चित्रकूटधाम्नि रामघट्टस्थ रामायणकुटीरे सम्पन्नः कार्यकर्तृविकासवर्गस्य समारोपः।
हिमसंस्कृतवार्ता:- आचार्यदीनदयालशुक्ल:, चित्रकूटधाम।
संस्कृतभारतीपूर्वोत्तरक्षेत्रस्य आयोजित: कार्यकतृविकासवर्ग: चित्रकूटधाम्नि रामघट्टस्थ रामायणकुटीरे परिसम्पन्नोऽयं वर्ग: संस्कृतभारतीद्वारा समायोजित:। समारोपसमारम्भस्य अध्यक्षतां कुर्वन् अखिलभारतीय: सङ्घटनमन्त्री जयप्रकाशवर्याणां पाथेयं कार्यकतृभि: सम्प्राप्तम्। सोऽवदत् अवदत् यत् संस्कृतभारती संघटनस्यविकासाय सर्वत्र नानाविधप्रकल्पा: सक्रियतया प्रवर्तमानाः सन्ति। अथ च संस्कृत-विश्वविद्यालयश्च स्वस्वस्तरेण संस्कृतप्रचाराय तत्पराः सन्ति। अस्माकं मूलं संस्कृतस्य संघटनस्यविकास इति वर्तते। अस्माकं संस्कृतभाषा भारतीयसंस्कृतेः पोषिका या शास्त्रसम्पद् अस्ति, सा सर्वथा संस्कृतभाषायाः एव प्रसूतिः। अतः अस्माकं व्यवहारे संस्कृतभाषाया: समावेशः अनिवार्यः अस्ति। वयं कार्यकर्तार: भाषाबलेन बहु किमपि साधयितुं शक्नुम:। सम्भाषणशिविराणां संचालनं अस्माकं बलं वर्तते। अस्मिन् वर्गे संस्कृतभारत्या: अखिलभारतीयमहामन्त्री श्रीमान् सत्यनारायणभट्टवर्य: श्रीमान् जयप्रकाशवर्याणां सानिध्यं दिनत्रयं कार्यकर्तृभि: सम्प्राप्तम्। अस्मिन् वर्गे संस्कृतभारत्या: अखिलभारतीयशलाकापरीक्षा संयोजक: प्रो. शिवशंकरमिश्रवर्य:, काशी हिन्दूविश्वविद्यालयस्य आचार्या: प्रो. रामनारायणद्विवेदिवर्याणां प्रो. रामशलाही द्विवेदिभागानां च सानिध्यं सम्प्राप्तम्। रामायणकुटीरस्य स्वामी श्री रामहृदयदास: ‘जिज्ञासु’ सर्वेषामपि धन्यवादवचनेन आशीर्वादं प्रदत्वान्। कानपुर- गोरक्ष- अवध- काशी चतुर्णां प्रान्तानां ३२ कार्यकर्तार: प्रशिक्षणं प्राप्तवन्तः। समारम्भस्य आरम्भः वैदिक- मङ्गलाचरणेन जातः। संस्कृतभाषायां प्रेरकवक्तव्यैः सांस्कृतिकप्रस्तुतिभिश्च उपस्थितजनाः प्रेरिताः। अस्मिन्नेव अवसरे क्षेत्रसंघटनमन्त्री प्रमोदपण्डित:, वर्गसंयोजक: डॉ. रत्नेशत्रिवेदी, जोखनपाण्डेय:, नागेशदूबे, नागेशपाण्डेय:, सर्वेशकुमारशाण्डिल्य: आश्रमस्य अन्ये विद्वज्जनाः विभिन्नसामाजिका: समागताः कार्यकर्तार: समुपस्थिताः आसन्।
चित्रकूटधाम्नि रामघट्टस्थ रामायणकुटीरे सम्पन्नः कार्यकर्तृविकासवर्गस्य समारोपः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment