By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > बिहारवार्ताः > बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः
बिहारवार्ताः

बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः

डॉ.अमनदीप शर्मा
Last updated: 2025/06/28 at 7:29 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः — पाठ्यक्रमगुणवत्तावर्धनाय नवसंकल्पानां घोषणा कृताः

आधुनिकताया सह संस्कृतशिक्षायाः समायोजनं, शिक्षकेभ्यः प्रशिक्षणं, छात्रेभ्यः योजनालाभश्च सुनिश्चितम्

वार्ता प्रेषक: अंकुश कुमार:
पटना, २७ जून् २०२५

गतदिने अपराह्णे १२.३० वादने बिहार-संस्कृत-शिक्षा-बोर्डस्य मुख्यालये अध्यक्षश्री-मृत्युञ्जय-कुमार-झा-महोदयस्य अध्यक्षतायां संस्कृतशिक्षाविषये एकं महत्वपूर्णं बैठकम् आयोज्य अभवत्। अस्मिन् बैठकायां संस्कृतशिक्षायाः गुणवत्ता-वृद्धये च कतिपयानि महत्वपूर्णानि निर्णयानि स्वीकृतानि।

परीक्षा-उपसमित्याः गठनम्

बोर्डेन निश्चयः कृतः यत् पाठ्यक्रमनिर्माणे परीक्षायाः च गुणवत्तावर्धनाय एकस्य परीक्षा-उपसमित्याः गठनं करणीयं। एषा समिति पाठ्यवस्तूनां पुनःपरीक्षणं, नवनीकरणं च करिष्यति।

शिक्षकाणां प्रशिक्षणाय MOU संकल्पः

संस्कृतविद्यालयेषु कार्यरतशिक्षकाणां गुणवत्ता-वृद्धये DIET, BIET, SCERT च संस्थाभिः सह सहमतिपत्रं (MOU) हस्ताक्षरं करणीयं इति निर्णयः कृतः। अस्य माध्यमेन शिक्षकेभ्यः आधुनिकपद्धत्याधारितं प्रशिक्षणं प्रदेयम्।

विद्यार्थिनां नामाङ्कने वृद्धि हेतु अभियानम्

संस्कृतविद्यालयेषु छात्रसंख्यायाः वृद्ध्यर्थं जागरणकार्यक्रमस्य आयोजनं कर्तुं निश्चयः कृतः। प्रचार-प्रसारकार्यक्रमैः लोकानां संस्कृतशिक्षायां अभिरुचिः वर्धिष्यते।

व्यवसायिक-कौशल-युक्तं पाठ्यक्रमं भविष्यति

संस्कृतपाठ्यक्रमे व्यवसायिकशिक्षा तथा संगणकविषयकशिक्षा च समायोज्य नूतनं व्यवहारिकं च पाठ्यक्रमं निर्मीयते। अस्य माध्यमेन छात्राः वर्तमानयुगस्य आवश्यकतानुसार सज्जाः भविष्यन्ति।

बोर्डस्य अधिकृतं जालपृष्ठं शीघ्रं लप्स्यते

सूचनायाः पारदर्शकता सुनिश्चितुं बोर्डस्य एकं अधिकृतं वेबसाइट् अपि शीघ्रं लोकार्पणं भविष्यति।

राज्यसर्वकाराय योजनासम्बन्धी पत्रप्रेषणं भविष्यति

मध्याह्नभोजनयोजना, निःशुल्कपुस्तकवितरणम्, छात्रवृत्तिः, पोषकवस्त्रवितरणम्, सायकिलवितरणं, मुख्यमंत्री-परिभ्रमण-योजना इत्यादीनां योजनानां लाभः संस्कृतविद्यालयेषु पठमानेभ्यः छात्रेभ्यः अपि दातव्यः इति निर्णयः कृतः। अस्य निमित्तं सम्बन्धितविभागेभ्यः पत्रं प्रेष्यते।

सदस्यानां गरिमामयी उपस्थिति

अस्मिन महत्वपूर्णे बैठकं सम्मिलिता महोदयाः —
विनयकुमार-चौधरी (विधायकः), निवेदिता-सिंह (MLC), दुर्गेश-कुमार-राय, चन्द्र-किशोर-कुमार, अरुण-कुमार-झा, अनुरंजन-झा, धनश्याम-प्रसाद-कुशवाहा च।
तथा शिवलोचन-साहः (कुलपतिप्रतिनिधिः), नीरज-कुमारः (सचिवः), उपेन्द्र-कुमारः (परीक्षानियामकः), भवनाथ-झा (प्रधानसहायकः) च अपि उपस्थिताः आसन्।

रिपोर्ट – बिहार-संस्कृत-शिक्षा-बोर्ड, पटना
स्थानम् – १७, बैक् हार्डिंग् रोड्, पटना – ८००००१

तिब्बतस्य स्वतन्त्रतायाः, कैलास-मुक्तेः, चीनीवस्तूनां बहिष्कारस्य च समर्थनाय द्विदिनात्मकं राष्ट्रीयं सम्मेलनं दिल्ल्यां आयोज्यते

भारत-तिब्बत-सहयोग-मञ्चस्य राष्ट्रपरिषद्या बैठक २८-२९ जून २०२५ तमे दिने नजफगढ़-स्थिते शान्ति-ज्ञान-निकेतने भविष्यति

