ऊनायाः पिपलूमेला राज्यस्तरीयः भविष्यति
कुटलैहड़ विधानसभाक्षेत्रे स्थितः ऐतिहासिकः त्रिदिवसीयः जिलास्तरीयः पिपलूमेला भव्यतया उत्साहेन च आरब्धः। उद्घाटनात् पूर्वम् उपमुख्यमन्त्री मुकेश-अग्निहोत्री बङ्गानातः पिप्लुपर्यन्तं आयोजितायां भव्य शोभायात्रायां भागं गृहीतवान् । एतेन सह उपमुख्यमन्त्री पिपलुमेलायां राज्यस्तरीयं स्थानं दातुं घोषितवान्। अस्याः घोषणायाः समाचारेण स्थानीयजनानाम्, भक्तानां च मध्ये उत्साहस्य तरङ्गः उत्पन्नः । तस्मिन् एव काले उपमुख्यमन्त्री उक्तवान् यत् आगामिषु वर्षेषु अस्य मेलायाः प्राचीनपरम्पराणां संरक्षणं कृत्वा अधिकतया भव्यरूपेण आयोजनं भविष्यति। उपमुख्यमन्त्री उक्तवान् यत् मेलासु सांस्कृतिककार्यक्रमेषु च स्थानीयहिमाचलीकलाकारानाम् प्राधान्यं दातुं अस्माकं बलं वर्तते।
ऊनायाः पिपलूमेला राज्यस्तरीयः भविष्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
