Online संस्कृतशिक्षणम् आमुखपटले आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
वार्ताहर: – डॉ. नरेन्द्र राणा
गतदिवसे Online संस्कृतशिक्षणम् जनसंचार-आमुखपटलसमूहे गुजरातस्य अहमदाबादनगरस्य सार्वजनिक-माध्यमिकशिक्षकस्य देवेंद्रभाई शर्मा महोदयेन संस्कृतभाषाया: प्रचारार्थे आयोजिताया: एका-विशेषा-प्रतियोगिताया: आयोजनम् अभवत् । एषां संस्कृत-प्रश्नोत्तरी प्रतियोगितायां मध्यप्रदेशात् राहुल मिश्रा प्रथम-स्थानं प्राप्तं कृतवान्, द्वितीयं स्थाने छत्तीसगढ़त: अल्का पैंकरा, तृतीय-स्थाने च उत्तराखंडात् उमेश चन्द्र जोशी वर्तते। प्रतियोगिताया: पुरस्कार-प्रायोजक: गुजरातत: देवेंद्रभाई शर्मा, आयोजकश्च गुजरातत: राष्ट्रीय संस्कृत प्रचारक: जगदीश डाभी आसीत्। ध्यातव्यं वर्तते यद् Online संस्कृतशिक्षणम् द्वारा प्रतिरविवासरे ऑनलाइन संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: आयोजनं क्रियते। पुरस्कार-प्रायोजक: गुजरातत: देवेंद्रभाई शर्मा सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति । तेन सह उत्तराखंडात् संस्कृतरसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दास्यति ।