संस्कृतभारती, सौराष्ट्रप्रान्तस्य प्रान्तकार्यकर्तृ-अभ्यासवर्गः सुरेन्द्रनगरे सञ्जातः
वार्ताहर: – जगदीश डाभी, सुरेन्द्रनगरम्, गुजरातम्
संस्कृतभारती, सौराष्ट्रप्रान्तस्य सुरेन्द्रनगरे प्रान्तकार्यकर्तृ-अभ्यासवर्गस्य भव्यसुभारम्भः जातः। अस्य अभ्यासवर्गस्य मुख्यं प्रयोजनं संस्कृतभाषायाः प्रचार-प्रसारः एवञ्च सौराष्ट्रप्रान्तस्य कार्यकर्तॄणां कौशल्यवृद्धिश्च आसीत्। अस्मिन् कार्यक्रमे सौराष्ट्रस्य षोडशजनपदेभ्यः नानानगरग्रामेभ्यश्च चत्वारिंशत् अधिकाः संस्कृतभाषायाः अनुरागिणः कार्यकर्तारः च उत्साहेन भागं गृहीतवन्तः। अस्य अभ्यासवर्गस्य प्रारम्भः दीपप्रज्वलनेन संस्कृतश्लोक-उच्चारणेन च अभवत्, संस्कृतभारती-प्रान्तस्तरीय-कार्यकर्तृभिः नानासत्राणां सफलं सञ्चालनम् अभवत्। एतेषु सत्रेषु सर्वेषां कार्यकर्तॄणां सङ्घटनं कथं सुदृढं भवति तथा च कार्यकर्तॄणां निर्माणं च कथं भवति इति सूक्ष्मं मार्गदर्शनं दत्तम्। उद्घाटनसत्रस्य सफलं सञ्चालनं डा. मुकेशः ईढारीया अकरोत्, प्रासङ्गिकम् उद्बोधनं च प्रान्तमन्त्री डा. पङ्कजः त्रिवेदी अकरोत्। विधानसभासभ्यः श्री जगदीशः मकवाणः अवदत् यत् “संस्कृतभाषा अतीव समृद्धा सर्वभाषाणां जननी च अस्ति। सर्वैः भारतीयैः स्वबालकेभ्यः संस्कृतं शिक्षयितव्यम्।” श्री स्वामिनारायणगुरुकुलस्य सञ्चालकः स्वामी आनन्दप्रियदासः संस्कृतभाषायाः महत्त्वं स्पष्टयन् अवदत् यत् “यदि बालः संस्कृतं पठति तर्हि तस्य स्मृतिशक्तिः एकाग्रता च वर्धते।” कार्यकर्तॄणां कृते विशेषतः इयं कार्यशाला आयोजिता। अस्यां कार्यशालायां संस्कृतभाषां जनेभ्यः प्रापयितुं नवीनाः युक्तयः, यान्त्रिकमाध्यमानाम् उपयोगः, समुदाये च जागृतिः कथं करणीया इति मार्गदर्शनं दत्तम्। अस्मिन् कार्यक्रमे मुख्यवक्तारः संस्कृतभारत्याः अखिलभारतीय-सहसङ्घटनमन्त्री श्री दत्तात्रेयः वज्राल्ली, श्रीस्वामिनारायणमन्दिरस्य (राजकोटसंस्थानम्) सुरेन्द्रनगरस्य मुख्यसञ्चालकः स्वामीश्रीआनन्दप्रियदासः, संस्कृतभारती-सौराष्ट्रप्रान्तस्य मन्त्री डा. पङ्कजः त्रिवेदी, सुरेन्द्रनगरस्य विधानसभासभ्यः विधानसभायाः उपमुख्यदण्डकः श्रीजगदीशभाई मकवाणा, पूर्वविधानसभासभ्यः श्रीधनराजभाई केला, विश्वहिन्दूपरिषदः पूर्णकालिकसमर्पितः भास्करभाई, संस्कृतभारती-सुरेन्द्रनगरस्य अध्यक्षः श्रीसञ्जयभाई उमराळिया, संस्कृतभारती-विभागसंयोजकः डा. पियूषभाई मेहता, प्रान्तसहसम्पर्कप्रमुखः डा. भरतभाई कणजरीया, प्रान्तपत्राचारप्रमुखः डा. मुकेशः ईढारीया, प्रान्तशिक्षणप्रमुखः धर्मेन्द्रः मेमकिया, प्रान्तप्रचारप्रमुखः डा. किशोरः शेलडिया तथा च विधिधजनपदानाम् अनेके कार्यकर्तारः नगरस्य श्रेष्ठिनः उपस्थिताः आसन्। सर्वे संस्कृतभाषां जनव्यवहारस्य भाषां कर्तुं चिन्तनं मननं च कृतवन्तः। संस्कृतभारत्याः अखिलभारतीय-सङ्घटनमन्त्री अवदत् यत् “अस्य अभ्यासवर्गस्य प्रयोजन अस्ति संस्कृतभाषायाः प्रसाराय कार्यकर्तॄणां सशक्तीकरणम्, येन ते स्वक्षेत्रेषु संस्कृतशिक्षणस्य प्रसारं कुर्युः।”
संस्कृतभारत्याः एते प्रयासाः भारतीयसंस्कृतेः भाषायाः च संरक्षणाय महत्त्वपूर्णं सोपानं भविष्यति। भविष्ये अपि एतादृशाः कार्यक्रमाः भविष्यन्ति, येन संस्कृतभाषा जनानां जीवनस्य अभिन्नः भागः भवेत्। अभ्यासवर्गं सफलं कर्तुं संस्कृतभारती-सुरेन्द्रनगरस्य कार्यकर्तृभिः भृशं परिश्रमः कृतः इति संस्कृतभारती-प्रान्तप्रचारप्रमुखः डा. किशोरः शेलडिया स्वस्य पत्रिकायां निरूपितवान्।
*संपर्कसूत्रः*
प्रान्तप्रचारप्रमुखः
संस्कृतभारती, सौराष्ट्रप्रान्तः
Email: sheladiyakishor24@gmail.com