By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयेन भारतीयज्ञानपरम्परायाः सार्वभौमत्वम् इति अखिलभारतीयशोधसम्मेलनं परिपालितम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयेन भारतीयज्ञानपरम्परायाः सार्वभौमत्वम् इति अखिलभारतीयशोधसम्मेलनं परिपालितम्
संस्कृतगतिविधयः

कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयेन भारतीयज्ञानपरम्परायाः सार्वभौमत्वम् इति अखिलभारतीयशोधसम्मेलनं परिपालितम्

जगदीश डाभी
Last updated: 2026/03/29 at 8:34 PM
जगदीश डाभी
Share
2 Min Read
SHARE

कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयेन भारतीयज्ञानपरम्परायाः सार्वभौमत्वम् इति अखिलभारतीयशोधसम्मेलनं परिपालितम्

वार्ताहर: – जगदीश डाभी, हिमसंस्कृतवार्ता:

केन्द्रीयसंस्कृतविश्वविद्यालयस्य आर्थिकसहयोगेन केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदिते कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये २९.०३.२०२६तमे दिनाङ्के भारतीयज्ञानपरम्परायाः सार्वभौमत्वम् इति विषयम् आदाय अखिलभारतीयशोधसम्मेलनम् आयोजितम्। शोधसम्मेलनस्य उद्घाटनसत्रे अस्य आदर्शसंस्कृतमहाविद्यालयस्य निर्माणे सहायतां कृतवतीं दानवीराणां विक्रमकिशोरसाउमहाभागानां मूर्तौ, महाविद्यालयस्याद्य अध्यक्षाणां डा० नितीशसेनगुप्तमाहशयानां मूर्तौ माल्यार्पणं कृत्वा अनुष्ठानस्य अस्य अतिथयः सभामञ्चम् आरूढवन्तः। तत्र उद्घाटनसत्रे महाविद्यालयस्य छात्राः मङ्गलाचरणेन अतिथयः च सरस्वतीदेव्याः पूजनेन अनुष्ठानस्य सूचनां कृतवन्तः। अनुष्ठानस्य आरम्भे राष्ट्रगीतं, केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलगीतं च सर्वैः आचार्यैः छात्रैश्च गीतम्। अनुष्ठानस्य अस्य आरम्भे महाविद्यालयस्य यशस्विनः प्राचार्याः डा० व्रजेन्द्रकुमारसिंहदेवमहाभागाः स्वागतभाषणम् अतिथिनां परिचयं सत्कारञ्च कृतवन्तः। अनुष्ठानस्य अस्य सभापतयः आसन् महाविद्यालयस्य अस्य अध्यक्षाः, केन्द्रीयसंस्कृतविश्वविद्यालयस्य प्राक्तनकुलसचिवाश्च प्रोफेसर् रञ्जितकुमारवर्मन् महाभागाः, उपस्थिताः आसन् महाविद्यालयस्य प्राक्तन-अध्यक्षाः, पुरीस्थस्य श्रीजगन्नाथसंस्कृतविश्वविद्यालयस्य कुलपतिचराः आचार्यकिशोरचन्द्रपाढीमहोदयाः। मुख्यातिथित्वेन आन्तर्जालिकमाध्यमेन समुपस्थिताः आसन् केन्द्रीयसंस्कृतविश्वविद्यालयस्य सदाशिवपरिसरस्य आचार्याः दूर्गाप्रसाददासमहापात्रमहाभागाः। पुनः विशिष्टातिथित्वेन नरेन्द्रपुरस्य रामकृष्णमिशन्-आवासिकमहाविद्यालयाद् आगताः आसन् संस्कृतविभागप्रमुखाः डा० नारायणदाशमहाभागाः, केन्द्रीयसंस्कृतविश्वविद्यालयस्य सदाशिवपरिसराद् वेदान्तविभागप्रमुखाः प्रो० शम्भुनाथमहालिकमहोदयाः अपि समुपस्थिताः आसन्। एवमेव अस्य महाविद्यालयस्य अध्यक्षचराः डा० देवीपदरथमहाभागाः अपि शोधसम्मेलनेऽस्मिन् समुपस्थाय अनुष्ठानस्य अस्य शोभां वर्धितवन्तः। एतान् विशिष्टान् अतिरिच्य देशस्य विविधप्रान्तेभ्यः अनेके विद्वासः साक्षाद् आन्तर्जालिकमाध्यमेन च समुपस्थाय अनुष्ठानम् इदं साफल्यतां प्रापितवन्तः। तेषु डा० शान्तनुअयाचितमहाभागाः, डा० नीरजकुमारभार्गवमहाभागाः, डा० सुखदेवभट्टमहाभागाः, डा० रमेशदासमहाभागाः, डा० राजकिशोरवारिकमहोदयाः, डा० निरञ्जनबेहेरा, डा० नरनारायणदासः इत्येते अन्यतमाः। अस्य अखिलभारतीयशोधसम्मेलनस्य समन्वयकाः आसन् महाविद्यालयस्य अद्वैतवेदान्तविभागस्य विभागप्रमुखाः डा० दयानन्दपाणिग्राहीमहोदयाः, अनुष्ठानस्य संयोजकाः आसन् व्याकरणविभागस्य मुख्याः डा० संकर्षणपण्डामहोदयाः, किञ्च साहित्यविभागस्य अध्यापकाः डा० नृसिंहनाथगुरुमहाभागाः। एतेषां मिलितप्रयासेन एव अनुष्ठानमिदं सुष्ठु पूर्णतां अगात्। अनुष्ठाने अस्मिन् छात्राणाम् अपि महद्योगदानम् आसीत्। तथाहि सार्धैकशताधिकछात्राः अनुसन्धातारः च अनुष्ठाने उपस्थाय अनुष्ठानं साफल्यमण्डितं कृतवन्तः। तत्र साक्षात् महाविद्यालयमागत्य आन्तर्जालिकमाध्यमेन च स्थित्वा षष्ठी छात्राः अध्यापकाश्च शोधपत्रप्रस्तुतिं कृतवन्तः। तत्र आन्तर्जालिकमाध्यमेन सत्रद्वयं चालितम्। ययोः एकस्मिन् सत्रे सत्राध्यक्षरूपेण रामकृष्णमिशन्विवेकानन्दशैक्षणिकशोधसंस्थानस्य संस्कृतदर्शनविभागस्य विभागप्रमुखाः डा० राकेशदाशमहाभागाः उपस्थिताः आसन्, किञ्च अस्य सत्रस्य सञ्चालकाः आसन् अस्य महाविद्यालयस्य व्याकरणविभागस्य अतिथ्यध्यापकः डा० सुखदेवसाउः। अन्यस्मिन् सत्रे सत्राध्यक्षाः आसन् महाविद्यालयस्य आङ्ग्लोऽध्यापकाः डा० सञ्जय अग्नहोत्रीमहोदयाः। ये साक्षात्पत्रं प्रस्तुतवन्तः तेषां कृते अपि सत्रद्वयम् आसीत्। तत्र प्रथमे सत्रे डा० अमरेन्द्रकुमारमिश्रमहाभागाः सत्राध्यक्षाः आसन्। तत्र विषयविशेषज्ञत्वेन डा¬० सुरजित् वेनार्जी, डा०शान्तनु अयाचितः महोदयः, डा०हरिपदवेरामहोदयाश्च । द्वितीये सत्रे सत्राध्यक्षाः आसन् प्रो० शम्भुनाथमहालिकमहोदयाः, विषयविशेषज्ञाः च आसन् डा०नीरजकुमारभार्गवमहोदयाः, डा०नरनारायणदाशमहोदयाः, डा० सुखदेवभट्टमहोदयाश्च। अस्य सत्रस्य सञ्चालकाः आसन् डा० नरनारायणदाशमहाभागाः। मध्याह्नभोजनानन्तरमपि शोधच्छात्राणां अध्यापकानां च पत्रवाचनम् अभवत्। अन्ते महाविद्यालस्य आइ.किउ.ए.सि इत्यस्य संयोजकाः महाविद्यालयस्य अधुनिकविभागस्य विभागाध्यक्षाः डा० किंशुकसाहामहोदयाः सर्वान् अतिथीन् धन्यवादान् ज्ञापयित्वा अनुष्ठानमिदं सुष्ठु समापितवन्तः।

You Might Also Like

गीर-सोमनाथस्य लघुबालकेन रचितः इतिहासः ७०० श्लोकान् कण्ठस्थीकृत्य प्राप्ता ‘गीताभूषण’ उपाधिम्

उपराष्ट्रपतेः वक्तव्यम्-: पारम्परिकचिकित्सापद्धतीनां महत्त्वम्

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य चतुर्दशः दीक्षान्त-समारोहः सम्पन्नः

पाणिनि वि.वि -ःभौगोलिकं वैषम्यं अस्माकं संस्कृतौ वैषम्यं न दर्शयति– डॉ. सुरेन्द्र थापा

आईआईटी बॉम्बे (IIT Bombay) संस्थाने ‘ऋतम् २०२६’ इति संस्कृतमहोत्सवः

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article गीर-सोमनाथस्य लघुबालकेन रचितः इतिहासः ७०० श्लोकान् कण्ठस्थीकृत्य प्राप्ता ‘गीताभूषण’ उपाधिम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?