By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: असमवार्ता- पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयकराष्ट्रियकार्यशालायाः पञ्चमदिवसः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > असमवार्ता: > असमवार्ता- पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयकराष्ट्रियकार्यशालायाः पञ्चमदिवसः
असमवार्ता:संस्कृतगतिविधयः

असमवार्ता- पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयकराष्ट्रियकार्यशालायाः पञ्चमदिवसः

डॉ.अमनदीप शर्मा
Last updated: 2025/06/28 at 7:20 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
Oplus_0
SHARE

असमवार्ता:-पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक- एकविंशतिदिनात्मक- राष्ट्रियकार्यशालायाः पञ्चमदिवसः सम्पन्नः
मैथिलीलिपे: सजीवप्रदर्शनम्, वैष्णवपदावलीपाण्डुलिपेः अनुलेखनं च प्रमुखम् आकर्षणम्
हिमसंस्कृतवार्ता:- डॉ. निशिकान्तपाण्डेयः, नलबारी असमप्रदेशः २७ जून २०२५। कुमारभास्करवर्म- संस्कृत– पुरातनाध्ययन- विश्वविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालयस्य साहाय्येन आयोज्यमानायाः “पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च” इति विषयक- एकविंशति: दिनात्मकायाः राष्ट्रियकार्यशालायाः पञ्चमदिवसः गरिमायुक्तरूपेण सम्पन्नः। एषः दिवसः विशेषरूपेण तेन चिह्नितः यतः अस्मिन् दिने मैथिलीलिपेः प्रत्यक्षलेखनाभ्यासः, वैष्णवपदावलिपरम्परायाः परिचयः, पाण्डुलिपे: प्रतिलेखनसमापनं च सम्पन्नम्।

दिनस्य शुभारम्भः गुवाहाटीविश्वविद्यालयस्य शोधछात्रेण प्रकाशशर्मा महोदयेन मन्त्रोच्चारणपूर्वकं कृतः। कार्यक्रमसञ्चालकत्वं विश्वविद्यालयस्य परीक्षानियन्त्रकः, सर्वदर्शनविभागाध्यक्षः च डॉ. रणजीत कुमार तिवारी महोदयेन विधत्तम्। तत्रैव सहयोगरूपेण डॉ. सुधाकर मिश्रमहोदयः (व्याकरणविभागः), डॉ. छबिलाल उपाध्यायः (साहित्यविभागः), डॉ. मैत्रेयी गोस्वामिमहोदया च (धर्मशास्त्रविभागः) स्वसहयोगं समर्पितवत्यः।

दिनस्य मुख्यवक्ता आसन्- पण्डितः भवानाथ झा महोदयः, यः मैथिलीलिपिपरम्परायाः प्रज्ञावान् विशेषज्ञः च अस्ति। तेन अद्य चतुर्षु सत्रेषु पाण्डुलिपिशिक्षणं समर्पितम्।

प्रथमसत्रे–
पं. भवानाथझा महोदयेन प्रथमसत्रे मैथिलीलिपेः विकासक्रमः, प्राचीनपाण्डुलिपिषु तस्य प्रयोगः, लिपिशास्त्रीयविलक्षणतायाः विवेचनं कृतम्। तेन दर्शितं यत् एषा लिपिः केवलं भाषिकसम्पदा न, अपि तु सांस्कृतिकचिह्नम् अपि अस्ति।

द्वितीयसत्रे–
द्वितीयसत्रे प्रतिभागिनां हस्ते लेखनाभ्यासः कारितः। पं. झा महोदयेन स्वहस्तेन मैथिलीलिपे: मन्त्रलेखनं प्रदर्श्य, प्रतिभागिनां लेखनस्य प्रशिक्षणं कृतम्। लिपिलेखनस्य सूक्ष्मविवरणम्, अक्षरनिर्माणशैली, स्पर्शबिन्दु, संयोगाक्षरादीनां रूपरेखा अपि तेन सम्यक् प्रकारेण निर्दिष्टा।

तृतीयसत्रे–
तृतीयसत्रे दीर्घकालादारभ्य प्रतिभागिभिः यः ‘वैष्णवपदावली’ इत्याख्यायाः पाण्डुलिपेः अनुलेखनप्रयत्नः आरब्धः, सः अद्य सम्पूर्णतां प्राप्तः। पं. भवानाथ झा महोदयस्य निर्देशनस्य अन्तर्गतम् अनुलेखितं ग्रन्थांशं पुनः पाठितं, निरीक्षितं च।

चतुर्थसत्रे–
चतुर्थसत्रे पं. झा महोदयेन स्वपाठकार्यस्य अन्तिमदिने पाण्डुलिपिविज्ञानस्य क्षेत्रे समर्पणबुद्धिं प्रकाशयन्, युवा शोधकानां प्रति उत्साहवर्धनं कृतम्। तेन पाण्डुलिपिशास्त्रस्य संरक्षणाय, प्राचीनलिपीनां पुनर्जीवनाय च आह्वानं कृतम्।
कार्यक्रमस्य समापनचरणे विश्वविद्यालयस्य कुलपतिः प्रो. प्रह्लाद रा. जोशीवर्यः पं. भवानाथ झा महोदयं विशेषसम्मानपत्रेण, स्मृतिचिह्नेन च सम्मानितवन्तः। कुलपतिना पाण्डुलिपिविज्ञानविषये झा-महोदयस्य निष्ठा, शिक्षापद्धतिः च विशेषरूपेण प्रशंसिता। कुलपतिभिः शुभाशिषः अपि सर्वे प्रतिभागिनः प्राप्ताः। कार्यक्रमे उपस्थिताः समस्तप्रतिभागिनः, भारतस्य विविधराज्येभ्यः आगताः शोधार्थिनः च, स्वानुभवानि व्यक्तवन्तः। केचन प्रथमवारं मैथिलीलिपेः दर्शनं कृत्वा हृष्टाः अभवन्, केचन अनुलेखनस्य प्रणालीं ग्राहयित्वा प्रेरिताः अभवन्।
इदं पञ्चमदिनं न केवलं लिपिशिक्षायाः दृष्ट्या महत्वपूर्णम् आसीत्, अपि तु प्राचीनभारतीय- ज्ञानपरम्परायाः संरक्षणे अपूर्वं योगदानं ददौ। कार्यशालायाः सततप्रवाहे एषः दिवसः एकं मनोहरं पृष्ठं यथारूपं योजितम्।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article हिमाचलवार्ता:-
Next Article बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?