआई-इति मुद्राविनिमय-व्यवस्थायाः स्वीकरणाय प्रथम-कैरिबियन-राष्ट्राय त्रिनिदाद-टोबैगो-देशाय अभिनन्दनं च कृतवान्। सः अवदत् यत् यूपीआई-अनुमोदनं न केवलं त्रिनिदाद्-टोबैगो-देशाय अपितु भारताय अपि लाभप्रदम् अस्ति।
भारत-अर्जेण्टिना-राष्ट्रयोः सामरिक सहभागिता-वर्धनस्य उपायाः अन्वेषिताः भविष्यन्ति- प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – पञ्च-राष्ट्रयात्रायाः अग्रिमपदे प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतेः जेवियर मिलेइ इत्यस्य आमन्त्रणेन, अर्जन्टीनादेशस्य भ्रमणं करिष्यति। इयं च सप्तपञ्चाशत्-वर्षेषु भारतीयप्रधानमन्त्रित्वेन अर्जेन्टिनादेशस्य प्रथमा द्विपक्षीययात्रा भविष्यति। चर्चासु प्रचलित-सहकार्यस्य समीक्षा भविष्यति, द्वयोः राष्ट्रयोः सामरिक सहभागिता-वर्धनस्य उपायाः च अन्वेषिताः भविष्यन्ति। आकाशवाण्या सह विशेषसंवादे अर्जेन्टिनादेशे भारतस्य राजदूतः (नियुक्तः) अजनीशकुमारः, प्रधानमन्त्रिणः भ्रमणकाले चर्चायाः सम्भाव्यक्षेत्राणां रूपरेखां प्रकाशितवान्।
प्रधानमन्त्री श्रीनरेन्द्रमोदी त्रिनिदाद टोबैगो-देशे षष्ठवंशश्रेणिक-भारतीयमूलस्य नागरिकाणां कृते ओ.सी.आई-कार्ड इत्यस्य घोषणां कृतवान्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment