तेलंगानाराज्यस्य संगरेड्डी-मण्डले औद्योगिकैकक-विस्फोटघटनायां द्वादश श्रमिकाः मृताः, षड्विंशति-जनाः व्रणिताः अभवन्
हिमसंस्कृतवार्ता: – तेलंगानाराज्यस्य संगरेड्डी-मण्डले एकस्मिन् बृहद्-रासायनिक औद्योगिकैकक-विस्फोटघटनायां द्वादश श्रमिकाः मृताः, षड्विंशति-जनाः व्रणिताः अभवन्। एतेन विस्फोटेन विशालः अग्निः उत्पन्नः, येनाग्निना सिगाची केमिकल्स् इति परिसरः आक्रान्तोऽभवत्। राष्ट्रिय-आपदोद्धार-दलेन राज्य आपदोद्धार-दलेन च मिलित्वा स्थानीय प्रशासनस्य सहयोगेन च रक्षाकार्यं प्रचलति। राज्यस्य श्रममन्त्री विवेकवेंकटस्वामी उक्तवान् यत् घटनायाः कारणान्वेषणं प्रचलति। मुख्यमन्त्री रेवन्तरेड्डी आहतानाम् कृते उत्तमचिकित्सासहायतां दातुम् अधिकारिभ्यः निर्देशं दत्तवान्। राष्ट्रपति: द्रौपदीमुर्मूः, प्रधानमन्त्री नरेन्द्रमोदी च अस्यां घटनायां पीडितानां कृते शोकसंवेदनाः प्रकटितवन्तौ। अन्तर्जालीयसन्देशे राष्ट्रपति-मुर्मूना उक्तं यत् सा दुःखदघटनायाः विषये अतीव दुःखिता अस्ति, शोकग्रस्त-परिवारेभ्यः सा समर्थनं प्रकटितवती। सा आहतानाम् शीघ्रस्वस्थतायै प्रार्थनां कृतवती। श्रीमोदिना प्रधानमन्त्री-राष्ट्रिय-आपदुद्धार-कोषात् प्रत्येकस्य मृतस्य निकटजनानाम् कृते अनुग्रहराशिरूपेण लक्षद्वयं, दुर्घटनायां व्रणितानां कृते पञ्चाशत्-सहस्ररूप्यकाणां च अनुग्रहः घोषितः।
तेलंगानाराज्यस्य संगरेड्डी-मण्डले औद्योगिकैकक-विस्फोटघटनायां द्वादश श्रमिकाः मृताः,
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