पटना, २७ जून २०२५

तिब्बतदेशस्य स्वतन्त्रता, कैलास-मानसरोवरस्य धार्मिक-सांस्कृतिक-मुक्तिः, तथा चीनी-उत्पन्नानां बहिष्कारं सम्बन्धिनीं विचारार्थं भारत-तिब्बत-सहयोग-मञ्चस्य राष्ट्रपरिषद्या द्विदिनात्मकं सम्मेलनम् २८-२९ जून २०२५ तमे दिने नवदिल्ली-नगरस्य गोयला-डेयरी-नजफगढ़-प्रदेशे स्थिते शान्ति-ज्ञान-निकेतने आयोज्यते।

एषा द्विदिनात्मक-बैठका मञ्चस्य भाविनीतिनिर्धारणं, संगठनस्य विस्तारः, तथा राष्ट्रव्यापिनी-जनजागरूकता-अभियानस्य दिशायाः विवेचनं च साधयिष्यति। अस्मिन् सम्मेलनम् देशस्य नानाप्रदेशेभ्यः आगता राष्ट्रीय-प्रादेशिक-पदाधिकारीणः भागं ग्रहीष्यन्ति।

दक्षिण-बिहार-प्रान्तात् प्रमुख-प्रतिनिधीनां सहभागः

दक्षिण-बिहार-प्रान्तात् राष्ट्रमन्त्री श्री-शिवाकान्त-तिवारी, राष्ट्र-कार्यसमिति-सदस्यः श्री-अनिल-श्रीवास्तव, प्रान्ताध्यक्षः डॉ. मिथिलेश-कुमारः, सह-क्षेत्र-संयोजिका श्रीमती पूनम्-सिन्‍हा, प्रान्त-महामन्त्री डॉ. मुकेश-कुमार-ओझा तथा ओम्-स्वस्तिक-प्रिया इत्येते प्रतिनिधयः दिल्ल्यां गत्वा भागं स्वीकर्तुं प्रस्थितवन्तः।

मूललक्ष्यम्—तिब्बतस्य पुनः स्वतन्त्ररूपेण स्थापनम्

एतस्मिन् प्रसङ्गे सूचना दत्त्वा प्रान्त-महामन्त्री डॉ. मुकेश-कुमार-ओझा महोदयः अवदत् यत्—
“भारत-तिब्बत-सहयोग-मञ्चस्य प्रमुखं लक्ष्यं तिब्बतं चीनी-अधिपत्यात् विमोच्य स्वातन्त्र्ययुक्तं शान्तिपूर्णं राष्ट्रं पुनः स्थापयितुम् अस्ति।”
सः अवदत् यत् कैलास-मानसरोवरस्य धार्मिक-सांस्कृतिक-मुक्तिः अपि मञ्चस्य प्राथमिकता अस्ति। देशे देशे चीनी-वस्तूनां पूर्णबहिष्काराय जागरूकता-अभियानः अपि सञ्चाल्यते।

सामरिक-सुरक्षा-सन्दर्भे तिब्बतस्य महत्त्वम्
डॉ. ओझा महोदयः पुनः अवदत्—
“तिब्बतस्य स्थिति भारतस्य उत्तरीसीमानां सुरक्षा-सङ्ग्रहे प्रथमप्राचीरिव अस्ति। यदि तिब्बतं स्वतन्त्रं भविष्यति, तर्हि भारतस्य भू-सुरक्षा दृढा भविष्यति। अतः तिब्बतस्वतन्त्रतां केवलं भूराजनीतिकं विषयं न मन्यामहे, किन्तु भारतस्य रक्षासुरक्षा-संस्कृतिक-चेतनाया अपि अंगं मन्यामहे।”
आगामी योजनाः, कूटनीति, स्वदेशी-चेतना च विषयं भविष्यतिसम्मेलने मञ्चस्य आगामी कार्ययोजनाः, अन्तरराष्ट्रीय-मञ्चे तिब्बतस्य पक्षे कूटनीतिक-प्रयत्नाः, युवावर्गस्य सक्रियता, स्वदेशी-आन्दोलनस्य तीव्रता इत्यादिषु विषयेऽपि व्यापकं चिन्तनं मन्थनं च भविष्यति।

वार्ता – भारत-तिब्बत-सहयोग-मञ्चः, पटना विभागः
दिनाङ्कः – २७ जून २०२५
स्थानम् – शान्ति-ज्ञान-निकेतन, नजफगढ़, दिल्ली

You Might Also Like

वी. एस. जे. महाविद्यालयस्य ‘रासेयो’-इकाई- माध्यमेन स्वच्छतापक्षोत्सवः आयोजितः

पीएमएवाई-यू २.० मध्ये बिहारस्य उत्कृष्टप्रदर्शनम्; द्वौ प्रतिष्ठितौ राष्ट्रियपुरस्कारौ प्राप्तौ

बिहारवार्ता-ःबिहारवार्ता-ः भागलपुरप्रमण्डलस्य अङ्गप्रदेशे बिहुलाविषहरीमहोत्सवस्य भव्यतया आयोजनम्

सामूहिकहिंसा-मिथ्यासङ्घट्ट-भित्तिभञ्जकशासनानां विरोधे भाकपा (माले) दलस्य प्रतिरोधप्रदर्शनम्

एल.एन.एम.यू. संस्थाने पर्यावरणजागरूकतासङ्गोष्ठी आयोजिता

TAGGED: बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article असमवार्ता- पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयकराष्ट्रियकार्यशालायाः पञ्चमदिवसः
Next Article विश्वे प्रथमवारं चालकं विना कारयानम् ग्राहकस्य गृहं प्राप्तम्, टेस्लाकम्पन्याः नूतनः कीर्तिमानः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?